अग्नि-गोदानम्

तत्र प्रयोगः–
ब्राह्मणान् भोजयित्वा
ऽऽशिषो वाचयित्वा
तूष्णीं केशश्मश्रु वापयित्वा
ऽग्नेर् उपसमाधानादि-परिषेचनान्तानि आग्नेय-काण्डोपाकरणवत् कृत्वा
शुक्रियवद् देवतोपस्थानं
“अग्ने व्रतपते व्रतं चरिष्यामि” इति ।
अन्ये संवत्सरे व्रतचर्या ।

अन्ते विसर्गः -
एवम् एवाचारिषम् इत्यादि विकारः, शुक्रियवत् दैवतम् । केशश्मश्रुवपनम् । अन्ते ब्राह्मणभोजनम् ।

उभयत्र नान्दी-मुख-श्राद्धं केचित् कुर्वन्ति ।
अपरे न ॥ १३ ॥