पाकयज्ञेष्वग्निहोत्राधारितो विधिः

प्रयोगस् तु -

न परिस्तरणदर्वीसंस्कारोपस्तरणादीनि, अत्रानुपदेशात्। चरुपाकस्त्वर्थाद्विद्यत एव।

  • तेन चरुणा प्रधानाहुतिस्विष्टकृत्प्राशनभक्षणेभ्यः पर्याप्तेन दर्वीं पूरयित्वा,
  • अपरेणाग्निं दर्भेषु सादयित्वा,
  • आदाय तत्तन्मन्त्रैः सर्वाः प्रधानाहुतीः क्रमेण हुत्वा,
  • दर्व्यास्ततो लेपमादाय दर्भैर्निमृज्य शेषात् स्विष्टकृते हुत्वा,
  • प्राचीनावीती पुनर्लेपमादाय दक्षिणतो भूम्यां निमृज्याय,
  • उपस्पृश्य,
  • यज्ञोपवीती दर्व्या लेपमङ्गुल्याऽऽदाय, प्राश्य, शुद्ध्यर्थमाचम्य,
  • पुनरप्येवं कृत्वा
  • उदङ्ङवृत्य
  • उत्सृप्य दर्व्या हविश्शेषं सर्वं भक्षयित्वा
  • तां निर्लेह्य
  • आचम्य
  • तां दर्भैरद्भिः प्रक्षालयेदिति।