२७ अध्वर्युणाऽऽवेदनम्

अध्वर्युः - अथैनं त्रिरुपांश्वावेदयति त्रिरुचैः । अदीक्षिष्टायं ब्राह्मणोऽमुकशर्माऽमुकशर्मणः पुत्रोऽमुकशर्मणः पौत्रोऽमुकशर्मणो नप्ता अमुकिदाय्याः पुत्रोऽमुकिदाय्याः पौत्रोऽमुकिदाय्या नप्ता । यजमानो वाग्यतस्तपस्तप्यमान आस्त आ नक्षत्रस्योदेतोः । अध्वर्युः - अधिवृक्षसूर्यकाले अग्नीन् ज्योतिष्मतः कुरुत पत्नि वाचं यच्छ इति सम्प्रेष्यति । वत्सस्यैकं स्तनमवशिष्येतरान् व्रतं दोहयित्वा । उदितेषु नक्षत्रेषु दुग्धे च व्रतपयसि । यजमानः - याः पशूनामृषभे वाचस्तास्सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्वो यथाभागं वो अत्र शिवा नस्ताः पुनरायन्तु वाचः इति जपित्वा । व्रतं कृणुत इति वाचं विसृजते । पत्नी तूष्णीं वाचं विसृजते । एष्ट्री स्थ इति चतस्रोऽङ्गुलीरुत्सृजति । द्वे अन्यतरतो द्वे अन्यतरतः १। जागर्त्येतां रात्रिं, क्रीते राजनि द्वितीयां, श्वस्सुत्यायां इति तृतीयाम् ।