०४ औपासनारम्भः

रात्रौ नवसु नाडिकासु औपासनम् आरभेत ।
नव-घटिका अतीताश् चेत्
श्वस् सायं ब्राह्मणान् अनुज्ञाप्य

“औपासनम् आरप्स्य” इति सङ्कल्प्य
“सायम् औपासान-होमं होष्यामी"ति पुनस् सङ्कल्प्य
उल्लिख्यावोक्ष्याग्निं प्रतिष्ठाप्य
प्राक्तोयं निधाय
परिषिच्य

अग्नाव् एकां समिधम् आधाय
द्वादश-पर्व-पूरितं तण्डुलम्
‘अग्रये स्वाहे’ति हस्तेन देवतीर्थेन अग्निमध्ये हुत्वा
किञ्चिद्-अधिक-भागम् ‘अग्नये स्विष्टकृते स्वाहा’ इति अग्नाव् उत्तरपूर्वे पूर्ववद् +हुत्वा

पुनर् एकां समिधम् आधाय
परिषिच्याग्निम् उपतिष्ठेत् ।