भोजनविधिः

भोजन-मात्रा

12 तथा चात्मनोऽनुपरोधङ् कुर्याद्यथा ...{Loading}...

तथा चात्मनोऽनुपरोधं कुर्याद्यथा कर्मस्वसमर्थः स्यात् १२

13 अष्टौ ग्रासा मुनेर्भक्ष्याः ...{Loading}...

‘अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशाऽरण्य-वासिनः ।
द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥
आहिताग्निर् अनरड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम्’

इति॥

05 औपवस्तम् एव कालान्तरे ...{Loading}...

औपवस्तम् एव कालान्तरे भोजनम् ५

भोजनस्थानम्

18 यस्य कुले म्रियेत ...{Loading}...

यस्य कुले म्रियेत न तत्रानिर्दशे भोक्तव्यम् १८

19 तथानुत्थितायां सूतिकायाम् ...{Loading}...

तथानुत्थितायां सूतिकायाम् १९

20 अन्तःशवे च ...{Loading}...

अन्तःशवे च २०

06 न नावि भुञ्जीत ...{Loading}...

न नावि भुञ्जीत ६

07 तथा प्रासादे ...{Loading}...

तथा प्रासादे +++(काष्ठमञ्चे)+++ ७

08 कृतभूमौ तु भुञ्जीत ...{Loading}...

कृतभूमौ तु भुञ्जीत ८

भोजनपात्रम्

09 अनाप्रीते मृण्मये भोक्तव्यम् ...{Loading}...

अनाप्रीते मृण्मये भोक्तव्यम् ९

10 आप्रीतञ् चेद् अभिदग्धे ...{Loading}...

आप्रीतं चेद् अभिदग्धे १०

11 परिमृष्टं लौहम् प्रयतम् ...{Loading}...

परिमृष्टं लौहं प्रयतम् ११

12 निर्लिखितन् दारुमयम् ...{Loading}...

निर्लिखितं दारुमयम् १२

13 यथागमं यज्ञे ...{Loading}...

यथागमं यज्ञे १३

भोजन-वेला

01 पाणिग्रहणादधि गृहमेधिनोर्व्रतम् ...{Loading}...

पाणिग्रहणादधि गृहमेधिनोर्व्रतम् १

02 कालयोर्भोजनम् ...{Loading}...

कालयोर्भोजनम् २

03 अतृप्तिश्चान्नस्य ...{Loading}...

अतृप्तिश्चान्नस्य ३

04 पर्वसु चोभयोर् उपवासः ...{Loading}...

पर्वसु चोभयोर् उपवासः ४

05 औपवस्तम् एव कालान्तरे ...{Loading}...

औपवस्तम् एव कालान्तरे भोजनम् ५

06 तृप्तिश् चान्नस्य ...{Loading}...

तृप्तिश् चान्नस्य ६

07 यच्चैनयोः प्रियं स्यात् ...{Loading}...

यच्चैनयोः प्रियं स्यात् तद् एतस्मिन्न् अहनि भुञ्जीयाताम् ७

विधिः

13 यस्याग्नौ न क्रियते ...{Loading}...

यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३

09 भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः ...{Loading}...

भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृजेत्सकृदुपस्पृशेत् ९

17 दद्भिरपूपस्य नापच्छिन्द्यात् ...{Loading}...

दद्भिरपूपस्य नापच्छिन्द्यात् १७

01 प्राङ्मुखोऽन्नानि भुञ्जीत उच्चरेद्दक्षिणामुखः ...{Loading}...

प्राङ्-मुखो ऽन्नानि भुञ्जीत
उच्चरेद् दक्षिणा-मुखः ।
उदङ्-मुखो मूत्रं कुर्यात्
प्रत्यक्-पादावनेजनम्

इति १

अन्ते शोधनम्

23 यत्र भुज्यते तत्समूह्य ...{Loading}...

यत्र भुज्यते तत्समूह्य निर्हृत्यावोक्ष्य तं देशम्, अमत्रेभ्यो +++(=पात्रेभ्यो)+++ लेपान्संकृष्याद्भिः संसृज्योत्तरतः शुचौ देशे रुद्राय निनयेत् । एवं वास्तु शिवं भवति २३

उच्छिष्टे

22 नाब्राह्मणायोच्छिष्टम् प्रयच्छेत् यदि ...{Loading}...

नाब्राह्मणायोच्छिष्टं प्रयच्छेत् ।
यदि प्रयच्छेद् - दन्तान् स्कुप्त्वा, तस्मिन्न् अवधाय प्रयच्छेत् २२

ब्रह्मचर्ये भोजनम्, भोज्याभोज्य-विवेकः, पाक-प्रतिग्रहादौ विधिनिषेधाः च+ अन्यत्रोक्ताः।

भोज्यता द्रव्यजन्या

उत्तमः कल्पः

01 विलयनम् मथितम् पिण्याकम् ...{Loading}...

विलयनं +++(=नवनीत-मलम्)+++, मथितं, पिण्याकं, +++(=तैलोत्पादनावशेषः)+++ मधु, मांसं च वर्जयेत् १

02 कृष्णधान्यं शूद्रान्नं ये ...{Loading}...

कृष्ण-धान्यं, शूद्रान्नं, ये चान्ये नाश्य-संमताः २

03 अहविष्यमनृतङ् क्रोधं येन ...{Loading}...

अहविष्यम्, अनृतं, क्रोधं,
येन च क्रोधयेत् ।
स्मृतिम् इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादशैतानि +++(प्राक्तनसूत्रोक्त-सहितानि)+++ वर्जयेत् ३

अभोज्येषु

16 हिंसार्थेनासिना मांसञ् छिन्नमभोज्यम् ...{Loading}...

हिंसार्थेनासिना मांसं छिन्नमभोज्यम् १६

23 यस्मिंश्चान्ने केशः स्यात् ...{Loading}...

यस्मिंश् चान्ने केशः स्यात् +++(पाकावस्थायां सति भिन्ना वार्ता)+++ २३

24 अन्यद्वामेध्यम् ...{Loading}...

अन्यद् वामेध्यम् २४

25 अमेध्यैरवमृष्टम् ...{Loading}...

अमेध्यैर् अवमृष्टम् २५

26 कीटो वामेध्यसेवी ...{Loading}...

कीटो वामेध्य-सेवी २६

27 मूषकलाङ्गं वा ...{Loading}...

मूषकलाङ्गं वा २७

17 कृतान्नम् पर्युषितमखाद्यापेयानाद्यम् ...{Loading}...

कृतान्नं पर्युषितम् अखाद्यापेयानाद्यम् १७

18 शुक्तञ् च ...{Loading}...

शुक्तं+++(=काल-पकेनाऽम्लीभूतं)+++ च १८

19 फाणितपृथुक तण्डुलकरम्ब भरुजसक्तुशाकमांसपिष्टक्षीरविकारौषधिवनस्पतिमूलफलवर्जम् ...{Loading}...

फाणित+++(=शर्कररस)+++-पृथुक+++(=चिउडा)+++-तण्डुल-करम्ब+++(=दधि+शक्तु)+++-भरुज+++(=भ्रष्टयव)+++-सक्तु-शाक-मांस-पिष्ट-क्षीर-विकारौषधि-वनस्पति-मूल-फल-वर्जम् १९

20 शुक्तञ् चापरयोगम् ...{Loading}...

शुक्तं चापरयोगम् २०

21 सर्वम् मद्यमपेयम् ...{Loading}...

सर्वं मद्यमपेयम् २१

22 तथैलकम् पयः ...{Loading}...

तथैलकं पयः २२

23 उष्ट्रीक्षीरमृगीक्षीरसन्धिनीक्षीरयमसूक्षीराणीति ...{Loading}...

उष्ट्रीक्षीर-मृगीक्षीर-सन्धिनीक्षीर-यमसूक्षीराणीति २३

24 धेनोश्चानिर्दशायाः ...{Loading}...

धेनोश्चानिर्दशायाः +++(प्रसवाद् १० दिनेभ्यः प्राक्)+++ २४

25 तथा कीलालौषधीनाञ् च ...{Loading}...

तथा कीलालौषधीनां च २५

26 करञ्जपलण्डुपरारीकाः ...{Loading}...

करञ्ज-पलण्डु-परारीकाः २६

27 यच्चान्यत् परिचक्षते ...{Loading}...

यच्चान्यत् परिचक्षते २७

28 क्याक्वभोज्यमिति हि ब्राह्मणम् ...{Loading}...

क्याक्वभोज्यमिति हि ब्राह्मणम् २८

29 एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् ...{Loading}...

एकखुरोष्ट्रगवयग्रामसूकरशरभगवाम् २९

30 धेनु+अनडुहोर्भक्ष्यम् ...{Loading}...

धेनु+अनडुहोर्भक्ष्यम् ३०

31 मेध्यमानडुहमिति वाजसनेयकम् ...{Loading}...

मेध्यमानडुहमिति वाजसनेयकम् ३१

32 कुक्कुटो विकिराणाम् ...{Loading}...

कुक्कुटो विकिराणाम् +++(=खनित्वा कीटान्यश्नन्ति ये तेषु, अभक्ष्यम्)+++ ३२

33 प्लवः प्रतुदाम् ...{Loading}...

प्लवः प्रतुदाम् ३३

34 क्रव्यादः ...{Loading}...

क्रव्यादः ३४

35 हंसभासचक्रवाकसुपर्णाश्च ...{Loading}...

हंसभासचक्रवाकसुपर्णाश्च ३५

36 क्रुञ्चक्रौञ्च वार्ध्राणसलक्ष्मणवर्जम् ...{Loading}...

क्रुञ्च-क्रौञ्च-वार्ध्राणस-लक्ष्मण-वर्जम् +++(अभक्ष्यम्)+++ ३६

37 पञ्चनखानाङ् गोधाकच्छपश्वाविट्शल्यकखण्गशशपूतिखषवर्जम् ...{Loading}...

पञ्चनखानां गोधा-कच्छप-श्वाविट्-शल्यक-खण्ग-शश-पूतिखष-वर्जम् ३७

39 सर्पशीर्षी मृदुरः क्रव्यादो ...{Loading}...

सर्पशीर्षी मृदुरः क्रव्यादो ये चान्ये विकृता यथा मनुष्यशिरसः ३९

10 आत्ततेजसाम् भोजनं वर्जयेत् ...{Loading}...

आत्त-तेजसां भोजनं वर्जयेत् १०

07 उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं ...{Loading}...

उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत् ७

विपदि

05 न सुभिक्षाः स्युः ...{Loading}...

न सुभिक्षाः स्युः ५

06 स्वयमप्यवृत्तौ सुवर्णन् दत्त्वा ...{Loading}...

स्वयमप्यवृत्तौ सुवर्णं दत्त्वा पशुं वा भुञ्जीत ६

07 नात्यन्तमन्ववस्येत् ...{Loading}...

नात्यन्तमन्ववस्येत् ७

08 वृत्तिम् प्राप्य विरमेत् ...{Loading}...

वृत्तिं प्राप्य विरमेत् ८

14 तस्यापि धर्मोपनतस्य ...{Loading}...

+++(शूद्रस्य)+++ तस्यापि धर्मोपनतस्य +++(= धर्मार्थम् आश्रितस्य)+++ १४

15 सुवर्णन् दत्वा पशुं ...{Loading}...

सुवर्णं दत्वा पशुं वा भुञ्जीत नात्यन्तमन्ववस्येद्वृत्तिं प्राप्य विरमेत् १५

भोज्यता परिकरजन्या

पाचक-परिवेषक-पङ्क्त्यादौ

21 अप्रयतोपहतमन्नमप्रयतन् न त्वभोज्यम् ...{Loading}...

अप्रयतोपहतम् अन्नम् अप्रयतं, न त्व् अभोज्यम् २१

विस्तारः (द्रष्टुं नोद्यम्)

अप्रयतम् अन्नम्
अग्नाव् अधिश्रितम्
अद्भिः प्रोक्षितं
भस्मना मृदा वा संस्पृष्टं
वाचा च प्रशस्तं
प्रयतं भवति
भोज्यं च ।

22 अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ...{Loading}...

अप्रयतेन तु शूद्रेणोपहृतम् अभोज्यम् २२

28 पदा वोपहतम् ...{Loading}...

पदा वोपहतम् २८

29 सिचा वा ...{Loading}...

सिचा +++(वस्त्राञ्चलेन)+++ वा २९

30 शुना वापपात्रेण वा ...{Loading}...

शुना वापपात्रेण वा दृष्टम् ३०

31 सिचा वोपहृतम् ...{Loading}...

सिचा वोपहृतम् ३१

32 दास्या वा नक्तमाहृतम् ...{Loading}...

दास्या वा नक्तमाहृतम् ३२

33 भुञ्जानं वा ...{Loading}...

भुञ्जानं वा ३३

01 यत्र शूद्र उपस्पृशेत् ...{Loading}...

यत्र शूद्र उपस्पृशेत् १

02 अनर्हद्भिर्वा समानपङ्क्तौ ...{Loading}...

अनर्हद्भिर्वा समानपङ्क्तौ २

03 भुञ्जानेषु व यत्रानूत्थायोच्छिष्टम् ...{Loading}...

भुञ्जानेषु व यत्रानूत्थायोच्छिष्टं प्रयच्छेदाचामेद्वा ३

04 कुत्सयित्वा वा यत्रान्नन् ...{Loading}...

कुत्सयित्वा वा यत्रान्नं दद्युः ४

05 मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ...{Loading}...

मनुष्यैरवघ्रातमन्यैर्वामेध्यैः ५

02 भाषाङ् कासङ् क्षवयुमित्यभिमुखो ...{Loading}...

भाषां कासं क्षवयुमित्यभिमुखो ऽन्नं वर्जयेत् २

03 केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ...{Loading}...

केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ३

04 आर्याधिष्ठिता वा शूद्राः ...{Loading}...

आर्याधिष्ठिता वा शूद्राः संस्कर्तारः स्युः ४

05 तेषां स एवाचमनकल्पः ...{Loading}...

तेषां स एवाचमनकल्पः ५

06 अधिकमहरहः केशश्मश्रुलोमनखवापनम् ...{Loading}...

अधिकमहरहः केशश्मश्रुलोमनखवापनम् ६

07 उदकोपस्पर्शनञ् च सह ...{Loading}...

उदकोपस्पर्शनं च सह वाससा ७

08 अपि वाष्टमीष्वेव पर्वसु ...{Loading}...

अपि वाष्टमीष्वेव पर्वसु वा वपेरन् ८

पाके

13 यस्याग्नौ न क्रियते ...{Loading}...

यस्याग्नौ न क्रियते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् १३

दातरि

14 नापणीयमन्नमश्नीयात् ...{Loading}...

नाऽऽपणीयम् +++(पक्वं)+++ अन्नम् अश्नीयात् १४

15 तथा रसान् आममांसमधुलवणानीति ...{Loading}...

तथा +++(ऽऽपणियान्)+++ रसान् +++(नाश्नीयात्)+++, आम+++(=अपक्व)+++-मांस-मधु-लवणानीति परिहाप्य १५

16 तैलसर्पिषी तूपयोजयेदुदकेऽवधाय ...{Loading}...

तैल-सर्पिषी तूपयोजयेद् उदकेऽवधाय १६

01 मध्वामम् मार्गम् मांसम् ...{Loading}...

मध्वामं मार्गं मांसं भूमिर् मूलफलानि रक्षा-गव्यूतिर्-निवेशनं युग्यघासश् चोग्रतः प्रतिगृह्याणि १

02 एतान्यपि नानन्तेवास्याहृतानीति हारीतः ...{Loading}...

एतान्यपि नानन्तेवास्याहृतानीति हारीतः २

03 आमं वा गृह्णीरन् ...{Loading}...

आमं वा गृह्णीरन् ३

04 कृतान्नस्य वा विरसस्य ...{Loading}...

कृतान्नस्य वा विरसस्य ४

09 त्रयाणां वर्णानाङ् क्षत्रियप्रभृतीनां ...{Loading}...

त्रयाणां वर्णानां क्षत्रियप्रभृतीनां समावृत्तेन न भोक्तव्यम् ९

13 सर्ववर्णानां स्वधर्मे वर्तमानानाम् ...{Loading}...

सर्ववर्णानां स्वधर्मे वर्तमानानां भोक्तव्यं, शूद्र-वर्जमित्येके १३

11 यत्राप्रायश्चित्तङ् कर्मासेवते प्रायश्चित्तवति ...{Loading}...

यत्राप्रायश्चित्तं कर्मासेवते प्रायश्चित्तवति ११

12 चरितनिर्वेषस्य भोक्तव्यम् ...{Loading}...

चरितनिर्वेषस्य भोक्तव्यम् १२

16 सङ्घान्नमभोज्यम् ...{Loading}...

सङ्घान्नमभोज्यम् १६

17 परिक्रुष्टञ् च ...{Loading}...

परिक्रुष्टं +++(=सर्वान् भोजनार्थम् आह्वान्ति ये)+++ च १७

18 सर्वेषाञ् च शिल्पाजीवानाम् ...{Loading}...

सर्वेषां च शिल्पाजीवानाम् १८

19 ये च शस्त्रमाजीवन्ति ...{Loading}...

ये च शस्त्रमाजीवन्ति १९

20 ये चाधिम् ...{Loading}...

ये चाधिम् +++(भाटकग्राहकाः)+++ २०

21 भिषक् ...{Loading}...

भिषक् २१

22 वार्धुषिकः ...{Loading}...

वार्धुषिकः +++(वृद्ध्युपजीविनः)+++ २२

23 दीक्षितोऽक्रीतराजकः ...{Loading}...

दीक्षितोऽक्रीतराजकः २३

24 अग्नीषोमीयसंस्थायामेव ...{Loading}...

अग्नीषोमीयसंस्थायामेव २४

25 हुतायां वा वपायान् ...{Loading}...

हुतायां वा वपायां दीक्षितस्य भोक्तव्यम् २५

26 यज्ञार्थे वा निर्दिष्टे ...{Loading}...

यज्ञार्थे वा निर्दिष्टे शेषाद्भुञ्जीरन्न् इति हि ब्राह्मणम् २६

27 क्लीबः ...{Loading}...

क्लीबः २७

28 राज्ञाम् प्रैषकरः ...{Loading}...

राज्ञां प्रैषकरः २८

29 अहविर्याजी ...{Loading}...

अहविर्याजी २९

30 चारी ...{Loading}...

चारी ३०

31 अविधिना च प्रव्रजितः ...{Loading}...

अविधिना च प्रव्रजितः ३१

32 यश्चाग्नीनपास्यति ...{Loading}...

यश्चाग्नीनपास्यति ३२

33 यश्च सर्वान्वर्जयते, सर्वान्नी ...{Loading}...

यश्च सर्वान्वर्जयते, सर्वान्नी च श्रोत्रियो +++(ऽपि)+++, निराकृतिर् +++(=अस्वाध्यायः)+++ वृषलीपतिः ३३

02 मत्त उन्मत्तो बद्धो ...{Loading}...

मत्त उन्मत्तो बद्धो ऽणिकः+++(=पुत्राच् छ्रुतग्राही)+++ प्रत्युपविष्टो+++(?)+++ यश्च प्रत्युपवेशयते तावन्तं कालम् १ …

02 क आश्यान्नः ...{Loading}...

क अश्यान्नः २

03 य ईप्सेद् इति ...{Loading}...

य ईप्सेद्+++(=प्रार्थ्यते [भोक्तव्यमिति, तस्यान्न])+++ इति कण्वः ३

04 पुण्य इति कौत्सः ...{Loading}...

पुण्य +++(अन्न)+++ इति कौत्सः ४

06 यः कश्चिद् दद्यादिति ...{Loading}...

यः कश्चिद् दद्यादिति वार्ष्यायणिः +++(आपस्तम्बेनायम् पक्षो निराकरिष्यते ऽग्रे)+++५

06 यदि हि रजः ...{Loading}...

यदि ह रजः +++(=पापम्)+++ स्थावरं - पुरुषे भोक्तव्यम्, अथ चेच् चलं - दानेन निर्दोषो भवति ६

07 शुद्धा भिक्षा भोक्तव्या ...{Loading}...

शुद्धा भिक्षा भोक्तव्या +++(इति)+++ एककुणिकौ काण्वकुत्सौ तथा पुष्करसादिः ७

08 सर्वतोपेतं वार्ष्यायणीयम् ८ ...{Loading}...

सर्वतोपेतं +++(=अप्रार्थ्य लब्धम् भोज्यमिति)+++ वार्ष्यायणीयम् +++(मतम् - आपस्तम्बो निराकरिष्यत्यग्रे)+++८

09 पुण्यस्येप्सतो ...{Loading}...

पुण्यस्येप्सतो +++(ऽन्नस्य)+++ भोक्तव्यम् +++(इत्यापस्तम्बनिश्चयः)+++ ९

10 पुण्यस्याप्य् अनीप्सतो न ...{Loading}...

पुण्यस्याप्य् +++(दातुम्)+++ अनीप्सतो न भोक्तव्यम् १०

11 यतः कुतश्चाभ्युद्यतम् भोक्तव्यम् ...{Loading}...

यतः कुतश्चाभ्युद्यतं भोक्तव्यम् ११

12 नाननियोगपूर्वमिति हारीतः ...{Loading}...

नाननियोगपूर्वमिति हारीतः १२

13 अथ पुराणे श्लोकावुदाहरन्ति ...{Loading}...

अथ पुराणे श्लोकावुदाहरन्ति । उद्यतामाहृतां भिक्षां पुरस्तादप्रवेदिताम् । भोज्यां मेने प्रजापतिरपि दुष्कृतकारिणः । न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च । न च हव्यं वहत्यग्निर्यस्तामभ्यधिमन्यत इति १३

14 चिकित्सकस्य मृगयोः शल्यकृन्तस्य ...{Loading}...

चिकित्सकस्य मृगयोः शल्यकृन्तस्य पाशिनः । कुलटायाः षण्ढकस्य च तेषामन्नमनाद्यम् १४

15 अथाप्युदाहरन्ति अन्नादे भ्रूणहा ...{Loading}...

अथाप्युदाहरन्ति । अन्नादे भ्रूणहा मार्ष्टि अनेना अभिशंसति । स्तेनः प्रमुक्तो राजनि याचन्ननृतसङ्कर इति १५