३५ ऐन्द्राग्नग्रहग्रहणं, ऋतुग्रहभक्षणं च

अभक्षितेन पात्रेणाध्वर्युरैन्द्राग्नं गृह्णाति । इन्द्राग्नी आगतꣳ सुतं गीर्भिर्नभो वरेण्यम् । अस्य पाथं धियेषिता । उपयामगृहीतोसीन्द्राग्निभ्यां त्वा द्रोणकलशात् परिप्लवया गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राग्निभ्यां त्वा सादयति । प्रतिप्रस्थाता हरति भक्षम् । उभावध्वर्यू यथावषट्कृतं भक्षयतः । हो पो नेऽग्नीत् ब्र प्र हो पो नेऽच्छा हो हो होतृकाणां आद्यक्षराणि, तेन क्रमेण तैस्सह भक्षयतः । होतुरध्वर्युणा सह भक्षोपाह्वाने पोतृप्रतिप्रस्थात्रोर्व्यत्यासः । अपरं येन येन मुखेन होमः, तत्र तेनैव मुखेन भक्षणम् । सर्वेषां सोमपात्राणां भक्षितानां मार्जालीये प्रक्षालनम् ।