१४ कूश्माण्डहोमविधिः

॥ कूश्माण्डहोमविधिः ॥

अमावास्यायां, पौर्णमास्यां वा अन्यत्र वा विदितकाले सर्वाणि केशश्मश्रुनखलोमानि वापयित्वा, स्नात्वा, प्रातरौपासनं कृत्वा,

ओं नम॒स्सद॑से । नम॒स्सद॑स॒स्पत॑ये । नमः॒ सखी॑नां पुरो॒गाणां॒ चक्षु॑षे । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै ॥ सप्र॑थ स॒भां मे॑ गोपाय । ये च॒ सभ्या᳚स्सभा॒सदः॑ । तानि॑न्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम् ॥ ओं सर्वेभ्यः श्रीवैष्णवेभ्यो नमः [[TODO:परिष्कार्यम्??]]

इति श्रीवैष्णवान् प्रणम्य,

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

…. गोत्रस्य…. शर्मणः सपत्नीकस्य मम (विवाहप्रभृति एतत्क्षणपर्यन्तम् = इति सेतुस्नानाकरणे) (तत्करणे तु = सेतुस्नानप्रभृति एतत्क्षणपर्यन्तम् इति) (प्रपन्नस्य तु प्रपत्त्युत्तरक्षणमारभ्य एतत्क्षणपर्यन्तमिति निर्देशपूर्वकं) सम्भावितबुद्धिपूर्वक, अबुद्धिपूर्वक, अकृत्यकरण, कृत्याकरण, भगवदपचार, भागवतापचार, असह्यापचाररूप, नानाविधानन्तापचार, अस्पृश्यस्पर्शन, अभक्ष्यभक्षण, अभोज्यभोजन, अपेयपान, अपाङ्क्तेयसहभोजन, अप्रवेश्यप्रवेचन, असम्भाष्यसम्भाषणादिजनितभगवन्निग्रहसङ्कल्पशान्तिद्वारा, भ्रूणहत्याया अर्वाञ्चि एनांसि यावन्ति मयि सम्भवन्ति तावतामेनसां निर्हरणद्वारा च भगवत्प्रीत्यर्थं सकृत्कूश्माण्डैर्होतुं योग्यतासिद्धिमनुगृहाण

इति सम्प्रार्थ्य, त्रिः प्राणान् आयम्य गुरुपरम्परामनुसन्धाय,

स्वशेषभूतेन मया स्वीयैः सर्वपरिच्छदैः विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम्

इत्युक्त्वा,

हरिरों तत्… भगवत्प्रीत्यर्थं …. गोत्रस्य…. शर्मणः सपत्नीकस्य मम (विवाहप्रभृति एतत्क्षणपर्यन्तं = इति सेतुस्नानाकरणे)

[[74]]

(तत्करणे तु = सेतुस्नानप्रभृति एतत्क्षणपर्यन्तम् इति) (प्रपन्नस्य तु प्रपत्त्युत्तरक्षणमारभ्य एतत्क्षणपर्यन्तमिति निर्देशपूर्वकं) सम्भावितबुद्धिपूर्वक, अबुद्धिपूर्वक, अकृत्यकरण, कृत्याकरण, भगवदपचार, भागवतापचार, असह्यापचाररूप, नानाविधानन्तापचार, अस्पृश्यस्पर्शन, अभक्ष्यभक्षण, अभोज्यभोजन, अपेयपान, अपाङ्क्तेयसहभोजन, अप्रवेश्यप्रवेचन, असम्भाष्यसम्भाषणादिजनितभगवन्निग्रहसङ्कल्पशान्तिद्वारा, भ्रूणहत्याया अर्वाञ्चि एनांसि यावन्ति मयि सम्भवन्ति तावतामेनसां निर्हरणद्वारा च भगवत्प्रीत्यर्थं सकृत्कूश्माण्डैर्होष्यामि

इति सङ्कल्प्य (‘कृतञ्चे’ति मन्त्रं, बलमन्त्रं च अनुसन्धाय) पत्न्यर्थं पुनः प्राणान् आयम्य, पूर्ववत् सङ्कल्प्य, सात्त्विकत्यागं कृत्वा, स्थालीपाकवत् हविःश्रपणादिकं, पात्रसादनकाले चरुः, समिद्द्वयं च सादयित्वा अग्निमुखान्तं कृत्वा, अवदानधर्मेण अवदाय, सावित्रीं पुरोऽनुवाक्यामनूच्य, सावित्र्यैव याज्यया जुहोति ॥

ओं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भ॒र्गो दे॒वस्य॑ धीमहि । धियो॒ योनः॑ प्रचो॒दयोम् ॥
तत्स॑वि॒तुर्वरे᳚ण्यं॒ भ॒र्गो॑ दे॒वस्य॑ धीमहि । धियो॒ योनः॑ प्रचो॒दया॒त् स्वाहा᳚ ॥[[TODO:परिष्कार्यम्??]]
(सवित्र इदम्)

स्विष्टकृदर्थमवदाय, अन्तः परिधि सादयित्वा, ‘यद्देवा देवहेलनं’ इत्यनुवाकत्रयेण आज्याहुतीर्जुहोति ॥

१. यद्दे॑वा देव॒हेळ॑नं॒ देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा॑न्मा मुञ्चत॒र्तस्य॒र्तेन॒ मामि॒त स्वाहा᳚ [[TODO:परिष्कार्यम्??]]
(देवेभ्य आदित्येभ्य इदं न मम) ।

[[75]]

२. देवा॑ जीवनका॒म्या यद्वा॒चाऽनृ॑तमूदि॒म ।
तस्मा᳚न्न इ॒ह मु॑ञ्चत॒ विश्वे॑ देवास्स॒जोष॑सः॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(विश्वेभ्यो देवेभ्य इदं न मम) ॥

३. ऋ॒तेन॑ द्यावापृथिवी ऋ॒तेन॒ त्वँ स॑रस्वति । कृ॒तान्नः॑ पा॒ह्येन॑सो॒ यत्किञ्चानृ॑तमूदि॒म स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(द्यावापृथिवीभ्यां सरस्वत्या इदं न मम) ॥

४. इ॒न्द्रा॒ग्नी मि॒त्रावरु॑णौ॒ सामो॑ धा॒ता बृह॒स्पतिः॑ । ते नो॑ मुञ्च॒न्त्वेन॑सो॒ यद॒न्यकृ॑तमारि॒म स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(इन्द्राग्निभ्यां मित्रावरुणाभ्यां सोमोधातृबृहस्पतिभ्य इदं न मम) ॥

५. स॒जा॒त॒शँ॒सादु॒त जा॑मिशँ॒साज्ज्याय॑स॒श्शँसा॑दु॒त वा॒ कनी॑यसः ।
अना॑धृष्टं दे॒वकृ॑तं॒ यदे॑न॒स्तस्मा॒त्त्वम॒स्माञ्जा॑तवेदो मुमुग्धि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नेय जातवेदस इदम्) ॥

६. यद्वा॒चा य॒न्मन॑सा बा॒हुभ्या॑मू॒रुभ्या॑मष्ठी॒वद्भ्याँ॑ शि॒श्नैर्यदनृ॑तं च कृ॒मा व॒यम् ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्रमु॑ञ्चतु चकृ॒म यानि॑ दुष्कृ॒ता स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये गार्हपत्यायेदं न मम) ॥

७. येन॑ त्रि॒तो अ॑र्ण॒वान्नि॑र्ब॒भूव॒ येन॒ सूर्यं॒ तम॑सो निर्मु॒मोच॑ ।
येनेन्द्रो॒ विश्वा॒ अज॑हा॒दरा॑ती॒स्तेना॒हं ज्योति॑षा॒ ज्योति॑रानशा॒न आ᳚क्षि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नेय[[अग्नये??]] ज्योतिष इदं न मम) ॥

८. यत्कुसी॑द॒मप्र॑तीत्तं॒ मये॒ह येन॑ य॒मस्य॑ नि॒धिना॒ चरा॑मि ।
ए॒तत्तद॑ग्ने अनृ॒णो भ॑वामि॒ जीव॑न्ने॒व प्रति तत्ते॑ दधामि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम) ॥

[[76]]

९. यन्मयि॑ मा॒ता गर्भे स॒ति एन॑श्च॒कार॒ यत्पि॒ता । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु ।
दुरि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये गार्हपत्याय)

१०. यदा॑ऽऽपि॒पेष॑ मा॒तरं॑ पि॒तर᳚म् । पु॒त्रः प्रमु॑दितो॒ धयन्न्॑ ।
अहिँ॑सितौ पि॒तरो॒ मया॒ तत् । तद॑ग्ने अनृ॒णो भ॑वामि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

११. यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्याम् । यन्मा॒तरं॑ पि॒तरं॑ वा जिहिँसि॒म । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दुरि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚ । [[TODO:परिष्कार्यम्??]]
(अग्नये गार्हपत्याय इदं न मम) ।

१२. यदा॒शसा॑ नि॒शसा॒ यत्प॑रा॒शसा॑ । यदेन॑श्चकृ॒मा नूत॑नं॒ यत्पु॑रा॒णम् । अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दुरि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये गार्हपत्याय इदं न मम) ।

१३. अति॑क्रामामि दुरि॒तं यदेनः॑ । जहा॑मि रि॒प्रं प॑र॒मे स॒धस्थे᳚ ।
यत्र॒ यन्ति॑ सु॒कृतो॒ नापि॑ दु॒ष्कृतः॑ । तमारो॑हामि सु॒कृ॒तां॒ नु लो॒कँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

१४. त्रि॒ते दे॒वा अ॑मृजतै॒तदेनः॑ । त्रि॒त ए॒तन्म॑नु॒ष्ये॑षु मा मृ॒जे । ततो॑ मा॒ यदि॒ किञ्चिदान॒शे ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सः । गार्ह॑पत्यः॒ प्रमु॑ञ्चतु । दु॒रि॒ता यानि॑ चकृ॒म । क॒रोतु॒ माम॑ने॒नसँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये गार्हपत्याय इदं न मम) ॥

[[77]]

१५. दि॒वि जा॒ता अ॒फ्सु जा॒ताः । या जा॒ता ओष॑धीभ्यः ।
अथो॒ या अ॑ग्नि॒जा आपः॑ । ता न॑श्शुन्धन्तु॒ शुन्ध॑नी॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अद्भ्यः शुन्धनीभ्य इदं न मम) ।

१६. यदापो॒ नक्त॑ दुरि॒तं चरा॑म । यद्वा॒ दिवा॒ नूत॑नं॒ यत्पु॑रा॒णम् । हिर॑ण्यवर्णा॒स्तत॒ उत्पु॑नीत न॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अद्भ्यः हिरण्यवर्णाभ्याम् इदं न मम) ।

१७. इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृ॒डय । त्वाम॑व॒स्युरा च॑के॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (वरुणाय इदं न मम) ॥

१८. तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयुः॒ प्रमो॑षी॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वरुणाय इदं न मम) ।

१९. त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्रमु॑मुग्ध्य॒स्मत् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नीवरुणाभ्याम् इदं न मम) ।

२०. सत्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्वनो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डीकँ सु॒हवो॑ न एधि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नीवरुणाभ्याम् इदम्)

२१. त्वम॑ग्ने॒ अ॒याऽसि॑ । अ॒या सन्मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यमू॑हिषे । अ॒या नो॑ धेहि भे॒षजँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अयस इदं न मम) ।

[[78]]

२२. यददी᳚व्यन्नृ॒णम॒हं ब॒भूवादि॑त्सन्वा सञ्ज॒गर॒ जने᳚भ्यः ।
अ॒ग्निर्मा॒ तस्मा॒दिन्द्र॑श्च संविदा॒नौ प्रमु॑ञ्चताँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नीन्द्राभ्यामिदं न मम)

२३. यद्धस्ता᳚भ्यां च॒कर॒ किल्बि॑षाण्य॒क्षाणां᳚ व॒ग्नुमु॑प॒जिघ्न॑मानः ।
उ॒ग्रम्प॒श्या च॑ रा॒ष्ट्र॒भृच्च॒ तान्य॑प्स॒रसा॒वनु॑दत्तामृ॒णानि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(उग्रं पश्या राष्ट्रभृद्भ्याम् अप्सरोभ्य इदम्)

२४. उग्र॑म्पश्ये॒ राष्ट॑भृत्किल्वि॑षाणि॒ यद॒क्षवृ॑त्त॒मनु॑दत्तमे॒तत् ।
नेन्न॑ ऋ॒णानृ॒णव॒ इत्स॑मानो य॒मस्य॑ लो॒के अधि॑ रज्जु॒राय॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(उग्रं पश्या राष्ट्रभृद्भ्याम् इदं न मम)

२५. अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाँ॑सि शिश्रथः कृ॒तानि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]

२६. उदु॑त्त॒मं व॑रुण॒पाश॑म॒स्मदवा॑ध॒मं विम॑ध्य॒मँ श्र॑थाय ।
अथा॑ व॒यमा॑दि॒त्यव्र॒ते तवाना॑गसो॒ अदि॑तये स्याम॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वरुणायेदं न मम) ।

२७. इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (वरुणाय इदं न मम) ॥

२८. तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शँस॒ मा न॒ आयुः॒ प्रमो॑षी॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वरुणाय इदं न मम) ।

[[79]]

२९.त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि॒ प्रमु॑मुग्ध्य॒स्मत् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नीवरुणाभ्याम् इदं न मम) ।

३०. सत्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्वनो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डी॒कँ सु॒हवो॑ न एधि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अग्नीवरुणाभ्याम् इदम्)

३१. संक॑सुको॒ विकु॑सुको निर्ऋ॒थो यश्च॑ निस्व॒नः ।
ते(२)ऽस्मद्यक्ष्म॒मना॑गसो दू॒राद्दू॒रम॑चीच॒तँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(संकुसुकविकुसुकनिर्ऋथ निःस्वनेभ्य इदं न मम) ।

३२. निर्य॑क्ष्ममचीचते कृ॒त्यां निर्ऋ॑तिं च ।
तेन॒ यो(२॒)ऽस्मत्समृ॑च्छातै॒ तम॑स्मै॒ प्रसु॑वामसि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(निर्यक्ष्म निर्ऋतिभ्यामिदं न मम) ।

३३. दु॒श्शँ॒सा॒नु॒शँ॒साभ्यां॑ घ॒णेना॑नुघ॒णेन॑ च ।
तेना॒न्यो(२॒)ऽस्मत्समृ॑च्छाते॒ तम॑स्मै॒ प्रसु॑वामसि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(दुःशँसानुशँसाभ्यां घणानुघणाभ्यामिदं न मम) ।

३४. सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रम॑न्महि॒ मन॑सा॒ सँशि॒वेन॑ ।
त्वष्टा॑ नो॒ अत्र॒ विद॑धातु रा॒योऽनु॑ मार्ष्टु त॒न्वो (२॒) यद्विलि॑ष्टँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(त्वष्ट्र इदं न मम) |

[[80]]

३५. आयु॑ष्टे विश्वतो॑ दधद॒यम॒ग्निर्वरे᳚ण्यः ।
पुन॑स्ते प्रा॒ण आया॑ति॒ परा॒ यक्ष्मँ॑ सुवामि ते॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

३६. आ॒यु॒र्दा अ॑ग्रे ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।
घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि रक्ष॑तादि॒मँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

३७. इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ति॒ग्ममोजो॑ वरुण॒ सँशि॑शाधि ।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(विश्वेभ्यो देवभ्य इदं )

३८. अग्न॒॒ आयूँ॑षि पवस॒ आसु॒वोर्ज॒मिषं॑ च नः ।
आ॒रे बा॑धस्व दु॒च्छुनाँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये पवमानायेदं न मम)

३९. अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्च॑स्सु॒वीर्य᳚म् ।
दध॑द्र॒यिं मयि॒ पोषँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये पवमानायेदं न मम)

४०. अ॒ग्निर् ऋषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः ।
तमी॑महे महाग॒यँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये पवमानायेदं न मम)

४१. अग्ने॑ जा॒तान्प्रणु॑दानस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जतवेदो नुदस्व ।
अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ळञ्छर्म॑न्ते स्याम त्रि॒वरू॑थ उ॒द्भौ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये जातवेदस इदं न मम) ।

[[81]]

४२. सह॑सा जा॒तान्प्रणु॑दानस्स॒पत्ना॒न्प्रत्यजा॑ताञ्जतवेदो नुदस्व ।
अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यँ स्या॑म॒ प्रणु॑दानस्स॒पत्ना॒न्॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये जातवेदस इदम्)

४३. अग्ने॒ यो नो॒ऽभितो॒ जनो॒ वृको॒ वारो॒ जिघाँ॑सति ।
ताँस्त्वं वृ॑त्रहञ्जाहि॒ वस्व॒स्मभ्य॒मा भ॑र॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

४४. अग्ने॒ यो नो॑ऽभि॒दास॑ति समा॒नो यश्च॒ निष्ट्यः॑ ।
तं व॒यँ स॒मिधं॑ कृ॒त्वा तु॒भ्य॑म॒ग्ने॒ऽपि॑दध्मसि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

४५. यो न॒श्शपा॒दश॑पतो॒ यश्च॑ न॒श्शप॑त॒श्शपा᳚त् ।
उ॒षाश्च॒ तस्मै॑ नि॒म्रुक्च॒ सर्वं॑ पा॒पँ समू॑हताँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(उषो निम्रुग्भ्याम् इदं न मम) ।

४६. यो न॑स्स॒पत्नो॒ यो रणो॒ मर्तो॑ऽभि॒दास॑ति देवाः ।
इ॒ध्मस्ये॑व प्र॒क्षाय॑तो॒ मा तस्योच्छे॑षि॒ किंच॒न स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

४७. यो मों द्वष्टि॑ जातवेदो॒ यं चा॒हं द्वेष्मि॒ यश्च॒ माम् ।
सर्वाँ॒स्तान॑ग्ने॒ सन्द॑ह॒ याँश्चा॒हं द्वेष्मि॒ ये च॒ माँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

४८. यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑ ।
निन्दा॒द्यो अ॒स्मान्दिप्सा᳚च्च॒ सर्वाँ॒ स्तान्म॑ष्म॒षाकु॑रु॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

[[82]]

४९. सँशि॑तं मे॒ ब्रह्म॒ सँशि॑तं वी॒र्यां (१॒) बल᳚म् ।
सँशि॑तं क्ष॒त्रं मे॑ जि॒ष्णु यस्या॒हमस्मि॑ पु॒रोहि॑त॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम) ।

५०. उदे॑षां बा॒हू अ॑तिर॒मुद्वर्चो॒ अथो॒ बल᳚म् ।
क्षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ स्वां(२) अ॒हँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(ब्रह्मण इदं न मम) ।

५१. पुन॒र्मनः॒ पुन॒रायु॑र्म॒ आगा॒त्पुन॒श्चक्षुः॒ पुन॒श्श्रोत्रं॑ म॒ आगा॒त्पुनः॑ प्रा॒णः पुन॒राधी॑तं म आगा॑त् ।
वै॒श्वा॒न॒रो मेऽद॑ब्धस्तनू॒पा अव॑बाधतां दुरि॒तानि॒ विश्वा॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये वैश्वानराय इदं न मम) ।

५२. सिँ॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या ।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(त्विष्यै देव्या इदं न मम)

५३. या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒ पुरु᳚षस्य मा॒यौ ।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(त्विष्यै देव्या इदं न मम) ।

५४. या ह॒स्तिनि॑ दी॒पिनि॒ या हिर॑ण्ये । त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न्वर्च॑सा संविदा॒ना स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(त्विष्यै देव्या इदं न मम)।

५५. रथे॑ अ॒क्षेषु॑ वृष॒भस्य॒ वाजे᳚ । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मै᳚ ।
इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॑ । सा न आग॒न्वर्च॑सा संविदा॒ना स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(त्विष्यै देव्या इदं न मम) ।

[[83]]

(५६-५९). अग्नेऽभ्यावर्तिन्निति चतसृणाम् अग्निर्ऋषिः त्रिष्टुप् छन्दः अभ्यावर्तिनो देवता - आज्यहोमे विनियोगः ॥

५६. अग्ने᳚ऽभ्यावर्तन्न॒भि न॒ आ व॑र्त॒स्वाऽऽयु॑षा वर्च॑सा स॒न्या मे॒धया᳚ प्र॒जया॒ धने॑न॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अभ्यावर्तिन इदं न मम) ।

५७. अग्ने॑ अङ्गिरश्श॒तन्ते॑ सन्त्वा॒वृत॑स्स॒हस्र॑न्त उपा॒वृतः॑ ।
तासां॒ पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो॑ न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अभ्यावर्तिन इदं न मम)

५८. पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षाऽऽयु॑षा ।
पुन॑र्नः पाहि वि॒श्वत॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये अभ्यावर्तिन इदं न मम) ।

५९. स॒ह र॒य्या नि व॑र्त॒स्वाऽग्ने॒ पिन्व॑स्व॒ धार॑या ।
वि॒श्वफ्स्नि॑या विश्वत॒स्परि॒ स्वाहा᳚ ॥
(अग्नये अभ्यावर्तिन इदं न मम) ॥ [[TODO:परिष्कार्यम्??]]

(समित्पाणिः अग्नेर्दक्षिणतः पत्न्या सह उदङ्मुखः तिष्ठन् ‘वैश्वानराय प्रतिवेदयामः’ इति द्वादशर्चेन सूक्तेन अग्निमुपस्थाय, ‘यन्मे मनसा’ इत्यनया स्वाहान्ततया समिधमग्नौ प्रक्षिप्य, पत्न्यर्थमपि मन्त्रावृत्त्या समिधमाधाय, स्विष्टकृतं जुहोति ।)

[[84]]

उत्थाय, समिधमाधाय अञ्जलिं बद्ध्वा,

१. वै॒श्वा॒न॒राय॒ प्रति॑वेदयामो॒ यदी॑नृ॒णँ स॑ङ्ग॒रो दे॒वता॑सु ।
स ए॒तान्पाशा᳚न्प्र॒मुच॒न्प्रवे॑द॒ स नो॑ मुञ्चातु दुरि॒तादव॒द्यात् ॥
२. वै॒श्वा॒न॒रः पव॑यान्नः प॒वित्रै॒र्यत्स॑ङ्ग॒रम॒भिधावा᳚म्या॒शाम् ।
अना॑जान॒न्मन॑सा॒ याच॑मानो॒ यदत्रैनो॒ अव॒ तत्सु॑वामि ॥
३. अ॒मी ये सु॒भगे॑ दि॒वि वि॒चृतौ॒ नाम॒ तार॑के ।
प्रेहामृत॑स्य यच्छतामे॒तद्ब॑द्धक॒मोच॑नम् ॥
४. विजि॑हीर्ष्व लो॒कान्कृ॑धि ब॒न्धान्मु॑ञ्चासि॒ बद्ध॑कम् ।
योने॑रिव॒ प्रच्यु॑तो॒ गर्भ॒स्सर्वा᳚प॒थो अ॑नु॒ष्व ॥
५. स प्र॑जा॒नन्प्रति॑ गृभ्णीत वि॒द्वान्प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ।
अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॑मनु॒ सञ्च॑रेम ॥
६. त॒तं तन्तु॒मन्वेके॒ अनु॒ सञ्च॑रन्ति॒ येषां᳚ द॒त्तं पित्र्य॒माय॑नवत् ।
अ॒ब॒न्ध्वेके॒ दद॑तः प्र॒यच्छा॒द्दातुं चेच्छ॒क्नवाँ॒ सस्स्व॒र्ग ए॑षाम् ॥
७. आर॑भेथा॒मनु॒ सँर॑भेथाँ समा॒नं पन्था॑मवथो घृ॒तेन॑ ।
यद्वां᳚ पू॒र्तं परि॑विष्टं॒ यद॒ग्नौ तस्मै॒ गोत्रा॑ये॒ह जाया॑पती॒ सँर॑भेथाम् ॥
८. यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा जिहिँसिम ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ उन्नो॑नेषद्दुरि॒ता यानि॑ च॒कृम ॥
९. भूमि॑र्मा॒ताऽदि॑तिर्नो ज॒नित्रं॒ भ्राता॒ऽन्तरि॑क्षम॒भिश॑स्त एनः ।
द्यौनः॑ पि॒ता पि॑तृ॒याच्छं भ॑वासि जा॒मि मि॒त्वा मा वि॑वित्सि लो॒कान् ॥
१०. यत्र॑ सु॒हार्द॑स्सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोगं॑ त॒न्वा(१॒) ँ॒ स्वाया᳚म् ।
अ॒श्लो॒णाङ्गै॒रह्रु॑तास्स्व॒र्गे तत्र॑ पश्येम पि॒तर॑ञ्च पु॒त्रम् ॥
११. यदन्न॒मद्म्यनृ॑तेन देवा दा॒स्यन्नदा᳚स्यन्नु॒त वा॑ करि॒ष्यन्न् ।
यद्दे॒वानां॒ चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा॒ तस्मा॑दनृ॒णं कृ॑णोतु ॥
१२. यदन्न॒मद्मि॑ बहु॒धा विरू॑पं॒ वासो॒ हिर॑ण्यमु॒त गाम॒जामवि᳚म् ।
यद्दे॒वानां॒ चक्षु॒ष्यागो॒ अस्ति॒ यदे॒व किञ्च॑ प्रतिजग्रा॒हम॒ग्निर्मा तस्मा॑दनृ॒णं कृ॑णोतु ॥ [[TODO:परिष्कार्यम्??]]

[[85]]

समित् आधानम् -

यन्मे॒ मन॑सा वा॒चा॒ कृ॒त॒मेनः॑ कदा॒चन ।
सर्वस्मा᳚न्मेळि॑तो मो॒ग्धि॒ त्वँहि वेत्थ॑ यथात॒थँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]

पत्न्यर्थं पुनश्च अनुसन्धाय, समिधावग्नौ प्रक्षिपेत् ॥

ह॒व्य॒वाह॑मभिमाति॒षाह᳚म् । र॒क्षो॒हणं॒ पृत॑नासु जि॒ष्णुम् ।
ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिम् । अ॒ग्निँस्वि॑ष्ट॒कृत॒मा हु॑वे॒मोम् ॥ [[TODO:परिष्कार्यम्??]]

इति पुरोऽनुवाक्यामनूच्य,

स्वि॑ष्ट॒मग्ने अ॒भि तत्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य ।
उ॒रुं नः॒ पन्थां᳚ प्रदि॒शन्वि भा॑हि । ज्याति॑ष्मद्धेह्य॒ज॑रं न॒ आयु॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]

इति याज्यया ‘अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’ इति जुहोति ॥ (अग्नये स्विष्टकृत इदं न मम) ॥ जयादि प्रतिपद्यते । अथ जयादिहोमः (जयाः १३, अभ्यातानाः १८, राष्ट्रभृतः २२, प्राजापत्याः १, व्याहृतयः ३, स्विष्टकृती १) = ५८

ओं चि॒त्तं च॒ स्वाहा᳚ - (चित्तायेदं न मम) ॥ १ ॥
चित्ति॑श्च॒ स्वाहा᳚ (चित्त्या इदं न मम) ॥ २ ॥
आकू॑तं च॒ स्वाहा᳚ - (आकूतायेदं न मम) ॥ ३ ॥
आकू॑तिश्च॒ स्वाहा᳚ - (आकूत्या इदं न मम) ॥ ४ ॥
विज्ञा॑तं च॒ स्वाहा᳚ - (विज्ञातायेदं न मम) ॥ ५ ॥
वि॒ज्ञानं॑ च॒ स्वाहा᳚ - (विज्ञानायेदं न मम ) ॥ ६ ॥
मन॑श्च॒ स्वाहा᳚ - (मनस इदं न मम) ॥ ७ ॥
शक्व॑रीश्च॒ स्वाहा᳚ - (शक्वरीभ्य इदं न मम) ॥ ८ ॥
दर्श॑श्च॒ स्वाहा᳚ - (दर्शायेदं न मम) ॥ ९ ॥
पू॒र्णमा॑सश्च॒ स्वाहा᳚ - (पूर्णमासायेदं न मम) ॥ १० ॥
बृ॒हच्च॒ स्वाहा᳚ - (बृहत इदं न मम) ॥ ११ ॥
र॒थ॒न्त॒रं च॒ स्वाहा᳚ - (रथन्तरायेदं न मम) ॥ १२ ॥
प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विश॒स्सम॑नमन्त॒ सर्वा॒स्स उ॒ग्रस्स हि हव्यो॑ ब॒भूव॒ स्वाहा᳚ ॥ (प्रजापतय इदं न मम) ॥ १३ ॥ [[TODO:परिष्कार्यम्??]]

[[86]]

अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रै᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ (अग्नय इदं न मम) ॥ १ ॥
इन्द्रो᳚ ज्ये॒ष्ठाना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ (इन्द्राय इदं न मम) ॥ २ ॥
य॒मः पृ॑थि॒व्या अधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ (यमाय इदं न मम) ॥ ३ ॥
वा॒यु॒र॒न्तरि॑क्ष॒स्याधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्षत्रै᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ (वायव इदं न मम) ॥ ४ ॥
सूर्यो॑ दि॒वोऽधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ (सूर्याय इदं न मम) ॥ ५ ॥
च॒न्द्रमा॒ नक्ष॑त्राणा॒माधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ ( चन्द्रमस इदं न मम) ॥ ६ ॥
बृह॒स्पति॒र्ब्रह्म॒णोऽधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ (बृहस्पतय इदं न मम) ॥ ७ ॥ मि॒त्रस्स॒त्याना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ ( मित्राय इदं न मम) ॥ ८ ॥
वरु॑णो॒ऽपामधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒ स्वाहा᳚ ॥ (वरुणायेदं न मम) ॥ ९ ॥ [[TODO:परिष्कार्यम्??]]

[[87]]

स॒मु॒द्रस्स्रो॒त्याना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (समु॒द्रायेदं न मम) ॥ १० ॥
अन्नँ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (अन्नायेदं न मम) ॥ ११ ॥
सोम॒ आष॑धीना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (सोमाय इदं न मम) ॥ १२ ॥
स॒वि॒ता प्र॑स॒वाना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (सवित्र इदं न मम) ॥ १३ ॥ रु॒द्रः प॑शू॒नामधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (अप उपश्पृश्य)(रुद्रा य..) ॥ १४ ॥
त्वष्टा॑ रू॒पाणा॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ । ( त्वष्ट्र इदं न मम) ॥ १५ । विष्णुः पर्व॑ताना॒मधि॑पति॒स्स मा॑वत्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (विष्णव इदं न मम) ॥ १६ ॥
म॒रुतो॑ ग॒णाना॒मधि॑प॒तय॒स्ते मा॑वन्त्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्षत्रे॑ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (मरुद्भ्य इदं न मम) ॥ १७ ॥
पित॑रः पितामहाः परेवरो॒ तता᳚स्ततामहा इहमा॑वडऽत । अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे᳚ऽस्पामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू᳚त्याँ॒॒ स्वाहा᳚ ॥ (पित्रादिभ्य इदं न मम) ॥ १८ ॥ [[TODOपरिष्कार्यम्]] (अप उपश्पृश्य)

[[88]]

ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वस्तस्यौष॑धषोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु तस्मै॒ स्वाहा᳚ ॥ - (अग्नये गन्धर्वायेदं न मम ) ॥
ताभ्य॒स्स्वाहा᳚ ॥ (ओषधीभ्योऽफ्सरोभ्य इदं न मम) ॥ १-२ ॥

सँ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ - (सूर्याय गन्धर्वायेदं न मम) ॥
ताभ्य॒स्स्वाहा᳚ ॥ (मरीचिभ्योऽफ्सरोभ्य इदं न मम) ॥ ३४ ॥

सु॒षु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ - (चन्द्रमसे गन्धर्वायेदम्) ।
ताभ्य॒स्स्वाहा᳚ ॥ (नक्षत्रेभ्योऽफ्सरोभ्य इदं न मम) ॥ ५-६ ॥

भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अफ्स॒रस॑स्स्त॒वा नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ - (यज्ञाय गन्धर्वायेदं न मम) ॥
ताभ्य॒स्स्वाहा᳚ ॥ (दक्षिणाभ्योऽफ्सरोभ्य इदम्) ॥७ - ८॥

प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्धर्व॒स्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ - (मनसे गन्धर्वायेदं न मम)
ताभ्य॒स्स्वाहा᳚ ॥ (ऋख्सामेभ्योऽफ्सरोभ्य इदं न मम) ॥९-१०॥

इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्धर्व॒स्तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु तस्मै॒ स्वाहा᳚ ॥ - (वाताय गन्धर्वायेदं न मम) ।
ताभ्य॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अद्भ्योऽफ्सरोभ्य इदं न मम) ॥११-१२॥

[[89]]

भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
स नो॑ रा॒स्वाज्या॑निँ रा॒यस्पोषँ सु॒वीर्यँ संवथ्स॒रीणाँ॑ स्व॒स्तिँ स्वाहा᳚ ॥ (भुवनस्य पत्य इदं न मम) ॥ १३ ॥

प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ - (मृत्यवे गन्धर्वायेदं न मम) ॥
ताभ्य॒स्स्वाहा᳚ ॥ (विश्वस्मा अफ्सरोभ्य इदं न मम) ॥ १४ - १५ ॥

सु॒क्षि॒तिस्सु॒भू॑तिर्भद्र॒कृत्सुव॑र्वान्प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ (पर्जन्याय गन्धर्वायेदम्)
ताभ्य॒स्स्वाहा᳚ ॥ (विद्युद्भ्योऽफ्सरोभ्य इदं न मम) ॥ १६-१७ ॥

दू॒रेहे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ - (मृत्यवे गन्धर्वायेदं न मम) ॥
ताभ्य॒स्स्वाहा᳚ ॥ (प्रजाभ्योऽफ्सरोभ्य इदं न मम) ॥ १८-१९ ॥

चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र्नाम॒ स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इदं॒ ब्रह्म॑ क्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚ ॥ - (कामाय गन्धर्वायेदं न मम) ॥
ताभ्य॒स्स्वाहा᳚ ॥ (आधिभ्योऽफ्सरोभ्य इदं न मम) ॥ २० - २१ ॥

स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑ ।
उ॒रु ब्रह्म॑णे॒ऽस्मै॑ क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (भुवनस्य पत्ये इदं न मम) ॥ २२ ॥

[[90]]

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यँस्या॑म॒ पत॑यो रयी॒णाँस्वाहा᳚ । [[TODO:परिष्कार्यम्??]] (प्रजापतय इदं न मम) ॥ १ ॥

ओं भूस्स्वाहा᳚ - (अग्नय इदं न मम) ॥
ओं भुव॒स्स्वाहा᳚ - (वायव इदं न मम) ॥
ओँ सुव॒स्स्वाहा᳚ ॥ (सूर्याय इदं न मम) ॥ [[TODO:परिष्कार्यम्??]] (१-३) ॥

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् । अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान् सर्वँ॒स्वि॑ष्टँ॒ सुहु॑तं करोतु॒ स्वाहा᳚ ॥ (अग्नये स्विष्टकृत इदं न मम) [[TODO:परिष्कार्यम्??]] ॥ १ ॥

(परिधिप्रहरः - ब्रह्मोद्वासनम् - अभ्युदयः - पुण्याहम् - ब्राह्मणभोजनम् -)

॥ कूश्माण्डहोमप्रयोगः समाप्तः ॥

[[91]]