०७

01 स एष प्राजापत्यः ...{Loading}...

स एष प्राजापत्यः कुटुम्बिनो यज्ञो नित्यप्रततः १

02 योऽतिथीनामग्निः स आहवनीयो ...{Loading}...

योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः २

03 ऊर्जम् पुष्टिम् प्रजाम् ...{Loading}...

ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ३

04 पयोपसेचनमन्नमग्निष्टोमसम्मितं सर्पिषोक्थ्यसम्मितम् मधुनातिरात्रसम्मितम् ...{Loading}...

पयोपसेचनमन्नमग्निष्टोमसंमितं सर्पिषोक्थ्यसंमितं मधुनातिरात्रसंमितं मांसेन द्वादशाहसंमितमुदकेन प्रजावृद्धिरायुषश्च ४

05 प्रिया अप्रियाश्चातिथयः स्वर्गं ...{Loading}...

प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं गमयन्तीति विज्ञायते ५

06 स यत्प्रातर्मध्यन्दिने सायमिति ...{Loading}...

स यत्प्रातर्मध्यंदिने सायमिति ददाति सवनान्येव तानि भवन्ति ६

07 यदनुतिष्ठत्युदवस्यत्येव तत् ...{Loading}...

यदनुतिष्ठत्युदवस्यत्येव तत् ७

08 यत्सान्त्वयतति सा दक्षिणा ...{Loading}...

यत्सान्त्वयतति सा दक्षिणा प्रशंसा ८

09 यत्संसाधयति ते विष्णुक्रमाः ...{Loading}...

यत्संसाधयति ते विष्णुक्रमाः ९

10 यदुपावर्तते सोऽवभृथः ...{Loading}...

यदुपावर्तते सोऽवभृथः १०

11 इति हि ब्राह्मणम् ...{Loading}...

इति हि ब्राह्मणम् ११

12 राजानञ् चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः ...{Loading}...

राजानं चेदतिथिरभ्यागच्छेच्छ्रेयसीमस्मै पूजामात्मनः कारयेत् १२

13 आहिताग्निञ् चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् ...{Loading}...

आहिताग्निं चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् । व्रात्य क्वावात्सीरिति । व्रात्य उदकमिति । व्रात्य तर्पयंस्त्विति १३

14 पुराग्निहोत्रस्य होमादुपांशु जपेत् ...{Loading}...

पुराग्निहोत्रस्य होमादुपांशु जपेत् । व्रात्य यथा ते मनस्तथास्त्विति । व्रात्य यथा ते वशस्तथास्त्विति । व्रात्य यथा ते प्रियं तथास्त्विति । व्रात्य यथा ते निकामस्तथास्त्विति १४

15 यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज ...{Loading}...

यस्योद्धृतेष्वहुतेष्वग्निष्वतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात्व्रात्य अतिसृज होष्यामि । इत्यतिसृष्टेन होतव्यम् । अनतिसृष्टश्चेज्जुहुयाद्दोषं ब्राह्मणमाह १५

16 एकरात्रञ् चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति ...{Loading}...

एकरात्रं चेदतिथीन्वासयेत्पार्थिवांल् लोकानभिजयति द्वितीययान्तरिक्ष्यांस्तृतीयया दिव्यांश्चतुर्थ्या परावतो लोकानपरिमिताभिरपरिमितांल् लोकानभिजयतीति विज्ञायते १६

17 असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ...{Loading}...

असमुदेतश्चेदतिथिर्ब्रुवाण आगच्छेदासनमुदकमन्नं श्रोत्रियाय ददामीत्येव दद्यात् । एवमस्य समृद्धं भवति १७

इति तृतीयः पटलः


    1. ‘Prājāpatya may mean either “created by Prajāpati” or sacred to Prajāpati."’–Haradatta.
     ↩︎
  1. in the first Sūtra the reception of guests had been compared to an everlasting Vedic sacrifice. This analog is traced further in detail in this Sūtra. One of the chief characteristics of a Vedic sacrifice is the vitāna, or the use of three sacred fires. Hence Āpastamba shows that three fires also are used in offering hospitality to guests. ↩︎

  2. भ्राष्ट्राग्नी इति क. च. पु. ↩︎ ↩︎ ↩︎ ↩︎

  3. दर्शपूर्णमासेष्टावृत्विजां दक्षिणात्वेन यद्देयमन्नं तदन्वाहार्यपचनम् । ↩︎ ↩︎ ↩︎ ↩︎

  4. तडागादि इति ड. पु. तडागखननादि इति घ. पु.

    अग्निहोत्रं तपस्सत्यं वेदानां चानुपालनम् ।
    आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥
    वापीकूपतडागादि देवतायतनानि च ।
    अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥

     ↩︎ ↩︎
  5. Regarding the Agniṣṭoma and the other sacrifices mentioned, see Aitareya-brāhmaṇa III, 8; IV, 1; IV, 4. ↩︎

  6. अग्निष्टोमोक्थ्यातिरात्राः ज्योतिष्टोमस्य संस्थाविशेषाः। ↩︎ ↩︎

  7. The morning, midday, and evening offerings offered at the great Vedic sacrifices are called Savanas. The object of this Sūtra is to prescribe the hospitable reception of guests at a times of the day, and to further describe the similarity of a guest-offering to a Vedic sacrifice. ↩︎

  8. Regarding the Udavasānīyā iṣṭi, see Aitareya-brāhmaṇa VIII, 5. It is the ‘concluding iṣṭi.’ ↩︎

  9. Dakṣiṇā is the reward given to priests who officiate at a sacrifice. ↩︎

  10. ‘The steps of Viṣṇu’ are three steps which the sacrificer has to make between the Vedi and the Āhavanīya-fire. See Pet. Diet. s. v. ↩︎

  11. ‘A guest,’ i.e. such a one as described above, II, 3, 6, 4 and 5. ↩︎

  12. An Agnihotrin is a Brāhmaṇa who offers certain daily burnt offerings called Agnihotra. The translation of the last clause renders tarpayantu, the reading of the Atharva-veda. ↩︎

  13. According to some, all these sentences must be pronounced; according to Haradatta, one only, which may be selected optionally. ↩︎

  14. Haradatta states that the Brāhmaṇa mentioned in the text is the Āharvaṇa-brāhmaṇa. See Atharva-veda. XV, 11-12. ↩︎