०६ पिण्डप्रदानविधिः

पिण्डप्रदानम्

दर्भासन-कल्पनम्

अथ अग्नेः पश्चात्,
प्राणान् आयम्य,

प्राचीनावीती,

…अस्यां पुण्यतिथौ …. गोत्रस्य… शर्मणः मम पितुः श्राद्धान्ते
श्राद्धीय-पिण्ड-प्रदानं करिष्ये ।

इति सङ्कल्प्य,
मधु-सर्पिस्-तिल-युतान् पिण्डान् षड् आनीय,
पुष्प-धूपादिभिर् अभ्यर्च्य,
द्वेधा दक्षिणाग्रान् दर्भान् संस्तीर्य,

मार्जनम्

पूर्वेषु दर्भेषु -

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।

अपरेषु दर्भेषु -

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।

इति च स-तिला अपः पितृतीर्थेन,
त्रिः दक्षिणापवर्गं निनीय,

[[140]]

पिण्ड-स्थापनम्

०८-१९ एतत्ते ततासौ ...{Loading}...

ए॒तत्ते॑ तताऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामहाऽसौ॒+++(←नामनिर्देशः)+++, ये च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ मातर् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ पितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।
ए॒तत्ते॑ प्रपितामह्य् असौ॒+++(←नामनिर्देशः)+++, याश् च॒ त्वाम् अनु॑ +++(जीवन्ति)+++।

पूर्वेषु

ए॒तत्ते॑ तत! …गोत्र! …. शर्मन् !

इत्यादिना अवाचीन-पाणिः पिण्डं दत्त्वा,
‘ये च॒ त्वामनु॑’ इति पिण्डमूले लेपं निर्मृज्य,

ए॒तत्ते॑ पितामह! … गोत्र! … शर्मन् !

इत्यादिना अवाचीनपाणिः पिण्डं दत्त्वा,
‘ये च॒ त्वामनु॑’ इति पिण्डमूले लेपं निर्मृज्य,

ए॒तत्ते॑ प्रपितामह! …गोत्र! … शर्मन्!

इत्यादिना अवाचीनपाणिः पिण्डं दत्त्वा,
‘ये च॒ त्वामनु॑’ । इति पिण्डमूले लेपं निर्मृज्य,

अपरेषु

ए॒तत्ते॑ मातः! …. गोत्रे!…. (नाम्नि) देवि+++(दे)+++!

इत्यादिना अवाचीनपाणिः पिण्डं दत्त्वा, ‘याश्च॒ त्वामनु॑’ इति पिण्डमूले लेपं निर्मृज्य,

ए॒तत्ते॑ पितामहि! …गोत्रे!…. (नाम्नि) देवि!

इत्यादिना अवाचीनपाणिः पिण्डं दत्त्वा, ‘याश्च॒ त्वामनु॑’ । इति पिण्डमूले लेपं निर्मृज्य,

ए॒तत्ते᳚ प्रपितामहि! … गोत्रे!… (नाम्नि) देवि!

इत्यादिना अवाचीनपाणिः पिण्डं दत्त्वा, ‘याश्च॒ त्वामनु॑’ । इति पिण्डमूले लेपं निर्मृज्य,

अर्चनादि

गन्ध-पुष्प-धूप-दीपादिभिर् अभ्यर्च्य +++(सुमङ्गलीमृत्याव् एव ताभ्य इति केचित्)+++ ,

भक्ष्य-भोज्य-फलादिकं पक्वापक्वं सर्वम्,
(अ-निवेदने तद्-भोजन-निषेधात्)
पिण्ड-देवताभ्यो निवेद्य,

तिलोदकम्

पिण्ड-पात्रे तिलोदकम् अभिपूर्य तेन,

[[141]]

पूर्वेषु दर्भेषु

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हाः ।

इत्यादिक्रमेण त्रिः पूर्ववत् निनीय,
उत्थाय,

अपरेषु दर्भेषु -

०२-०७ मार्जयन्ताम् मम ...{Loading}...

मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑ ।

इत्यादिक्रमेण त्रिः पूर्ववत् निनीय,

तर्पणम्

उत्थाय,

१. “ये च॒ वोऽत्र॒ ये चा॒स्मास्व् आशँ॑सन्ते” इति पितृपिण्डान्
२. “याश्च॒ वोऽत्र॒ याश्चा॒स्मास्व् आशँ॑सन्ते” इति मातृपिण्डान्

१. “ते च॑ वहन्ताम्” इति पितृपिण्डान्
२. “ताश्च॑ वहन्ताम्” इति मातृपिण्डान्

१. “तृप्य॑न्तु भवन्तः” इति पितृपिण्डान्
२. “तृप्य॑न्तु भवत्यः” इति मातृपिण्डान्

“तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त ॥” इति उभयांश्च उपस्थाय

पिता पितामहश् चैव
तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु पिण्डेन
मया दत्तेन भूतले ॥

इत्य् उक्त्वा

परिषेचनम्

सव्यं जान्व् आच्य,

पु॒त्रान्पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः ।
स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒॒ आपो॑ दे॒वीरु॒भयाँ॑स्तर्पयन्तु ॥ [[TODO:परिष्कार्यम्]]

[[142]]

इति स-तिलोद-पात्रेण सव्योत्तर-पाणिभ्यां पितृतीर्थेन
अप्रदक्षिणम् अविच्छिन्नाभिः अद्भिः परिषिच्य,

पात्र-वर्तनम्

होमार्थानि पिण्डार्थानि च पात्राणि न्युब्ज्य,
‘तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त’ इति त्रिरनवानम् आवृत्य,
प्रोक्ष्य,
पात्राणि च द्वन्द्वम् अभ्युदाहृत्य,

प्राशनम्

सर्वस्माद् अन्नात् किञ्चित् किञ्चित् आदाय
उपवीती -

प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि ।
ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑ ॥

इति ग्रासमात्रं प्राश्य, आचामेत् ॥

पिण्ड-दानानि

पुत्रकामनायां मध्यपिण्डं 1

आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् ।
यथे॒ह पुरु॒षोऽस॑त् । (शु.य. २-३३)

इति मन्त्रेण,
अरोगिण्यै पुत्र-जनन-योग्यायै दद्यात् ॥

ततः पिण्डान् ब्रह्मचारिणे,
गोभ्यो वा दद्यात्-
अफ्सु वा प्रक्षिपेत् ॥


  1. अ॒पां त्वौष॑धीनाँ॒ रसं॒ प्राश॑यामि ।
    भू॒तकृतं᳚ ग॒र्भं ध॑त्स्व ।

    इति वैदिकसार्वभौमाः ।
    ‘वीरं मे दत्त पितरः’ इति पत्न्यै दत्वा, पत्नी प्राङ्मुखी प्राश्नीयात् - आश्वलायनः ।
    ‘यथेह पुरुषः स्यात्’ इति छन्दोगाः । “यथायम् अरपा असत् ।” (शाखान्तरे) । ↩︎