१३ अग्नीषोमीयप्रणयनम्

शालामुखीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्य अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रू३हि इति संप्रेष्यति । उद्यम्याग्निं नोद्यतहोमः । प्रथमायां त्रिरनूक्तायां अयं नो अग्निर्वरिवः कृणोत्वयं मृधः पुर एतु प्रभिन्दन् । अयꣳ शत्रूञ्जयतु जर्हृषाणोऽयं वाजं जयतु वाजसातौ अग्निप्रथमा-स्सोमप्रथमा वा प्राञ्चोऽभिप्रव्रजन्ति । आग्नीध्रीयेऽग्निं प्रतिष्ठापयति । ब्रह्मा प्रतिप्रस्थात्रे राजानं प्रदायोत्तरेणाग्नीध्रीयं दक्षिणातिव्रज्योपविश्य एवा वन्दस्व इत्युपस्थे राजानं कुरुते । अध्वर्युः :- अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम स्वाहा । आग्नीध्रीये अर्धमाज्यशेषस्य जुहोति । अग्नय इदम् । ग्राव्ण्णो वायव्यानि द्रोणकलशमाग्नीध्र उपवासयति । ब्रह्मा हुते पूर्वो निष्क्रम्य हविर्धानस्य पश्चिमद्वारि तिष्ठति । अध्वर्युः :- उत्तरेणाग्नीध्रीयमाहवनीयं गत्वा उरु विष्णो विक्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा इति सर्वमाज्यशेषं जुहोति । विष्णव इदम् । हुतेऽमात्याः प्रदक्षिणमावृत्य यथेतमुपावर्तन्ते । सोमो जिगाति गातुविद्देवानामेति निष्कृतमृतस्य योनिमासदम् अपरया द्वारा हविर्धानं राजानं प्रपादयति पूर्वया यजमानः प्रपद्यते ।