१६ आग्रयणस्थालीपाकः

शरदि नवानां व्रीहीणामाग्रयणम् ।

(सू - नवानां स्थालीपाकं श्रपयित्वाऽऽग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा, गीर्त्वाऽऽचम्य, ओदनपिण्डं संवृत्त्योत्तरेण यजुषाऽगारस्तूप उद्विद्धेत् ।) शरदृतौ पर्व प्रतिपसन्धिदिनमाग्रयणस्य कालः । चतुर्षु कालेष्वन्यतमः ग्राह्यः ॥ अत्र‘‘शरत्’’ इति वाक्यं चान्द्रायणपरम् । कन्यामासदर्शात्परं सम्भवन्ति पर्व प्रतिपत्सन्धिकालदिनानि चत्वारि आग्रयणस्य कालाः । आग्रयणस्थालीपाकेन यक्ष्ये इति सङ्कल्पः । नवेभ्यो व्रीहिभ्यः पत्न्यवहनेन निष्पन्नान्तण्डुलान् वैदिकाग्नौ श्रपयित्वाऽभिघार्य प्राचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिधारयति । अग्नेरुप समाधानाद्यग्निमुखान्तेऽनन्वारब्धः, दर्व्यामुपस्तीर्य, मध्यात् द्विरवदाय सकृदभिघार्य मध्ये जुहोति ।

“इ॒न्द्रा॒ग्निभ्यां॑, स्वाहा॑ - इन्द्राग्निभ्यामिदन्न मम” [[TODO::परिष्कार्यम्??]]। दर्व्यामुपस्तीँर्य, द्विरदाय सकृदभिघार्य “विश्वे॑भ्यः, देवेभ्यःँ, स्वाहा॑ । विश्वेभ्यः, देवेभ्यः, इदन्न मम” [[TODO::परिष्कार्यम्??]] । दर्व्यामुपस्तीर्य, द्विरदाय वत्सानं त्रिखदानं सकृदभिघार्य, स्विष्टकृदर्थं हविः प्रत्यभिघार्य - “द्यावाँपृथि॒वीभ्यां॑ स्वाहा, द्यावापृथिवीभ्याम्, इदन्न मम” दर्व्यामुपस्तीर्य उत्तरार्धात्सकृदवदाय (वत्सानां द्विरवदानं) द्विरभिघार्य “अग्नये॑ स्विष्ट॒कृ॒ते॒ स्वाहा॑”) “अग्नये स्विष्टकृते इदन्न मम” परिध्यञ्जनमित्यादि होमशेषं समापयेत् । हविषा मुखम् (आस्यं) पूरयित्वा, किञ्चिज्जलं प्राश्य शुद्ध्यर्थं द्विराचम्य ओदनपिण्डं संवृत्य, “परमेष्ठ्यसिँ, पर॒मां मां, श्रियँगमय” ॥ इति अगारस्तूपे, उद्विद्धेत् ॥