अथ पुण्याहम्
वरणान्तम्
शुचौ देशे
प्रागग्रान् दर्भान् संस्तीर्य
तेषु कुम्भं निधाय
व्याहृतिभिर् अद्भिर् आपूर्य
ऊर्ध्वाग्रं कूर्चं निक्षिप्य
गन्धादिभिर् अभ्यर्च्य
दर्भैः प्रच्छाद्य
अमुक-गोत्रस्य अमुक-शर्मणः
अमुक-कर्माङ्गं
पुण्याहं वाचयिष्ये
इति सङ्कल्प्य
चतुरो ब्राह्मणान् भोजयित्वा
तण्डुलं वा दत्वा
तैः दर्भ-हस्तैः
पुण्याहं वाचयेत् ।
वाचनम्
(सर्वाणि प्रार्थना-प्रतिवचनानि
प्रणव-पूर्वकम् एव कुर्युः । )
अञ्जलिं कृत्वा
मनस् समाधीयताम्
इति ब्राह्मणान् सम्पूज्य
“समाहित-मनसः स्म” इति तैः प्रत्युक्ते,
प्रसीदन्तु भवन्त
इति प्रार्थ्य, “प्रसन्नास् स्म” इति प्रत्युक्ते,
भवद्भिर् अनुज्ञातः पुण्याहं वाचयिष्य
इति अनुज्ञाप्य
“ओं वाच्यताम्” इति तैर् अनुज्ञातः,
उदकुम्भं सव्ये हस्ते निधाय
दक्षिणहस्तेन पिधाय
- कर्मणः पुण्याहं भवन्तो ब्रुवन्तु,
- पुण्याहं कर्मणेऽस्तु,
- कर्मणे स्वस्ति भवन्तो ब्रुवन्तु,
- स्वस्ति कर्मणेऽस्तु,
- कर्मणे ऋद्धिं भवन्तो ब्रुवन्तु
- कर्म ऋद्ध्यताम्
इति त्रिः त्रिः प्रार्थना प्रतिवचने कुर्युः ।
अथ
पुण्याह-समृद्धिर् अस्तु,
शिवं कर्मास्तु,
प्रजापतिः प्रीयताम्
इत्य् उक्ते
“अस्तु प्रीयतां भगवान् प्रजापतिः ब्रह्मा” ।
आशीर्वचनम्
अथ
शान्तिरस्तु पुष्टिरस्तु
तुष्टिरस्तु ऋद्धिरस्तु
आयुष्यमस्तु आरोग्यमस्तु
शिवं कर्मास्तु
इति सर्वे सह ब्रूयुः ।
अत्र अस्तु-शब्देषु
पात्रे किञ्चित् किञ्चित् जलं निनीय,
+++(अन्ते)+++ तज् जलं कुम्भे निनयेत् ।
प्रोक्षणम्
शुद्ध्य्-अर्थं पुण्याहं चेत्
आपोहिष्ठादिभिर् अभिमन्त्र्य
पुण्याहजलेन गृहादि प्रोक्षयेत् ।
दक्षिणा
ततस् तेभ्यो दक्षिणां दद्यात् ॥
॥ इति प्रयोग-चन्द्रिकायां पञ्चमः खण्डः ॥