दर्शपूर्णमासेष्टि-प्रयोगः

॥ अथ दर्शपूर्णमासेष्टि प्रयोगः ॥

प्रथमोऽध्यायः

॥ अथ प्रथमोऽध्यायः ॥

संकल्पः, ऋत्विग्वरणं च

अथातो दर्शपूर्णमासौ व्याख्यास्याम: । प्रातरग्निहोत्रं हुत्वा । दर्भेष्वासीनो दर्भान्धारयमाण: पवित्रपाणि: पत्न्या सह प्राणानायम्य । ममोपात्त सकल दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं दर्शेन यक्ष्ये । अनुनिर्वाप्यैन्द्रवैमृधेन सह पूर्णमासेन यक्ष्ये इति वा संकल्प्य १। ततो वपनम् । अप्यल्पशो लोमानि वापयते इति वाजसनेयकम् । विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि यक्ष्यमाणोऽप उपस्पृशति । अस्यां दर्शेष्ट्यां अध्वर्युं त्वां वृणीमहे अध्वर्युं वृणोति । एवं ब्रह्माणं होतारं आग्नीध्रं च ।

अग्न्यन्वाधानम्

अध्वर्यु: - वृतोऽस्मि करिष्यामीति प्रतिवचनम् । गार्हपत्यादाहवनीयार्थं ज्वलन्तमग्निमुद्धृत्य । तूष्णीं दक्षिणाग्निं प्रणीय । तूष्णीमाहवनीयं प्रणयति । विहारस्योत्तरत उपविश्य । देवा गातुविदो गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम् इति जपित्वा अग्नीनन्वादधाति । ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम आहवनीयमुपसमिन्धे ।

यजमान: - अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमꣳ श्वो यज्ञाय रमतां देवताभ्यः ॥ वसून्रुद्रानादित्यानिन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । पौर्णमासꣳ हविरिदमेषां मयि इति पौर्णमास्याम् । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । आमावास्यꣳ हविरिदमेषां मयि इत्यमावास्यायाम् । यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति२ । अन्तराग्नी पशवो देवसꣳसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया अन्तराग्नी तिष्ठन् जपति ।

अध्वर्युः - मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरु गोपमस्तु मह्यं वातः पवतां कामे अस्मिन् गार्हपत्यमुपसमिन्धे ।

यजमानः - इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया गार्हपत्ये अन्वाधीयमाने जपति ।

अध्वर्युः - मयि देवा द्रविणमायजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारावनिषन्त पूर्वेऽरिष्टास्स्याम तनुवा सुवीराः दक्षिणाग्निमुपसमिन्धे ।

यजमानः - अयं पितृणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करत् अन्वाहार्यपचने अन्वाधीयमाने जपति । विहारस्योत्तरत उपविश्य । इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रबवीमीदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रबवीमीदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमि अन्वाहितेषु जपति ।

शाखाहरणं वत्सापाकरणं च

अध्वर्युः - अमावास्यायां सन्नयतः पलाशशाखां शमीशाखां वा आहरति । बहुपर्णां बहुशाखां अप्रतिशुष्काग्रामसुषिराम् । सा या प्राच्युदीची प्रागुदीची वा भवति इषे त्वोर्जे त्वा तां शाखामाच्छिनत्ति । अप उपस्पृश्य १ । इमां प्राचीमुदीचीमिषमूर्जमभिसꣳस्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहं आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायाम् ।

व्रतोपायनम्

यजमानः - पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सꣳसृज अप आचामति अप उपस्पृशति च २ । एवं पत्नी च ।

अन्वाधाने कृते पूर्वं शाखाभोजनमेव च ।

वत्सानां बन्धनं चैव व्रतं बर्हिस्तथैव च ॥

अन्वाधानेऽशनं बर्हिर्व्रतं मुष्टीध्मबन्धने ।

वेदोपवेषाऽलङ्काराः पौर्णमास्या यथाक्रमम् ॥

अपरेणाहवनीयं दक्षिणातिक्रामति । एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति । दक्षिणेनाहवनीयमुपस्थाय । व्रतꣳ समुद्रस्तदुपैष्यामि समुद्रं मनसा ध्यात्वा । अग्नीन् देवानभिसन्धाय । अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति जपित्वा । सम्राडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासम् आदित्यमुपतिष्ठते । यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन् एतद्यजुर्जपेत् ।

गवां प्रस्थापनम्

अध्वर्युः - देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया इन्द्राय देवभागं ऊर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्तेन ईशत माघशꣳसः । देवो वस्सविता — महेन्द्राय देवभागं — माघशꣳसः१ शाखया गोचराय गाः प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः यजमानस्य गृहानभ्यैति । यजमानस्य पशून्पाहि अग्निष्ठेऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात् प्राचीं वा ।

इध्माबर्हिराहरणम्

उत्तरेण गार्हपत्यमसिदो निहितो भवति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे असिदमादाय । यज्ञस्य घोषदसि गार्हपत्यमभिमन्त्र्य । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः गार्हपत्ये प्रतितप्य । प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा त आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बर्हिरासदे इत्युक्त्वा । उर्वन्तरिक्षमन्विहि असिदमुदकमण्डलुं चादाय दर्भदेशं गच्छति । प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतःकुतश्चिद्दर्भमयं बर्हिराहरति । देवानां परिषूतमसि वर्षवृद्धमसि दर्भान् परिषौति । अतिसृष्टो गवां भागः एकां द्वे तिस्रो वा नाडीरुत्सृजति । इदं देवानाम् परिषूतानभिमृशति । इदं पशूनाम् अतिसृष्टान् । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभे विशाखेषु दर्भानारभते । देवबर्हिर्मा त्वान्वङ्मा तिर्यक् वामेन संयच्छति । पर्व ते राध्यासम् असिदमधिनिदधाति । आच्छेत्ता ते मा रिषम् आच्छिनत्यप उपस्पृश्य । पृथिव्यास्सम्पृचः पाहि अनधो निदधाति । सन्नखं मुष्टिं लुनोति । स प्रस्तरः । एवं देवस्य त्वेत्यादि पृथिव्यास्सम्पृचः पाहीत्यन्तं त्रिरावर्तते । तदेकं निधनम् । एवं त्रीणि निधनानि लुनोति । प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम् । सर्वं लुत्वा । देवबर्हिश्शतवल्शं वि रोह आलवानभिमृशति । सहस्रवल्शा वि वयꣳ रुहेम आत्मानं प्रत्यभिमृश्य । अप उपस्पृश्य । अदित्यै रास्नासि त्रिधातु पञ्चधातु वा शुल्बं करोति । अयुपिता योनिः प्रतिसन्दधाति । धातौ धातौ मन्त्रावृत्तिः । अदित्यै रास्नासि उदगग्रं वितत्य । सुसंभृता त्वा संभरामि तस्मिन्छेदनक्रमेण निधनानि संभरति । प्रतिनिधनं मन्त्रावृत्तिः । प्रागग्रं दक्षिणाप्रागग्रं प्रागुदगग्रं च सम्भृत्य । अलुभिता योनिः उत्तमे निधने प्रस्तरमत्याधाय । इन्द्राण्यै सन्नहनं सन्नह्यति । पूषा ते ग्रन्थिं ग्रथ्नातु ग्रन्थिं करोति । स ते माऽऽस्थात् पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति । पश्चात्प्राञ्चं वा । आपस्त्वामश्विनौ त्वामृषयस्सप्त मामृजुः । बर्हिस्सूर्यस्य रश्मिभिरुषसां केतुमारभे बर्हिरारभते । इन्द्रस्य त्वा बाहुभ्यामुद्यच्छे उद्यच्छते । बृहस्पतेर्मूर्ध्ना हरामि शीर्षन्नधि निधत्ते । प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा त आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमिह बर्हिरासदे इत्युक्त्वा१ । उर्वन्तरिक्षमन्विहि प्रत्येत्य । अदित्यास्त्वोपस्थे सादयामि अन्तर्वेदि परिधिदेशे अनधस्सादयति । अत्र पौर्णमास्यां व्रतोपायनम् । पयस्वतीरोषधय इत्यादित्योपस्थानान्तम् ।

अध्वर्युः - बर्हिरसि देवङ्गमम् आसन्नमभिमन्त्रयते । देवङ्गममसि अनधो निदधाति । यथा प्रागुपसादयेत् । तूष्णीं दर्भदेशं गत्वा । या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यसं परिस्तरमाहरन्न् परिस्तरण्यामसिदमधि निदधाति । अपां मेध्यं यज्ञियꣳ सदेवꣳ शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदश्शतम् आच्छिनत्यप उपस्पृश्य । अपरिमितानां परिमितास्सन्नह्ये सुकृताय कम् । एनो मा नि गां कतमच्चनाहं पुनरुत्थाय बहुला भवन्तु सन्नह्यति । परिस्तरण्यामसिदमधिनिधान्याच्छेदनी सन्नहनीति यथालिङ्गं करोति २। तूष्णीं परिभोजनीमुलपराजीं च वेदार्थं च दर्भांश्छित्वा अप उपस्पृश्य ।

पूर्ववत्तूष्णीं शुल्बं कृत्वा, खादिरं पालाशं वा एकविंशतिदारुमिध्मं करोति । त्रयः परिधयः । पालाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा यज्ञिया वृक्षाः । आर्द्राः शुष्का वा सत्त्वक्काः । स्थविष्ठो मध्यमोऽणीयान् द्राघीयान् दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः । द्वे आघारसमिधावनूयज-समिदेकविंशीति । तूष्णीमिध्मं छित्वा । अप उपस्पृश्य । अदित्यै रास्नासि शुल्बमुदगग्रं वितत्य । यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविꣳशतिधा सम्भरामि सुसम्भृता । त्रीन्परिधीꣳस्तिस्रस्समिधो यज्ञायुरनुसञ्चरान् । उपवेषं मेक्षणं धृष्टिꣳ संभरामि सुसम्भृता शुल्बे इध्मं सम्भरति । कृष्णोऽस्याखरेष्ठो देवपुरश्चर सघ्यासं त्वा सन्नह्यत्यनधो निदधाति । इध्मप्रव्रश्चनानि निदधाति । त्वया वेदिं विविदु: पृथिवीं त्वया यज्ञो जायते विश्वदानि: । अच्छिद्रं यज्ञमन्वेषि विद्वान्त्वया होता सन्तनोत्यर्धमासान् वत्सज्ञुतुल्यं दर्भाणां वेदं कृत्वा शुल्बात्प्रादेशे परिवास्य । अप उपस्पृश्य । वेदपरिवासनानि निदधाति । अमावास्यायां वेदो वेदि: । देवस्य त्वेत्यादि प्रागुत्तरात्परिग्राहात्कृत्वा । पौर्णमास्यां वेदं कृत्वोपवेषः ।

उपवेषकरणम्

अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । शाखारहिते यस्यकस्यचिद्यज्ञियकाष्ठस्योपवेष: । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हवि: कृण्वन्तश्शिवश्शग्मो भवासि न: उपवेषं कुर्वन् पर्णवल्कं पातयति । छित्वाप उपस्पृश्य । तृतीयस्यै दिवो गायत्रिया सोम आभृत: । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाखायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।

यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मित: । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ॥ इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वश: । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने शाखापवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवत: । पयस्वतीरोषधय इति जायापती अश्नीतः । अमाषममांसमाज्येन दध्ना पयसा वा । अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वा अग्निहोत्रं जुहोति १ । अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति । नास्यैतां रात्रिं कुमाराश्चन पयसो लभन्ते ।

सायन्दोहः

अध्वर्युः - हुते सायमग्निहोत्रे सायन्दोहं दोहयति । आहवनीयं परिस्तीर्य । सान्नाय्यपात्राणि प्रक्षाल्य । उत्तरेणाहवनीयं दर्भान्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । कुम्भीं शाखापवित्रं, अभिधानीं निदाने, दारुपात्रं दोहनं अयस्पात्रं दारुपात्रं वा पिधानार्थं, अग्निहोत्रहवणीमुपवेषं, पर्णवल्कं तृणं च । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते । पवित्रे स्थो वैष्णवी वायुर्वां मनसा पुनातु तृणं काष्ठं वान्तर्धाय छिनत्ति । न नखेन । अप उपस्पृश्य । विष्णोर्मनसा पूते स्थः अद्भिरनुमृज्य । पवित्रान्तर्हितायामग्निहोत्रहवण्यामप आनीय । देवो वस्सवितोत्पुनातु । अच्छिद्रेण पवित्रेण । वसोस्सूर्यस्य रश्मिभिः उदगग्राभ्यां पवित्राभ्यां प्रोक्षणीः त्रिरुत्पूय । आपो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रोऽवृणीत वृत्रतूर्ये यूयमिन्द्रमवृणीध्वं वृत्रतूर्ये प्रोक्षितास्स्थ इत्यभिमन्त्र्य । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै सपवित्रेण पाणिना सर्वाभिरद्भिस्त्रि: प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । पवित्रे प्रज्ञातं निदधाति ।

यजमान: - आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो१ रमयतु गावः गा आयतीः प्रतीक्षते ।

अध्वर्युः - निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः आहवनीये सान्नाय्यपात्राणि प्रतितप्य । धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । निरूढं जन्यं भयं निरूढास्सेना अभीत्वरीः आहवनीयादुदीचोऽ-ङ्गारन्निरूह्य । न बहिः । मातरिश्वनो घर्मोऽसि द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वा: तेषु कुम्भीमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारम् तस्यां प्रागग्रं शाखापवित्रमत्यादधाति । उदक्प्रातः । कुम्भीमन्वारभ्य वाचं यच्छति । पवित्रं वा धारयन्नास्ते । अदित्यै रास्नासि अभिधानीमादत्ते । तूष्णीं निदाने दोग्धा ।

यजमानः - त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्निया-मुपसेवताम् आदीयमानामनुमन्त्रयते ।

अध्वर्युः - पूषाऽसि वत्समभिदधाति । उपसृष्टां मे प्रब्रूता३त् अध्वर्युराह । उपसृजामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः वत्समुपसृजति । गां चोपसृष्टां विहारं चान्तरेण मा संचारिष्ट अध्वर्युराह । उपसीदामि इत्यामन्त्र्य दोग्धा । अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् उपसीदति । उपविश्य दारुपात्रे दोग्धि ।

यजमानः - अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उथ्सं दुहन्ति कलशं चतुर्बिलमिडां देवीम्मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते ।

अध्वर्युः :- दुग्ध्वा हरति तं पृच्छति कामधुक्षः प्र णो ब्रूहि महेन्द्राय हविरिन्द्रियम् । गंगां, यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वायुः इत्युक्त्वा । देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुपुवा कुम्भ्यां तिरः पवित्रमासिञ्चति । हुतस्स्तोको हुतो द्रप्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्याम् विप्रुषोऽनुमन्त्रयते ।

यजमानः ः- अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।

अध्वर्युः ः- एवं द्वितीयां तृतीयां च दोहयति । पूषाऽसीत्यादि । यमुनाम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वव्यचाः इति द्वितीयाम् । सरस्वतीम् । यस्यां देवानां मनुष्याणां पयो हितम् । सा विश्वकर्मा इति तृतीयाम् । तिस्रो दोहयित्वा । बहुदुग्धि महेन्द्राय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पताम् इति त्रिः । वाचं विसृज्य । अनन्वारभ्य तूष्णीमुत्तरास्तिस्रो दोहयित्वा । दोहनेऽप आनीय । सं पृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातये कुम्भ्यां संक्षाळनमानीय अविष्यन्दयन् सुशृतं करोति । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् वर्त्म कुर्वन् प्रागुद्वासयत्युदक् प्रागुदग्वा । तेन शीतबुध्नमातनक्ति । सोमेन त्वाऽऽतनच्मि महेन्द्राय दधि दध्नातनक्ति । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्ततिमनु सन्तनोमि अग्निहोत्रोच्छेषणमन्ववधाय । अयं पयस्सोमं कृत्वा स्वां योनिमपि गच्छतु । पर्णवल्कः पवित्रꣳ सौम्यस्सोमाद्धि निर्मितः पर्णवल्कं क्षिपति । आपो हविष्षु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्, यज्ञे यजमानाय जागृत १ पिधानार्थपात्रेऽप आनीय । अदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरते तेनापिदधाति ।

यजमानः - अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः अनुमन्त्रयते ।

अध्वर्युः - यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वान्तर्धाय पिधानेऽनुप्रविध्येत् । विष्णो हव्यꣳ रक्षस्व अनधो निदधाति । इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि प्रज्ञातं शाखापवित्रं निदधाति । तयैव शाखया दर्भैर्वा सायन्दोहवत्प्रातर्दोहाय वत्सानपाकरोति । षट्कृत्वः वायवस्स्थोपायवस्स्थ । पुनस्तूष्णीं शाखापवित्रं निदधाति । नासोमयाजी सन्नयेत् सन्नयेद्वा । अत्र वा आग्नीध्रवरणम् ।

अग्नीनां परिस्तरणम्

ततस्सम्प्रेष्यति । परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिन् लोके परिस्तरणीमेतामेके समामनन्ति । सम्प्रैषपक्षे आग्नीध्रो परिस्तृणाति । उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन् परिस्तृणाति । प्रत्यायतनं मन्त्रावृत्तिः।

यजमानः - उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् सायं परिस्तीर्यमाणेषु जपति । देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदꣳ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । इति जपित्वा ग्राम्येभ्य उपवसत्यारण्यानश्नाति१ । न तस्य सायमश्नीयाद्येन प्रातर्यक्ष्यमाणः स्यात् । सद्यस्कालायामपि देवा देवेषु जपः नोभावग्नी । आहवनीयागारे गार्हपत्यागारे वा शेते ।

तन्त्रप्रक्रमः

अध्वर्युः- उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः । चत्वार ऋत्विजः । पूर्ववदग्नीन् परिस्तृणाति यद्यपरिस्तीर्णा भवन्ति । कर्मणे वां देवेभ्यश्शकेयम् हस्ताववनिज्य । उलपराजीमादाय । यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि सन्तत्यै त्वा यज्ञस्य गार्हपत्यात्प्रक्रम्य सन्ततामुलपराजीं स्तृणात्याऽऽहवनीयात् । तूष्णीं दक्षिणामुत्तरां च । परिभोजिन्याः कांश्चिद्दर्भानादाय दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्पयति । पूर्वं ब्रह्मणः अपरं यजमानस्य । उत्तरेण गार्हपत्याहवनीयौ तच्छेषान्दर्भान्त्सन्स्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । दशापराणि दश पूर्वाणि । स्फ्यश्च कपालानि च, अग्निहोत्रहवणी च शूर्पं च, कृष्णाजिनं च शम्या च, उलूखलं च मुसलं च, दृषच्चोपला च इत्यपरतः । स्रुवं जुहूं, उपभृतं ध्रुवां, वेदं पात्रीं, आज्यस्थालीं प्राशित्रहरणं, इडापात्रं प्रणीताप्रणयनं इति पूर्वाणि२ । तान्युत्तरेणावशिष्टानि योक्त्रं मदन्तीं, मेक्षणं वेदाग्राणि, अन्वाहार्यस्थालीमुपवेषं, पिष्टलेपफलीकरणपात्रं आग्नीध्रपात्रं, यजमानपात्रं दर्भं च । प्रातर्दोहपात्राण्यासाद्य ३ । अत्र पूर्ववत् पवित्रे करोति यदि न सन्नयति । सन्नयतस्तु ते विभवतः ।

ब्रह्मवरणम्

अध्वर्युर्यजमानश्च ब्रह्माणं वृणीते । भूपते भुवनपते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे इति ।

ब्रह्मा - अहं भूपतिरहं भुवनपतिः । अहं महतो भूतस्य पतिः । देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि । देव सवितरेतं त्वा वृणते । बृहस्पतिं दैव्यं ब्रह्माणम् । तदहं मनसे प्रब्रवीमि । मनो गायत्रियै । गायत्री त्रिष्टुभे । त्रिष्टुब्जगत्यै । जगत्यनुष्टुभे । अनुष्टुप् पङ्क्त्यै । पङ्क्तिः प्रजापतये । प्रजापतिर्विश्वेभ्यो देवेभ्यः । विश्वे देवा बृहस्पतये । बृहस्पतिर्ब्रह्मणे । ब्रह्म भूर्भुवस्सुवः । बृहस्पतिर्देवानां ब्रह्मा । अहं मनुष्याणाम् । बृहस्पते यज्ञं गोपाय । इत्युक्त्वा अपरेणाहवनीयं दक्षिणातिक्रामति । निरस्त: पराग्वसुस्सह पाप्मना ब्रह्म सदनात्तृणं निरस्य । अप उपस्पृश्य । इदमहमर्वाग्वसोस्सदने सीदामि प्रसूतो देवेन सवित्रा बृहस्पतेस्सदने सीदामि । तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्यै इत्युपविशति १ । कर्मणि कर्मणि वाचं यच्छति ।

यजमानः - तूष्णीं निरसनोपवेशने करोति ।

प्रणीताप्रणयनम्

अध्वर्युः - वानस्पत्योऽसि देवेभ्यश्शुन्धस्व प्रणीताप्रणयनं चमसमद्भिः प्रक्षालयति । अपरेण गार्हपत्यं पवित्रान्तर्हितं चमसं निधाय अनया पृथिव्यापो ग्रहीष्यामि पृथिवीं मनसा ध्यात्वा । को वो गृह्णाति स वो गृह्णातु कस्मै वो गृह्णामि तस्मै वो गृह्णामि पोषाय व: उपबिलं चमसमद्भिः पूरयित्वा । अनया पृथिव्यापो गृह्णामि २ पृथिवीं मनसा ध्यात्वा । पूर्ववदुत्पूयाभिमन्त्र्य । ब्रह्मन्नप: प्रणेष्यामि यजमान वाचं यच्छ ब्रह्माणमामन्त्रयते ।

ब्रह्मा - प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि इति जपित्वा । ओं३ प्रणय इत्युच्चैरनुजानाति प्रणीयमानासु वाचं यच्छतोऽध्वर्युर्यजमानश्च आ हविष्कृतः ।

अध्वर्युः - को वः प्रणयति स वः प्रणयत्वपो देवीः प्रणयानि यज्ञꣳ सꣳ सादयन्तु न: । इरं मदन्तीर्घृतपृष्ठा उदाकुस्सहस्रपोषं यजमाने न्यञ्चतीः । अनया पृथिव्यापः प्रणयानि पृथिवीं मनसा ध्यात्वा समं प्राणैर्धारयमाण: स्फ्येनोपसङ्गृह्य अविषिंचन् हरति ।

यजमानः - भूश्च कश्च वाक्चर्क्च गौश्च वट्च खं च धू्ꣳश्च नूꣳश्च पूꣳश्चैकाक्षरा: पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्तानो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्मपूताः स्थ । को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात् प्रस्रवन्त्युपरिष्टाथ्सर्वतश्च याः । ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे प्रणीता: प्रणीयमाना अनुमन्त्रयते ।

अध्वर्युः - को वो युनक्ति स वो युनक्तु उत्तरेण आहवनीयं असंस्पृष्टा दर्भेषु सादयति । नेङ्गयन्ति नेलयन्त्यासंस्थातोः । दर्भैरभिप्रच्छाद्य । पवित्रं स्फ्यमादाय । स्फ्यं यथास्थानं निधाय । सं विशन्तां दैवीर्विश: पात्राणि देवयज्यायै सपवित्रेण पाणिना पात्राणि संमृश्य । असम्भवतां मन्त्रावृत्ति:

हविर्निर्वापः

वानस्पत्यासि दक्षाय त्वा अग्निहोत्रहणीमादत्ते । वेषाय त्वा शूर्पम् । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः आहवनीये गार्हपत्ये वा प्रतितप्य । यजमान हविर्निर्वप्स्यामि इत्यामन्त्रयते ।

यजमानः - ओं निर्वप इत्यनुजानाति ।

अध्वर्युः - प्रवसति यजमाने अग्ने हविर्निर्वप्स्यामि इति । उर्वन्तरिक्षमन्विहि शकटायाभिप्रव्रजति । अपरेण गार्हपत्यमुपविश्य । यदि पात्र्या निर्वपेत्१ दक्षिणत: स्फ्यमुपधाय पात्रीमन्वारभ्य व्रीहिमतीं यवमतीं वा तस्यां सर्वान् शकटमन्त्रान् जपेत् । धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वामस्त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतमम् । विष्णुस्त्वाक्रꣳस्त । अह्रुतमसि हविर्धानं दृꣳहस्व मा ह्वाः । मित्रस्य त्वा चक्षुषा प्रेक्षे मा भेर्मा संविक्था मा त्वा हिꣳसिषम् पुरोडाशीयान्प्रेक्षते । निरस्तꣳ रक्षो निरस्तोऽघशꣳसः यदन्यत्पुरोडाशीयेभ्यस्तन्निरस्य । अप उपस्पृश्य । ऊर्जाय वः पयो मयि धेहि अभिमन्त्र्य । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः इति दशहोतारं व्याख्याय । शूर्पे पवित्रं निधाय तस्मिन्नग्निहोत्रहवण्या हवींषि निर्वपति । तया वा पवित्रवत्या । यच्छन्तां पञ्च मुष्टिं गृहीत्वा । स्रुचि मुष्टिमोप्य । देवस्य त्वा सवितुः — हस्ताभ्यामग्नये जुष्टं निर्वपामि त्रिर्यजुषा तूष्णीं चतुर्थम् ।

यजमानः - अग्निꣳ होतारमिह तꣳ हुवे देवान् यज्ञियानिह यान् हवामहे । आयन्तु देवास्सुमनस्यमाना वियन्तु देवा हविषो मे अस्य हविर्निरुप्यमाणमनुमन्त्रयते ।

अध्वर्युः - निरुप्तेष्वन्वोप्य । एवमुत्तरं यथादैवतम् । देवस्य त्वा सवितुः —हस्ताभ्यामग्नीषोमाभ्यां जुष्टं निर्वपामि ।१ देवस्य त्वा सवितुः — हस्ताभ्यामिन्द्राय वैमृधाय जुष्टं निर्वपामि इति पौर्णमास्याम् ।

दर्शे तु = देवस्य त्वा सवितुः — हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा सवितुः — हस्ताभ्यामिन्द्राग्निभ्यां जुष्टं निर्वपामि २ । निरुप्तेष्वन्वोप्य । इदं देवानाम् निरुप्तानभिमृशति । इदमुनस्सह अवशिष्टान् । स्फात्यै त्वा नारात्यै निरुप्तानेवाभिमन्त्र्य । इदमहं निर्वरुणस्य पाशात् उपनिष्क्रम्य । स्वरभिव्यख्यम् प्राङ्प्रेक्षते । सुवरभिविख्येषम् सर्वं विहारमनुवीक्षते । वैश्वानरं ज्योति: आहवनीयम् । स्वाहा द्यावापृथिवीभ्याम् स्कन्नानभिमन्त्र्य । दृꣳहन्तां दुर्या द्यावापृथिव्योः प्रत्यवरोह्य । स्फ्यं यथास्थानं निधाय । उर्वन्तरिक्षमन्विहि हरति । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्नीषोमौ हव्यꣳ रक्षेथामिन्द्र वैमृध हव्यꣳ रक्षस्व इति पौर्णमास्याम् । दर्शे तु = अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथाम् अपरेणाहवनीयं यथादैवतमुपसादयति ।

यजमानः - कस्त्वा युनक्ति स त्वा युनक्तु सर्वं विहारमनु वीक्षते ।

हविः प्रोक्षणम्

अध्वर्युः - सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पुयाभिमन्त्र्य । ब्रह्मन् प्रोक्षिष्यामि इति ब्रह्माणमामन्त्रयते ।

ब्रह्मा - प्रोक्ष यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि इति जपित्वा । ओं प्रोक्ष इत्यनुजानाति ।

अध्वर्युः - देवस्य त्वा सवितुः — हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्यां वो जुष्टं प्रोक्षामीन्द्राय वैमृधाय वो जुष्टं प्रोक्षामि इति पौर्णमास्याम् । दर्शे तु = देवस्य त्वा सवितुः — हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि त्रिर्हविः प्रोक्षति, सकृन्मन्त्रेण द्विस्तूष्णीम् । नाग्निमभिप्रोक्षेत् । उत्तानानि पात्राणि पर्यावर्त्य । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै इति सपवित्रेण पाणिना त्रिः प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय ।

हविरवहननम्

देवस्य त्वा सवितुः — हस्ताभ्यामाददे कृष्णाजिनमादाय । अवधूतꣳ रक्षोऽवधूता अरातयः उत्करे त्रिरवधूनोति । ऊर्ध्वग्रीवं बहिष्टाद्विशसनम् । अदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्तु उत्तरेण गार्हपत्यमुत्करदेशे वा कृष्णाजिनं प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति । पुरस्तात्प्रतीचीं भसदमुपसमस्यति । अनुत्सृजन्कृष्णाजिनम् । अधिषवणमसि वानस्पत्यं प्रति त्वादित्यास्त्वग्वेत्तु तस्मिन्नुलूखलमधिवर्तयति । अनुत्सृजन्नुलूखलम् । अग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामि तस्मिन् हविरावपति । त्रिर्यजुषा तूष्णीं चतुर्थम् । अद्रिरसि वानस्पत्यस्स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्व मुसलमादाय । हविष्कृदे३हि इति त्रिराह्वयति पत्नीम् ।

पत्नी - अव रक्षो दिवः सपत्नं वध्यासम् अवहन्ति ।

अध्वर्युः - उच्चैस्समाहन्तवै३ इति संप्रेष्यति ।

आग्नीध्रः - देवस्य त्वा सवितुः — हस्ताभ्यामाददे शम्यामादाय । इषमा वदोर्जमा वद द्युमद्वदत वयꣳ सङ्घातं जेष्म दृषदुपले समाहन्ति । द्विर्दृषदि सकृदुपलायां त्रिस्सञ्चाारयन् नवकृत्वस्सम्पादयति । यत्र समाप्तिस्तत्रोपक्रमः ।

अध्वर्युः - वर्षवृद्धमसि पुरस्ताच्छूर्पमुपोहति । वर्षवृद्धास्स्थ उलूखलगतं हविरभिमन्त्र्य । प्रति त्वा वर्षवृद्धं वेत्तु शूर्पे हविरुद्वपति । परापूतꣳ रक्ष: परापूता अरातयः उत्करे परापुनाति । प्रविद्धꣳ रक्षः पराध्माता अमित्रा: तुषान् प्रस्कन्दतोऽनुमन्त्रयते । मध्यमे पुरोडाशकपाले तुषानोप्य । रक्षसां भागोऽसि अधस्तात्कृष्णाजिनस्योपवपति उत्तरमपरमवान्तरदेशम् ।

यजमान: - रक्षोभ्य इदम् । उभावप उपस्पृशतः ।

फलीकरणम्

अध्वर्युः - अद्भिः कपालं संस्पृश्य । प्रज्ञातं निधाय । अप उपस्पृश्य । वायुर्वो विविनक्तु विविच्य । देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णातु पात्र्यां तण्डुलान्प्रस्कन्दयित्वा । अदब्धेन वश्चक्षुषाऽवपश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशासे अवेक्ष्य, आदाय । तूष्णीमुलूखले न्युप्य । त्रिष्फलीकर्तवै३ इति सम्प्रेष्यति ।

पत्नी - देवेभ्यश्शुन्धध्वम् । देवेभ्यश्शुन्ध्यध्वम् । देवेभ्यश्शुम्भध्वम् सुफलीकृतान्करोति तूष्णीं वा ।

अध्वर्युः - फलीकरणान् फलीकरणपात्रे निधाय । त्रिः प्रक्ष्याल्य तण्डुलान् । त्रिष्फली क्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादितः उत्करे त्रिर्निनयति । सकृन्मन्त्रेण द्विस्तूष्णीम् ।

यजमानः - रक्षोभ्य इदम् । उभावप उपस्पृशतः ।

हविरधिवापः

अध्वर्युः - कृष्णाजिनादानादि प्रागधिवर्तनात्कृत्वा । दिवस्स्कम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्तु कृष्णाजिने उदीचीनकुम्बां शम्यां निधाय । धिषणासि पर्वत्या प्रति त्वा दिवस्स्कम्भनिर्वेत्तु तस्यां दृषदमत्यादधाति । धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्तु दृषद्युपलामत्यादधाति । पूर्ववदनुत्सर्गः । अꣳशवस्स्थ मधुमन्तः तण्डुलानभिमन्त्र्य । देवस्य त्वा सवितुः — हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नीषोमाभ्यां जुष्टमधिवपामीन्द्राय वैमृधाय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् इति पौर्णमास्याम् ।

दर्शे तु = देवस्य त्वा सवितुः — हस्ताभ्यामग्नये जुष्टमधिवपामीन्द्राग्निभ्यां जुष्टमधिवपामि धान्यमसि धिनुहि देवान् दृषदि तण्डुलानधिवपति । त्रिर्यजुषा तूष्णीं चतुर्थम् । प्राणाय त्वा प्राचीमुपलां प्रोहति । अपानाय त्वा प्रतीचीम् । व्यानाय त्वा मध्यदेशे व्यवधारयति । प्राणाय त्वाऽपानाय त्वा व्यानाय त्वा सन्ततं पिनष्टि । दीर्घामनु प्रसितिमायुषे धां प्राचीमन्ततोऽनुप्रोह्य । देवो वस्सविता हिरण्यपाणिः प्रतिगृह्णातु कृष्णाजिने पिष्टानि प्रस्कन्दयित्वा । अदब्धेन वश्चक्षुषावेक्षे अवेक्ष्य, आदाय । तूष्णीं दृषदि न्युप्य । असंवपन्ती पिꣳषाणूनि कुरुता३त् इति संप्रेष्यति । पत्नी पिनष्टि अपि वा दासी१ । फलीकरणं पिष्टलेपं च गृहीत्वा । प्रज्ञातं निदधाति । आहवनीये गार्हपत्ये वा हवींषि श्रपयति ।

कपालोपधानं प्रातर्दोहश्च

धृष्टिरसि ब्रह्म यच्छ उपवेषमादाय । रक्षसः पाणिं दहाहिरसि बुध्नियः अभिमन्त्र्य । अपाग्नेऽग्निमामादं जहि तेन आहवनीयात्प्रत्यञ्चाावङ्गारौ निर्वर्त्य । निष्क्रव्यादꣳ सेध तयोरन्यतरमुत्तर-मपरमवान्तरदेशं निरस्य । अप उपस्पृश्य । आ देवयजं वह दक्षिणमवस्थाप्य । ध्रुवमसि पृथिवीं दृꣳहायुर्दृꣳह प्रजां दृꣳह सजातानस्मै यजमानाय पर्यूह तस्मिन्नङ्गारे मध्यमं पुरोडाशकपालमुपदधाति । निर्दग्धꣳ रक्षो निर्दग्धा अरातयः कपालेऽङ्गारमत्याधाय । धर्त्रमस्यन्तरिक्षं दृꣳह प्राणं दृꣳहापानं दृꣳह सजातानस्मै यजमानाय पर्यूह मध्यमात्पुरतः द्वितीयं सम्स्पृष्टम् । धरुणमसि दिवं दृꣳह चक्षुर्दृꣳह श्रोत्रं दृꣳह सजातानस्मै यजमानाय पर्यूह तस्मात्पुरतः तृतीयं सम्स्पृष्टम् । चिदसि विश्वासु दिक्षु सीद मध्यमाद्दक्षिणत: । परिचिदसि विश्वासु दिक्षु सीद मध्यमादुत्तरतः । मरुताꣳ शर्धोऽसि मध्यमात्पश्चात् । धर्मासि दिशो दृꣳह योनिं दृꣳह प्रजां दृꣳह सजातानस्मै यजमानाय पर्यूह दक्षिणात्पुरतः । चितस्स्थ प्रजामस्मै रयिमस्मै सजातानस्मै यजमानाय पर्यूह उत्तरात्पुरतः । इत्याग्नेयम् । एवमितरयोरष्टावुपधाय । चितस्स्थोर्ध्वचितः इति त्रीण्युपधाय कपालानि तूष्णीं वा, यथायोगमुपदधाति नैर्ऋत्यादिकोणेषु प्रदक्षिणम् । अत्र सायंदोहवत्प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि संक्षालननिनयनान्तम् । भृगूणामङ्गिरसां तपसा तप्यध्वम् वेदेन कपालेषु अङ्गारानध्यूह्य । प्रतिकपालयोगं मन्त्रावृत्तिः । मदन्तीरधिश्रयति ।

संवापः पुरोडाशकरणञ्च

प्रक्षालितायां पात्र्यां निष्टप्तोपपातायां १ पवित्रवत्यां कृष्णाजिनात् पिष्टानि संवपति । देवस्य त्वा सवितुः — हस्ताभ्यामग्नये जुष्टꣳ संवपाम्यग्नीषोमाभ्यां जुष्टꣳ संवपामीन्द्राय वैमृधाय जुष्टꣳ संवपामि इति पौर्णमास्याम् ।

दर्शे तु = देवस्य त्वा सवितुः — हस्ताभ्यामग्नये जुष्टꣳ संवपामीन्द्राग्निभ्यां जुष्टꣳ संवपामि । त्रिर्यजुषा तूष्णीं चतुर्थम् । सर्वं संवपन्वाचं यच्छति तामभिवासयन् विसृजते । प्रोक्षणीवत्पिष्टान्युत्पूय । पवित्रं प्रज्ञातं निधाय । स्रुवेण प्रणीताभ्य अप आदाय वेदेनोपयम्य समापो अद्भिरग्मत समोषधयो रसेन सꣳ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिस्सृज्यध्वम् पिष्टेष्वानयति । स्रुवेण मदन्तीजलमादाय अद्भ्यः परि प्रजातास्स्थ समद्भिः पृच्यध्वम् तप्ताभिरनुपरिप्लाव्य । जनयत्यै त्वा संयौमि मेक्षणेन संयुत्य । मखस्य शिरोऽसि पिण्डं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयं विभज्य । यथाभागं व्यावर्तेथाम् इतरौ । समान्पिंडान्कृत्वा । इदमग्नीषोमयोः । इदमिन्द्रस्य वैमृधस्य इति पौर्णमास्याम् । यथाभागं व्यावर्तेथाम् विभज्य । इदमग्ने: । इदमिन्द्राग्न्यो: इत्यमावास्यायाम् । अन्त्ययोरेव निर्देशः । यथादैवतमभिमृशति । अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं पुरोडाशं करोति । यावन्तं वा मन्यन्ते ।

पुरोडाशाधिश्रयणं, पर्यग्निकरणं, अङ्गाराध्यूहनं च

इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामि वेदेन कपालेभ्योऽङ्गारानपोह्य । प्रतिकपालयोगं मन्त्रावृत्ति: । घर्मोऽसि विश्वायुः आग्नेयं पुरोडाशं अष्टसु कपालेष्वधिश्रयति । प्रतिपुरोडाशं मन्त्रावृत्तिः । उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् प्रथयित्वा । त्वचं गृह्णीष्व अद्भिश्श्लक्ष्णीकरोति अनतिक्षारयन् । प्रतिपुरोडाशं मन्त्रावृत्ति: । अन्तरितꣳ रक्षोऽन्तरिता अरातयः सर्वाणि हवींषि त्रिः पर्यग्निकृत्वा । देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके उल्मुकैः प्रतितपति । अग्निस्ते तनुवं माऽति धागग्ने हव्यꣳ रक्षस्व दर्भैरभिज्वलयति ज्वालैर्वा । अविदहन्त: श्रपयता३ इति सम्प्रेष्यति । आग्नीध्रो हवींषि सुशृतानि करोति । मन्त्रवत्सु वा कर्मसु, याथाकामी तूष्णीकेषु । यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं व्याहृतीश्च जपित्वा वाचं विसृजति । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्य पाꣳसुरे ॥ भूर्भुवस्सुवः । अत्र वाचं विसृजते । सम्ब्रह्मणा पृच्यस्व वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति । प्रतिपुरोडाशं मन्त्रावृत्तिः । अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं च । उल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रो लेखा लिखति प्राचीरुदीचीर्वा । तास्वसंस्यन्दयन् त्रिर्निनयति प्रत्यगपवर्गम् । एकताय स्वाहा । एकतायेदम् । द्विताय स्वाहा । द्वितायेदम् । त्रिताय स्वाहा । त्रितायेदम् । निनीयवाभितपेदभितपेत् ।

॥ इति प्रथमोऽध्याय: ॥



द्वितीयोऽध्यायः

॥ अथ द्वितीयोऽध्यायः ॥

वेदिकरणम् :-१

अध्वर्युः - देवस्य त्वा सवितुः — हस्ताभ्यामाददे स्फ्यमादाय । इन्द्रस्य बाहुरसि दक्षिणस्सहस्रभृष्टिश्शततेजा वायुरसि तिग्मतेजाः अभिमन्त्र्य । हरस्ते मा प्रतिगाम् दर्भेण स्रुववत्सम्मृज्य दर्भमुत्करे निरस्य । अप उपस्पृश्य । अपरेणाहवनीयं यजमानमात्रीमपरिमितां वा प्राचीं वेदिं करोति । यथासन्नानि हवींषि भवन्ति एवं तिरश्चीम् । तेन वेदिं एकं, द्वे, त्रीणि, चत्वारि । वेदं धृत्वा वेदेन वेदिं विविदुः पृथिवीं सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिः वेदेन वेदिं त्रिः संमार्ष्टि ।

यजमानः - चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् वेदिं सम्मृज्यमानामनुमन्त्रयते ।

अध्वर्युः - पूर्वार्धे वेदेर्वितृतीयदेशे स्तम्बयजुर्हरति । पृथिव्यै वर्मासि तत्रोदगग्रं प्रागग्रं वा दर्भं निधाय । पृथिवि देवयजन्योषध्यास्ते मूलं मा हिꣳसिषम् तस्मिन् स्फ्येन सतृणं प्रहृत्य । अप उपस्पृश्य । अपहतोऽररुः पृथिव्यै स्फ्येन सतृणान् पांसूनपादाय । व्रजं गच्छ गोस्थानम् हरति ।

यजमानः - यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यश्श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मि स्तम्बयजुर्ह्रियमाणमनुमन्त्रयते ।

अध्वर्युः - वर्षतु ते द्यौः वेदिं प्रत्यवेक्षते यजमानं वा । बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौक् उत्करे२ निवपति ।

अररुस्ते दिवं मास्कान् न्युप्तमाग्नीध्रोऽञ्जलिनाऽभिगृह्णाति ।

यजमानः - इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीषु उत्करमभिगृह्यमाणम् ।

अध्वर्युः - अपाररुम देवयजनं पृथिव्याः द्वितीये प्रहृत्य, अप उपस्पृश्य । अपहतोऽररुः पृथिव्यै देवयजन्यै अपादाय । व्रजं गच्छेत्यादि पूर्ववत् ।

अवबाढꣳ रक्षः न्युप्तमाग्नीध्रोऽञ्जलिना ऽभिगृह्णाति ।

अध्वर्युः - अररुर्द्यां मा पप्तत् तृतीये प्रहृत्य, अप उपस्पृश्य । अपहतोऽररुः पृथिव्या अदेवयजनः अपादत्ते । व्रजं गच्छेत्यादि पूर्ववत् ।

अवबाढोऽघशꣳसः न्युप्तमाग्नीध्रोऽञ्जलिनाऽभिगृह्णाति ।

अध्वर्युः - तूष्णीं चतुर्थं हरन् सर्वं दर्भशेषं हरति ।

न्युप्तमाग्नीध्रः अवबाढा यातुधानाः अञ्जलिनाऽभिगृह्णाति ।

यो मा हृदा, इदं तस्मा इति सर्वत्र यजमानोऽनु मन्त्रयते ।

पूर्वपरिग्राहः

अध्वर्युः - द्रप्सस्ते द्यां मा स्कान् खनिं प्रत्यवेक्ष्य । स्फ्येन वेदिं परिगृह्णाति । वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसा दक्षिणतः । रुद्रास्त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसा पश्चात् । आदित्यास्त्वा परिगृह्णन्तु जागतेन छन्दसा उत्तरतः ।

यजमानः - यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।

अध्वर्युः - अपाररुम देवयजनं पृथिव्या अदेवयजनो जहि स्फ्येनोत्तमां त्वचमुद्धन्ति । समुद्धतस्याग्नीध्रः । उत्करे त्रिर्निवपति ।

यजमानः - यदुद्घ्नन्तो जिहिꣳसिम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पात तस्मात् ॥ यदुद्घ्नन्तो जिहिꣳसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याश्शिवा नो विश्वैर्भुवनेभिरस्तु उद्धन्यमानामनुमन्त्रयते ।

अध्वर्युः - इमां नराः कृणुत वेदिमेत देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त विश्वे रायस्पोषा यजमानं विशन्तु इति सम्प्रेष्यति ।

आग्नीध्रः - देवस्य सवितुस्सवे कर्म कृण्वन्ति वेधसः द्व्यङ्गुलादि सम्मितां खनति । अप उपस्पृश्य ।

यजमानः - भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्च वेदिं क्रियमाणाम् ।

उत्तरपरिग्राहः

अध्वर्युः - प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी । पुरस्तादंहीयसी । पश्चात्प्रथीयसी । मध्ये सन्नततरा भवति । ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि इति ब्रह्माणमामन्त्रयते ।

ब्रह्मा - बृहस्पते परिगृहाण वेदिꣳ स्वगा वो देवास्सदनानि सन्तु । तस्यां बर्हिः प्रथताꣳ साध्वन्तर्हिꣳ स्राणः पृथिवी देव्यस्तु देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि इति जपित्वा । ओं३ परिगृहाण इत्यनुजानाति ।

अध्वर्युः - ऋतमसि दक्षिणतः । ऋतसदनमसि पश्चात् । ऋतश्रीरसि उत्तरतः ।

यजमानः - यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।

अध्वर्युः - धा असि स्वधा अस्युर्वी चासि वस्वी चासि पुरा क्रूरस्य विसृपो विरफ्शिन् प्रतीचीं वेदिं स्फ्येन योयुप्य । उदादाय पृथिवीं जीरदानुर्यामैरयन् चन्द्रमसि स्वधाभिस्तां धीरासो अनुदृश्य यजन्ते वेदिं प्रतीचीमनुवीक्षते । पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चं स्तब्ध्वा सम्प्रेष्यति । प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीꣳसंनह्याज्येनोदे३हि ।

आग्नीध्रः - प्रोक्षणीरभिपूर्य१ उदञ्चं स्फ्यमपोह्य । दक्षिणेन स्फ्यमसंस्पृष्टा अप उपनिनीय । ऋतसधस्थ पापघ्न्यः स्फ्यस्य वर्त्मन्त्सादयति ।

यजमानः - ईडेन्य क्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीः प्रोक्षणीरासाद्यमाना अनुमन्त्रयते ।

आग्नीध्रः - शतभृष्टिरसि वानस्पत्यो द्विषतो वधः पाप्मनः पुरस्तात्प्रत्यञ्चमुत्करे स्फ्यमुदस्यति । हस्ताववनिज्य । स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन् । उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति । दक्षिणमिध्ममुत्तरं बर्हिः ।

यजमानः - ऊर्णामृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् बर्हिरासाद्यमानमनुमन्त्रयते ।

स्रुक्सम्मार्जनम्

आग्नीध्रः - घृताचीरेताग्निर्वो ह्वयति देवयज्यायै सस्रुवप्राशित्रस्स्रुच आदाय । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः आहवनीये प्रतितप्य । अनिशितास्स्थ सपत्नक्षयणीः स्रुचोऽभिमन्त्रयते । वेदाग्राणि प्रतिविभज्य अप्रतिविभज्य वा तैः स्रुचः सम्मार्ष्टि । गोष्ठं मा निर्मृक्षं वाजिनं त्वा सपत्नसाहꣳ सम्मार्ज्मि स्रुवमग्रैरन्तरतोऽभ्याकारं सर्वतो बिलमभिसमाहारं मूलैर्दण्डम् । वाचं प्राणं मा निर्मृक्षं वाजिनीं त्वा सपत्नसाहीꣳ सम्मार्ज्मि जुहूमग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतः प्रतीचीं मूलैर्दण्डम् । चक्षुश्श्रोत्रं मा निर्मृक्षं वाजिनीं त्वा सपत्नसाहीꣳ सम्मार्ज्मि उपभृतमुदीची-मग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतः प्राचीं मूलैर्दण्डम् । प्रजां योनिं मा निर्मृक्षं वाजिनीं त्वा सपत्नसाहीꣳ सम्मार्ज्मि यथा स्रुवमेवं ध्रुवाम् । रूपं वर्णं पशूनां मा निर्मृक्षं वाजि त्वा सपत्नसाहꣳ सम्मार्ज्मि स्रुववत् प्राशित्रहरणम् । तूष्णीं वा । न सम्मृष्टान्यसम्मृष्टैस्संस्पर्शयति । अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामि पुनः प्रतितप्य । प्रोक्ष्याग्रेणोत्करं दर्भेषु सादयति जघनेन वा । स्रुक्संमार्जनान्यद्भिस्संस्पृश्य । दिवश्शिल्पमवततं पृथिव्याः ककुभिश्श्रितम् । तेन वयꣳ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहा अग्नौ प्रहरति ।

यजमानः - प्रजापतय इदम् ।

पत्न्याः योक्त्रसन्नहनम्

आग्नीध्रः - वेदमाज्यस्थालीं योक्त्रं पवित्रे चादाय । आशासाना सौमनसं प्रजाꣳ सौभाग्यं तनूम् । अग्नेरनुव्रता भूत्वा सन्नह्ये सुकृताय कम् अपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं अन्यतरतः पाशेन योक्त्रेण सन्नह्यति१ । तिष्ठन्तीं वा । वाचयतीत्येके ।

पत्नी - उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा । प्रदक्षिणं पर्यूह्य । दक्षिणेन नाभिमवस्थाप्योपोत्थाय । अग्ने गृहपत उप मा ह्वयस्व गार्हपत्यमुपतिष्ठते । देवानां पत्नीरुप मा ह्वयध्वं पत्निपत्न्येष ते लोको नमस्ते अस्तु मा मा हिꣳसीः देवपत्नीरुपतिष्ठते । तस्माद्देशादपक्रम्य । सुप्रजसस्त्वा वयꣳ सुपत्नीरुप सेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम् दक्षिणत उदीच्युपविशति । इन्द्राणी वाऽविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्य उपनिषदे सुप्रजास्त्वाय पत्नी जपति ।

यजमानः - युक्ता मे यज्ञमन्वासातै३ इति सम्प्रेष्यति ।

आज्यसंस्कारः

बह्वाज्याभ्यां दर्शपूर्णमासाभ्यां यजते ।

आग्नीध्रः - पूषा ते बिलं विष्यतु सर्पिर्धानस्य बिलमपावृत्य । दक्षिणाग्नावाज्यं विलाप्य । अदितिरस्यच्छिद्रपत्रा आज्यस्थालीमादाय । महीनां पयोऽस्योषधीनाꣳ रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्यायै तस्यां पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य । इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे दक्षिणाग्नावधिश्रित्य । वेदेन भस्म प्रमृज्य । इषे त्वा दक्षिणार्धे गार्हपत्यस्याधिश्रित्य । ऊर्जे त्वा अपादाय । वेदेन भस्म प्रमृज्य वेदेनोपयम्य । पत्न्यञ्जलावुप हरति । तत्सा निमील्यावेक्ष्य अनुच्छ्वसन्ती आज्यमवेक्षते । महीनां पयोऽस्योषधिनाꣳ रसोऽदब्धेन त्वा चक्षुषावेक्षे सुप्रजास्त्वाय ।

आग्नीध्रः - तेजोऽसि उत्तरार्धे गार्हपत्यस्याधिश्रित्य । तेजसे त्वा अपादाय १। वेदेन भस्म प्रमृज्य वेदेनोपयम्य । तेजोऽसि तेजोऽनुप्रेहि हरति । अग्निस्ते तेजो मा वि नैत् आहवनीयेऽधिश्रित्य । वेदेन भस्म प्रमृज्य । अग्नेर्जिह्वासि सुभूर्देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव स्फ्यस्य वर्त्मन्थ्सादयति ।

आज्यावेक्षणम्

अध्वर्युर्यजमानश्च निमील्यावेक्ष्य । अनुच्छ्वसन्तावाज्यमवेक्षेते । आज्यमसि सत्यमसि सत्यस्याध्यक्षमसि हविरसि वैश्वानरं वैश्वदेवमुत्पूतशुष्मꣳ सत्यौजास्सहोऽसि सहमानमसि सहस्वारातीस्सहस्वारातीयतस्सहस्व पृतनास्सहस्व पृतन्यतः । सहस्रवीर्यमसि तन्मा जिन्वाज्यस्याज्यमसि सत्यस्य सत्यमसि सत्यायुरसि सत्यशुष्ममसि सत्येन त्वाऽभिघारयामि तस्य ते भक्षीय २ ।

आज्यस्योत्पवनम्

अध्वर्युः - उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पुनाति । शुक्रमसि प्रथमम् । ज्योतिरसि द्वितीयम् । तेजोऽसि तृतीयम् । पूर्ववदाज्यलिप्ताभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति । देवो वस्सवितोत्पुनातु, अच्छिद्रेण पवित्रेण, वसोस्सूर्यस्य रश्मिभिः ।

यजमानः - अद्भिराज्यमाज्येनापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शा-क्वरेणेमं यज्ञमवत संविदानाः आज्यं प्रोक्षणीश्चोत्पूयमानाः । उभावाज्यग्रहं जपतः ।

आज्यग्रहणम्

अध्वर्युः - अनिष्कासिना स्रुवेण वेदमुपभृतं कृत्वान्तर्वेद्याज्यानि गृह्णाति । समं बिलं धारयमाणः भूयो जुह्वाम् । चतुर्जुह्वाम् । शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । ज्योतिस्त्वा ज्योतिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । अर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि ॥ पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि इति पञ्चावत्तिनः । मध्यदेशे उपभृत्यष्टावल्पीयः । पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि । पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि । धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामि इति पञ्चावत्तिनः । चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि । ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि । क्षत्रस्य त्वौजसे यन्त्राय धर्त्राय गृह्णामि । विशे त्वा यन्त्राय धर्त्राय गृह्णामि । सुवीर्याय त्वा गृह्णामि इति पञ्चावत्तिनः । भूमौ प्रतिष्ठितायां ध्रुवायां भूयिष्ठम् । सुप्रजास्त्वाय त्वा गृह्णामि । रायस्पोषाय त्वा गृह्णामि । ब्रह्मवर्चसाय त्वा गृह्णामि । भूरस्माकꣳ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि । कामाय त्वा गृह्णामि इति पञ्चावत्तिनः । नोत्करे आज्यानि सादयति । नान्तर्वेदि गृहीतस्य प्रतीचीनं हरति ।

इध्माबर्हिषः प्रोक्षणम्

पूर्ववत्प्रोक्षणीरभिमन्त्र्य । आपो देवीरग्रेपुवो —ट्ठ प्रोक्षितास्स्थ । ब्रह्मन् प्रोक्षिष्यामि ब्रह्माणमामन्त्रयते ।

ब्रह्मा - प्रोक्ष यज्ञं देवता वर्धय — यजमानं च धेहि । ओं ३ प्रोक्ष इत्यनुजानाति ।

अध्वर्युः - विस्रस्येध्मम् । कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा त्रिरिध्मं प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । वेदिरसि बर्हिषे त्वा स्वाहा त्रिर्वेदिम् । बर्हिरसि स्रुग्भ्यस्त्वा स्वाहा त्रिर्बर्हिः । सर्वत्र सकृन्मन्त्रेण द्विस्तूष्णीम् । अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य ।

यजमानः - अशिश्रेम बर्हिरन्तः पृथिव्यास्सꣳरोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुदवधीः स्फ्येन शिवानस्तास्सुहवा भवन्तु ॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टि द्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाश्शतवल्शा अदब्धाः अन्तर्वेदि बर्हिरासाद्यमानम् ।

अध्वर्युः - दिवे त्वा अग्रं प्रोक्षति । अन्तरिक्षाय त्वा मध्यम् । पृथिव्यै त्वा मूलम् । स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति । पोषाय त्वा सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति । प्रोक्षणीशेषं प्राचीनावीतिनौ । स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छत दक्षिणायै श्रोणेरोत्तरस्याः सन्ततं निनयति ।

यजमानः - पितृभ्यो बर्हिषद्भ्य इदम् । यज्ञोपवीतिनावुभावप उपस्पृशतः ।

दर्भैः वेद्याः स्तरणम्

अध्वर्युः - पूषा ते ग्रन्थिं विष्यतु ग्रन्थिं विस्रंसयति । प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति । विष्णोस्स्तूपोऽसि कर्षन्निव आहवनीयं प्रति प्रस्तरमादत्ते । अयं प्राणश्चापानश्च यजमानमपि गच्छताम् । यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामि तस्मिन्पवित्रे अपिसृजति । प्राणापानाभ्यां त्वा सतनुं करोमि अग्रेणाहवनीयं यजमानाय प्रयच्छति । यजमानो ब्रह्मणे, ब्रह्मा प्रस्तरं धारयति । यजमानो वा । दर्भैर्वेदिमन्तर्धाय परिभोजनीयैरन्यैश्च दक्षिणतस्सन्नहनं स्तृणात्यक्ष्णया वा । ऊर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः बहुलमनतिदृश्नं प्रत्यगपवर्गं त्रिधातु पञ्चधातु वा बर्हिषा वेदिं स्तृणाति । धातौधातौ मन्त्रावृत्तिः । अग्रैर्मूलान्याच्छादयति ।

यजमानः - चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका वयुनानि वस्ते । साऽऽस्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् ॥ शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि ॥ इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून्मे पिन्वस्व बर्हिरास्तीर्यमाणां वेदिमनुमन्त्रयते ।

परिधीनां परिधानम्

अध्वर्युः - प्रस्तरपाणिस्संस्पृष्टान् परिधीन्परिदधाति । गन्धर्वोऽसि विश्वावसुर्विश्वस्मादीशतो यजमानस्य परिधिरिड ईडितः उदगग्रं स्थविष्ठं मध्यमं, प्रागग्रावितरौ । आहवनीयमभ्यग्रं दक्षिणमवाग्रमु-त्तरम् ।

यजमानः - ध्रुवोऽसि ध्रुवोहꣳ सजातेषु भूयासं धीरश्चेत्ता वसुवित् मध्यमं परिधीयमानं यजमानोऽनुमन्त्रयते ।

अध्वर्युः - इन्द्रस्य बाहुरसि दक्षिणो यजमानस्य परिधिरिड ईडितः दक्षिणम् ।

यजमानः - उग्रोऽस्युग्रोहꣳ सजातेषु भूयासमुग्रश्चेत्ता वसुवित् अनुमन्त्रयते ।

अध्वर्युः - मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा यजमानस्य परिधिरिड ईडितः उत्तरम् ।

यजमानः - अभिभूरस्यभिभूरहꣳ सजातेषु भूयासमभिभूश्चेत्ता वसुवित् अनुमन्त्रयते । अस्मिन् यज्ञ उप भूय इन्नु मे अविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि निरितोनुदातै परिधीनेवानुमन्त्रयते ।

अग्निकल्पनम्

अध्वर्युः - सूर्यस्त्वा पुरस्तात्पातु कस्यादभिशस्त्याः आहवनीयमभिमन्त्र्य । उपर्याहवनीये प्रस्तरं धारयन्नग्निं कल्पयति ।

यजमानः - युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं ते । यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नन्दुर्मरायुमैनं दधामि निर्ऋत्या उपस्थे । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्, यज्ञहनः पिशाचाः आहवनीयमभिमन्त्रयते ।

अध्वर्युः - मध्यमं परिधिमुपस्पृश्य पुरस्तादूर्ध्वे आघारसमिधावादधाति । वीतिहोत्रं त्वा कवे द्युमन्तꣳ समिधीमह्यग्ने बृहन्तमध्वरे दक्षिणाम् । समिदस्यायुषे त्वा उत्तराम् ।

विधृत्यासादनं प्रस्तरस्तरणं च

समावनन्तर्गर्भौ दर्भौ विधृती कुरुते । विशो यन्त्रे स्थः अन्तर्वेद्युदगग्रे निदधाति ।

यजमानः - विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः ॥ विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती । प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतम् विधृती आसाद्यमाने अनुमन्त्रयते ।

अध्वर्युः - वसूनाꣳ रुद्राणामादित्यानाꣳ सदसि सीद तयोः प्रस्तरमत्यादधाति । अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः ।

यजमानः - अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन्त्स्रुचो अध्यासादयामि प्रस्तरमासाद्यमानम् ।

स्रुचां आसादनम्

अध्वर्युः - अनूचीरसंस्पृष्टाः स्रुचः प्रस्तरे सादयति जुहूरसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद प्रस्तरे जुहूं सादयति ।

यजमानः - आरोह पथो जुहु देवयानान् यत्र ऋषयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा सम्भृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येन जुहूमासाद्यमानाम्

अध्वर्युः - उपभृदसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद उपभृतं सादयति ।

यजमानः - अवाहं बाध उपभृता सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदाः १ । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येन उपभृतमासाद्यमानाम् ।

अध्वर्युः - ध्रुवासि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद ध्रुवां सादयति ।

यजमानः - यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः १ । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवान् वैश्वदेवेन शर्मणा दैव्येन ध्रुवामासाद्यमानाम्

अध्वर्युः - ऋषभोऽसि शाक्वरो घृताचीनाꣳ सूनुः । प्रियेण नाम्ना प्रिये सदसि सीद स्रुवं सादयति ।

यजमानः - स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिस्सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ अयꣳ स्रुवो अभि जिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येन स्रुवमासाद्यमानम् ।

अध्वर्युः - तूष्णीमाज्यस्थालीं स्रुचाम् पश्चात्सादयति ।

यजमानः - इयꣳ स्थाली घृतस्य पूर्णा अच्छिन्नपयाश्शतधार उत्सः । मारुतेन शर्मणा दैव्येन आज्यस्थालीमासाद्यमानाम् ।

आज्याभिमन्त्रणं, हविषः उद्वासनं, प्रतिष्ठापनं, अलङ्करणं च

अध्वर्युः - एता असदन्थ्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियं स्रुचोऽभिमन्त्र्य । विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानि स्रुग्गतान्याज्यानि । वेदमाज्यस्थालीं पात्रीं स्रुवं चादाय । इदमहꣳ सेनाया अभीत्वर्यै मुखमपोहामि वेदेन कपालवत्पुरोडाशादङ्गारानपोह्य । प्रतिपुरोडाशं मन्त्रावृत्तिः । सूर्यज्योतिर्विभाहि महत इन्द्रियाय अभिमन्त्र्य । प्रतिपुरोडाशं मन्त्रावृत्तिः । आ प्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामि आग्नेयं पुरोडाशमभिघारयति । तूष्णीमितरौ । यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्त्सोम घृतवान् हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यं प्रातर्दोहमभिघारयति । तूष्णीं सायंदोहम् । स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि ते पात्र्यामुपस्तीर्य । आर्द्रः प्रथस्नुर्भुवनस्य गोपाश्शृत उत्स्नाति जनिता मतीनाम् अपर्यावर्तयन् पुरोडाशमुद्वास्य । वेदेन भस्म प्रमृज्य । तस्मिन्त्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमानः पात्र्यां प्रतिष्ठापयति । तूष्णीं यवमयम् । प्रतिपुरोडाशं स्योनं त इत्याद्यावृत्तिः । दृꣳह गा दृꣳह गोपतिं मा वो यज्ञपती रिषत् प्रातर्दोहमुद्वासयति । इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् स्रुवेण कपालानि प्रत्यज्य । प्रतिकपालयोगं मन्त्रावृत्तिः । देवस्त्वा सविता मध्वानक्तु स्रुवेण पुरोडाशमनक्ति । उपरिष्टादभ्यज्य अधस्ताद्धस्तेनोपानक्ति ।

यजमानः - तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन । तृप्तिरसि त्रैष्टुभं छन्दस्तर्पयमौजसा वीर्येण । तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः पुरोडाशानभ्यज्यमानान् । प्रतिपुरोडाशं मन्त्रावृत्तिः ।

हविरासादनम्

अध्वर्युः - पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति चतुर्होत्रा पौर्णमास्यां हवींष्यासादयति । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोत्रा अमावास्यायाम् । असम्भवतां मन्त्रावृत्तिः । प्रथमप्रयोगे व्याहृतीभिर्हवींष्यासादयति । संवत्सरे पर्यागतेऽपि एताभिर्व्याहृतीभिरासादयेत् । अपरेण स्रुचः पुरोडाशानासादयत्युत्तरौ दोहौ । अपि वा मध्ये वेद्यास्सान्नाय्य कुम्भ्यौ सन्दधाति । पूर्वं शृतमपरं दधि । अथैने व्यूहति दक्षिणास्यां वेदिश्रोण्यां शृतमासादयति उत्तरस्यां दधि ।

हविरभिमर्शनम्

यजमानः - यज्ञोऽसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः आग्नेयं पुरोडाशमासन्नमभिमृशति । अयं यज्ञस्समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्याम् सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्रो वैमृधो भुवनान्नुदतामहं प्रजां वीरवतीं विदेय ऐन्द्रं वैमृधम् ।

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृताना जयेम ॥ मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुगोपमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणमायजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त पूर्वेऽरिष्टास्स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिस्सत्या मनसो मे अस्तु । एनो मा निगां कतमच्चनाहं विश्वे देवासो अधि वोचता मे ॥ देवीष्षडुर्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ अग्निर्मन्युं प्रतिनुदन् पुरस्ताददब्धो गोपाः परि पाहि नस्त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधा वि नेशत् ॥ धाता धातृणां भुवनस्य यस्पतिर्देवꣳ सवितारमभिमातिषाहम् । इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥ उरुव्यचा नो महिषश्शर्म यꣳसदस्मिन्, हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा नो रीरिषो मा परा दाः ॥ ये नस्सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥ पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति पौर्णमास्यां सर्वाणि हवींष्यासन्ना-न्यभिमृशति ।

दर्शे तु = यज्ञोऽसि इति आग्नेयमभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयꣳ शृतं मयि श्रयताम् प्रातर्दोहमभिमृशति । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोतु सायं दोहम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय ऐन्द्राग्नम् । ममाग्ने वर्च इत्यनुवाकेन । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोत्रा च अमावास्यायाम् ।

अध्वर्युः - अत्र दक्षिणस्यां श्रोण्यां शृतमासादयत्युत्तरस्यां दधि । अयं वेदः पृथिवीमन्वविन्दद्गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोतु अग्रेणोत्तरेण वा ध्रुवां वेदं निधाय ।

इध्माधानम् ( सामिधेन्यः )

वेद्यन्तान्परिस्तरणशेषैः परिस्तीर्य परिभोजनीयैः दर्भैः होतृषदनं कल्पयित्वा सामिधेनीभ्यः प्रतिपद्यते । होतरे३हि होतारमामन्त्रयते । अग्नये समिध्यमानायानुब्रू३हि इति सम्प्रेष्यति १ । होत्रा सामिधेनीष्वनूच्यमानासु प्रणवे प्रणवे समिधमादधाति । समिद्धो अग्न आहुत इत्यभिज्ञाय एकामनूयाजसमिधमवशिष्य सर्वमिध्मशेषमभ्यादधाति । परिधानीयायां वा ।

यजमानः - दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्तु सामिधेनीनां प्रतिपदि जपति । अनूच्यमानासु दशहोतारं व्याख्याय । चित्तिः स्रुक् — सामाऽध्वर्युः । उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते । अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर्मूर्धन्नाजिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय समिध्यमानमनुमन्त्रयते । समिद्धो अग्न आहुतेत्यभिज्ञाय । समिद्धो अग्निराहुतस्स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नमः समिद्धम् ।

आघारहोमः

अध्वर्युः - वेदेनाग्निं त्रिरुपवाज्य । स्रुवेण ध्रुवाया आज्यमादाय । वेदेनोपयम्य । आसीन उत्तरं परिधिसंधिमन्ववहृत्य । प्रजापतिं मनसा ध्यायन् दक्षिणाप्राञ्चमृजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयति । स्वाहा ।

यजमानः - मनोऽसि प्राजापत्यं मनसा मा भूतेनाविश स्रौवमाघार्यमाणमनुमन्त्रयते । प्रजापतय इदम् । देवाः पितरः पितरो देवा योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि । स्वं म इष्टꣳ स्वं दत्तम् । स्वं पूर्तꣳ स्वꣳ श्रान्तम् । स्वꣳ हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुप-श्रोतादित्योनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन् यजे होतृप्रवरे अध्वर्युप्रवरे च प्रव्रियमाणे ।

अध्वर्युः - आ प्यायतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् स्रुवेण आज्यस्थाल्या आज्यमादाय अवदायावदाय ध्रुवामाप्याययतीति सार्वत्रिकम् । अग्नीत्परीधीꣳश्चाग्निं च त्रिस्त्रिस्संमृड्ढि इति सम्प्रेष्यति ।

आग्नीध्रः - इध्मसन्नहनैः सहस्फ्यैरनुपरिक्रामन् यथापरिहितं परिधीन् अन्वग्रं त्रिस्त्रिस्सम्मृज्य । अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै सं मार्ज्म्यग्निमन्नादमन्नाद्याय त्रिरग्निं प्राञ्चं संमार्ष्टि ।

अध्वर्युः - भुवनमसि विप्रथस्वाग्ने यष्टरिदन्नमः अग्रेण ध्रुवां जुहूं वा नमस्काराञ्जलिं कृत्वा । जुह्वेह्यग्निस्त्वा ह्वयति देवयज्यायै जुहूमादत्ते । उपभृदेहि देवस्त्वा सविता ह्वयति देवयज्यायै उपभृतम् । सुयमे मे अद्य घृताची भूयास्तꣳ स्वावृतौ सूपावृतौ उपभृति जुहूमत्यादधाति । अशब्दं कुर्वन्मुखतोऽभिहृत्य मुखत उपावहरतीति सार्वत्रिकम् । नाभिदेशे स्रुचौ धारयति । अग्नाविष्णू मा वामवक्रमिषं विजिहाथां मा मा सं ताप्तं लोकं मे लोककृतौ कृणुतम् अग्रेण स्रुचोऽपरेण मध्यमं परिधिमनवक्रामन् प्रस्तरं दक्षिणेन पदा दक्षिणातिक्रामत्युदक्सव्येन । विष्णोस्स्थानमसीत इन्द्रो अकृणोद्वीर्याणि अवतिष्ठते । अन्तर्वेदि दक्षिणः पादो भवत्यवघ्रस्सव्यः । अथोर्ध्वस्तिष्ठन् दक्षिणं परिधिसन्धिमन्ववहृत्य उत्तराप्राञ्चमृजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयति । अन्वारब्धे यजमाने । समारभ्योर्ध्वो अध्वरो दिविस्पृशमह्रुतो यज्ञो यज्ञपतेरिन्द्रावान् स्वाहा ।

यजमानः - वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाविश स्रुच्यमाघार्यमाणमनुमन्त्रयते । इन्द्रायेदम् ।

अध्वर्युः - हुत्वाभिप्राणिति हिम् । बृहद्भाः स्रुचमुद्गृह्य । पाहि माग्ने दुश्चरितादामा सुचरिते भज असंस्पर्शयन् स्रुचौ प्रत्याक्रामति । एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः । मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्ताम् जुह्वा ध्रुवां द्विस्त्रिर्वा समनक्ति । उन्नीतꣳ रायः स्रुवेण ध्रुवाया आज्यमादाय । सुवीराय स्वाहा जुहूमभिघार्य । जुह्वोपादाय । यज्ञेन यज्ञस्सन्ततः ध्रुवां प्रत्यभिघार्य । आयतने स्रुचौ सादयित्वा ।

यजमानस्य आर्षेयवरणम्

इध्मसन्नहनानि स्फ्य उपसङ्गृह्य वेद्याश्च तृणमव्यन्तमादाय उत्तरतः प्रवरायावतिष्ठेते पूर्वोऽध्वर्युरपर आग्नीध्रः । क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवस्सुवर्विष्णोस्स्थाने तिष्ठामि ।

आग्नीध्रः - इध्मसन्नहनान्यन्वारभ्याह । क इदमग्नीद्भविष्यति स इदमग्नीद्भविष्यति यज्ञो यज्ञस्य वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवस्सुवर्विष्णोस्स्थाने तिष्ठामि ।

अध्वर्युः - ब्रह्मन् प्रवरायाश्रावयिष्यामि इति ब्रह्माणमामन्त्र्य ।

ब्रह्मा - वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येषु देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्त ऋषीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि । ओं ३ आ३श्रा३वय ।

अध्वर्युः - आ३श्रा३वय इत्याश्रावयति ।

आग्नीध्रः - अपरेणोत्करं दक्षिणामुखस्तिष्ठन् स्फ्यं संमार्गांश्च धारयन् अस्तु श्रौषट् इति प्रत्याश्रावयति । सर्वत्रैवमाश्रुतप्रत्याश्रुते भवतः ।

अध्वर्युः - अग्निर्देवो होता देवान्यक्षद्विद्वाꣳश्चिकित्वान् मनुष्वद्भरतवदमुवदमुवद्ब्रह्मण्व-दाचवक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितारः अमुकशर्मा इति होतृनामोपांशु गृहीत्वा मानुषः इत्युच्चैः । वेद्यां तृणमपि सृजति । अमुवदित्यत्र इत ऊर्ध्वानध्वर्युः यजमानस्य आर्षेयान्वृणीते ।

यजमानः - पूर्ववत् देवाः पितर — स सन् यजे इत्यनुमन्त्रयते ।

प्रयाजहोमः

अध्वर्युः - घृतवति शब्दे तूष्णीं जुहूपभृतावादाय दक्षिणासकृदतिक्रान्तोऽपरेण आघारसंभेदं एकस्मिन् देशे पञ्च प्रयाजान् यजति । प्रतिदिशं वा १ । आश्राव्य प्रत्याश्राविते समिधो यज प्रथमं सम्प्रेष्यति । यज यज इतीतरान् । अनपव्याहरन्तः प्रचरन्ति । यदन्यद्ब्रूयात् पुनरेवाश्रावयेत् । भ्रेषकर्ता व्याहृतीर्वा जपेत् । वषट्कृते अभिक्रामञ्जुहोति २ ।

यजमानः - पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति चतुर्होतारं वदेत् पुरस्तात्प्रयाजानाम् । अग्नय इदम् । वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु । एको ममैका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अध्वर्युः - आश्राव्य प्रत्याश्राविते यज जुहोति ।

यजमानः - अग्नय इदम् । ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु । द्वौ मम द्वे तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अध्वर्युः - आश्राव्य प्रत्याश्राविते यज वषट्कृते जुहोति ।

यजमानः - अग्नय इदम् । वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु । त्रयो मम तिस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अध्वर्युः - औपभृतस्यार्धं जुह्वामानीयाश्राव्य प्रत्याश्राविते यज वषट्कृते जुहोति ।

यजमानः - अग्नय इदम् । शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु । चत्वारो मम चतस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अध्वर्युः - आश्राव्य प्रत्याश्राविते यज वषट्कृते जुहोति ।

यजमानः - अग्नय इदम् । हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणीताम् । पञ्च मम न तस्य किञ्चन योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

चक्षुषीहोमः

अध्वर्युः - प्रत्याक्रम्य शेषेण ध्रौवमभिघार्याऽऽनुपूर्व्यं१ हवींष्यभिघारयति उपभृतमन्ततः । आयतने स्रुचौ सादयित्वा । आग्नेयः सौम्यश्चाज्यहविषावाज्यभागौ । चतुर्गृहीतमाप्याय्य गृहीत्वा, जुह्वां अवदायावदाय स्रुवेण प्रस्तरबर्हिस्समज्य । आ प्यायतां ध्रुवा घृतेन — यज्ञे अस्मिन् । अग्नयेऽनुब्रू३हि अवद्यन् सम्प्रेष्यति । जुहूपभृतावादाय दक्षिणातिक्रम्य आश्राव्य प्रत्याश्राविते अग्निं यज वषट्कृते उत्तरार्धपूर्वार्धे जुहोति ।

यजमानः - अग्नय इदम् ।

अध्वर्युः - प्रत्याक्रम्य, न स्रुचौ सादयत्यास्विष्टकृतः । पूर्ववदवद्यन् सम्प्रेष्यति । सोमायानुब्रू३हि । आश्राव्य प्रत्याश्राविते । सोमं यज । वषट्कृते दक्षिणार्धपूर्वार्धे समं पूर्वेण जुहोति । उभे ज्योतिष्मती

यजमानः - सोमायेदम् । अग्नीषोमयोरहं देवयज्यया चक्षुष्मान् भूयासम् । विहृतौ वा । व्रत्येऽहनि व्रतलोपप्रायश्चित्तार्थं व्रातपतीष्टिस्थाने (आपस्तम्बानां) स्रुवाहुतिं होष्यामि ।(आश्वलायनानां तु) पूर्णाहुतिं होष्यामि २।

अध्वर्युः - अग्नये व्रतपतये स्वाहा ।

यजमानः - अग्नये व्रतपतय इदम् । अन्वाधानप्रभृति एतावत्कालपर्यन्तमृत्विक्षु मयि च संभावितसमस्तदोषनिर्हरणार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।

अध्वर्युः - स्रुवेण गृहीत्वा । ओं भूर्भुवस्सुवस्स्वाहा ।

यजमानः - प्रजापतय इदम् । दर्शे तु = पिण्डपितृयज्ञलोपप्रायश्चित्तार्थं महाहविर्होतेति सप्तहोतृमन्त्रेण होष्यामि ।

अध्वर्युः - जुह्वां चतुर्गृहीत्वा । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाऽप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता इति उपांशूक्त्वा । उच्चैः वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । मा दैव्यस्तन्तुश्छेधि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा ।

यजमानः - वाचस्पतये ब्रह्मण इदम् । साङ्गतार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।

अध्वर्युः - ओं भूर्भुवस्सुवस्स्वाहा ।

प्रधानहोमः

यजमानः - प्रजापतय इदम् । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य ।

अध्वर्युः - जुह्वामुपस्तीर्य । आ प्यायतां ध्रुवा घृतेन — यज्ञे अस्मिन् ध्रुवामाप्याय्य । अग्नयेऽनुब्रू३हि अवद्यन् सम्प्रेष्यति । मा भेर्मा संविक्था मा त्वा हिꣳसिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिꣳसीः आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रं तिरश्चीनमवद्यति । पूर्वार्धाद्द्वितीयमनूचीनं चतुरवत्तिनः पश्चार्धात्तृतीयं पञ्चावत्तिनः । असम्भिन्दन् मांससंहिताभ्यां मध्यमाङ्गुलीभ्यां अङ्गुष्ठेन च पुरोडाशस्यावद्यति । स्रुवेणाज्यसान्नाय्ययोः । अवदानान्येकीकृत्याभिघार्य । आ प्यायतां ध्रुवा घृतेन — यज्ञे अस्मिन् ध्रुवामाप्याय्य । यदवदानानि तेऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनः आज्यस्थाल्याज्येन हविः प्रत्यभिघार्य स्रुङ्मुखमानीय । दक्षिणातिक्रम्य । आश्राव्य प्रत्याश्राविते । अग्निं यज । आज्यं प्रश्च्योत्यापिदधदिवाप्रक्षिणन् हुत्वा आज्येनान्ततोऽवश्चोतयति । आघारसम्भेदेन आहुतीः प्रतिपादयति । स्रुच्यमाघारमभिजुहोति पूर्वां पूर्वां संहिताम् । यदा वीतार्चिः लेलायतीवाग्निः अथाहुतीर्जुहोति । आज्यहविरुपांशुयाजः पौर्णमास्यामेव भवति । वैष्णवोऽग्नीषोमीयः प्राजापत्यो वा । प्रधानमेवोपांशु । विष्णुं बुभूषन् यजेत ।

यजमानः - अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् हुत्वा तमनुमन्त्रयते ।

अध्वर्युः - प्रत्याक्रम्य । आ प्यायताम् । जुह्वां चतुर्गृहीत्वा । प्रजापतये {उपांशु} अनुब्रू३हि {उच्चैः} । दक्षिणातिक्रम्य । आश्राव्य प्रत्याश्राविते प्रजापतिं {उपांशु} यज {उच्चैः} वषट्कृते उपांशुयाजं मध्ये जुहोति ।

यजमानः - प्रजापतय इदं । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् ।

अध्वर्युः - विष्णुयागपक्षे । आ प्यायताम् । जुह्वां चतुर्गृहीत्वा । विष्णवे {उपांशु} अनुब्रू३हि {उच्चैः} । दक्षिणातिक्रम्य । आश्राव्य प्रत्याश्राविते विष्णुं {उपांशु} यज {उच्चैः} वषट्कृते उपांशुयाजं मध्ये जुहोति ।

यजमानः - विष्णव इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् ।

अध्वर्युः - आग्नेयवदुत्तरैर्हविर्भिर्यथादैवतं प्रचरति । समवदाय दोहाभ्याम् । सर्वाणि द्रवाणि स्रुङ्मुखेन जुहोति । आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । अग्नीषोमाभ्यामनुब्रू३हि । आश्राव्य प्रत्याश्राविते । अग्नीषोमौ यज । वषट्कृते जुहोति ।

यजमानः - अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् ।

अध्वर्युः - आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । इन्द्राय वैमृधायानुब्रू३हि । आश्राव्य प्रत्याश्राविते । इन्द्रं वैमृधं यज । वषट्कृते जुहोति।

यजमानः - इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो वीर्यवान् भूयासम्

अध्वर्युः - अमावास्यायामाग्नेयेन प्रचर्य । असन्नयतः । आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । इन्द्राग्निभ्यामनुब्रू३हि । आश्राव्य प्रत्याश्राविते । इन्द्राग्नी यज । वषट्कृते जुहोति

यजमानः - इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् ।

अध्वर्युः - अमावास्यायामाग्नेयेन प्रचर्य । सन्नयतः१ = आ प्यायतां, मा भेः, आ प्यायतां, यदवदानानि ते । दधिपयसोः स्रुवेण द्विर्द्विरवदाय प्रत्यभिघार्य । महेन्द्रायानुब्रू३हि । आश्राव्य प्रत्याश्राविते । महेन्द्रं यज । वषट्कृते जुहोति ।

यजमानः - महेन्द्रायेदम् । महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयम् ।

पार्वणहोमो नारिष्ठहोमश्च

अध्वर्युः - प्रत्याक्रम्य स्रुवेण पार्वणहोमौ जुहोति । आज्यस्थाल्याज्येन । ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहा इति पौर्णमास्याम् ।

यजमानः - पूर्णमासायेदम् ।

अध्वर्युः - अमावास्या सुभगा सुशेवा धेनुरिव भूय आ प्यायमाना । सा नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणम् । अपानाय सुराधसेऽमावास्यायै स्वाहा इत्यमावास्यायाम् ।

यजमानः - अमावास्याया इदम् ।

अध्वर्युः - आज्यस्थाल्या आज्यं जुह्वां षट्सप्त वा गृहीत्वा । दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत्स्वाहा।

यजमानः - नारिष्ठाभ्यामग्निवायुभ्यामिदम् ।

अध्वर्युः - यं वां देवा अकल्पयन्नूर्जो भागꣳ शतक्रतू । एतद्वां तेन प्रीणानि तेन तृप्यतमꣳहहौ स्वाहा ।

यजमानः - नारिष्ठाभ्यामग्निवायुभ्यामिदम् ।

अध्वर्युः - अहं देवानाꣳ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान् यदाभ्यामिन्द्रो अदधाद्भागधेयꣳ स्वाहा ।

यजमानः - नारिष्ठाभ्यामग्निवायुभ्यां इदम् ।

अध्वर्युः - अदारसृद्भवत देव सोमास्मिन् यज्ञे मरुतो मृडता नः । मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजना द्वेष्याया स्वाहा ।

यजमानः - नारिष्ठेभ्यो देवसोममरुद्भ्य इदम् ।

अध्वर्युः - ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्त्स्वाहाकृताहुतिरेतु देवान्त्स्वाहा ।

यजमानः - नारिष्ठाय ब्रह्मण इदम् ।

अध्वर्युः - सं ते मनसा मनस्सं प्राणेन प्राणो जुष्टं देवेभ्यो हव्यं घृतवत्स्वाहा ।

यजमानः - नारिष्ठेभ्यो देवेभ्य इदम् ।

अध्वर्युः - सं प्राणे प्राणं दधामि ते सं व्याने समपानं दधामि ते । परिगृह्य यजमानोऽ-मृतोऽभूच्छं न एधि द्विपदे शं चतुष्पदे स्वाहा ।१ एष उपहोमानां कालोऽनन्तरं वा प्रधानात्प्राग्वा समिष्टयजुषः ।

यजमानः - नारिष्ठाय परमात्मन इदम् ।

स्विष्टकृद्धोमः

अध्वर्युः - जुह्वामुपस्तीर्य, सर्वेषां हविषामुत्तरार्धात्सकृत्सकृत्स्विष्टकृतेऽवद्यति । द्विः पञ्चावत्तिनः । दैवतसौविष्टकृतैडचातुर्धाकारणिकानामुत्तरमुत्तरं ज्यायांसम् । आ प्यायताम् । उपस्तीर्य । अवदाय । द्विरभिघार्य । न हविः प्रत्यभिघारयति । आज्यभागप्रभृति स्विष्टकृदन्तानां नारिष्ठवर्जितानां आज्यावदानानन्तरं प्रस्तरबर्हिषोः समञ्जनं करोति । अग्नये स्विष्टकृतेऽनुब्रू३हि । आश्राव्य प्रत्याश्राविते । अग्निꣳ स्विष्टकृतं यज । वषट्कृते उत्तरार्धपूर्वार्धे जुहोत्यसंसक्तामितराभिराहुतिभिः ।

यजमानः - अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ।

अध्वर्युः - प्रत्याक्रम्य । जुह्वामप आनीय । वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । स नः पितरं पितामहं प्रपितामहꣳ स्वर्गे लोके पिन्वमानो बिभर्तु स्वाहा । अन्तःपरिधि निनयति निनयति ।

यजमानः - अग्नये वैश्वानरायेदम् ।

अध्वर्युः - आयतने स्रुचौ सादयित्वा ॥

॥ इति द्वितीयोऽध्यायः ॥



तृतीयोऽध्यायः

॥ अथ तृतीयोऽध्यायः ॥

इडाप्राशित्रयोः अवदानम्

अध्वर्युः - इडामेके पूर्वं समामनन्ति प्राशित्रमेके । प्राशित्रपात्र उपस्तीर्य । आग्नेयं पुरोडाशं प्राञ्चं तिर्यञ्चं वा विरुज्य । अप उपस्पृश्य । अज्यायो यवमात्रादाव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धꣳ स्विष्टमिदꣳ हविः । सर्वेभ्यः पुरोडाशेभ्यः मध्यादङ्गुष्ठोपकनिष्ठिकाभ्यां यवमात्रं पिप्पलमात्रं वा अवद्यति । अविरुज्योत्तरस्मात् । प्रतिपुरोडाशं मन्त्रावृत्तिः । न सान्नाय्ययोः प्राशित्रावदानम् ।

यजमानः - अग्निर्मा दुरिष्टात्पातु सविताघशꣳसाद्यो मेन्ति दूरेऽरातीयति तमेतेन जेषम् प्राशित्रमवदीयमानम् ।

अध्वर्युः - अभिघार्यानभिघार्य वा ब्रह्मणे प्राशित्रं परिहरति १।

ब्रह्मणा प्राशित्रभक्षणम्

ब्रह्मा - मित्रस्य त्वा चक्षुषा प्रेक्षे प्राशित्रमवदीयमानं प्रेक्षते । ऋतस्य पथा पर्येहि अग्रेणाहवनीयं परिह्रियमाणम् । सूर्यस्य त्वा चक्षुषा प्रतिपश्यामि आत्मनः समीपमाह्रियमाणम् । देवस्य त्वा — हस्ताभ्यां प्रतिगृह्णामि अञ्जलिना प्रतिगृह्य । पृथिव्यास्त्वा नाभौ सादयामीडायाः पदे अन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वा । अदब्धेन त्वा चक्षुषावेक्षे अवेक्ष्य । देवस्य त्वा — हस्ताभ्यामाददे अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या प्राशित्रस्थं हविरादाय । अग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामि असम्लेत्य अपिगिरति । हस्तौ प्रक्षाल्य । पुनर्जलेनापूर्य । या अप्स्वन्तर्देवतास्ता इदꣳ शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छ स्वाहा अद्भिरभ्यवनीय आचम्य । घसीना मे मा सम्पृक्था ऊर्ध्वं मे नाभेस्सीदेन्द्रस्य त्वा जठरे सादयामि नाभिदेशमभिमृशति । वाङ्म आसन् । नसोः प्राणः । अक्ष्योश्चक्षुः । कर्णयोश्श्रोत्रम् । बाहुवोर्बलम् । ऊरुवोरोजः यथालिङ्गमङ्गानि संमृश्य । अरिष्टा विश्वान्यङ्गानि तनूस्तनुवा मे सह नमस्ते अस्तु मा मा हिꣳसीः अवशिष्टान्यङ्गानि । प्रक्षाल्य प्राशित्रहरणम् । अद्भिः पूरयित्वा । दिशो जिन्व पराचीं निनयति । पुनर्जलेनापूर्य । मां जिन्व अभ्यात्मं निनयति।

अध्वर्युः - इडापात्र उपस्तीर्य । सर्वेभ्यो हविर्भ्य इडां समवद्यति । मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षिणार्धादसम्भिन्दन्नवद्याम्येकतोमुखाम् आग्नेयस्य पुरोडाशस्य दक्षिणार्धात् प्रथममवदानमवद्यति । दक्षिणार्धादेव सम्भेदाद्द्वितीयमवद्यति । सम्भेदात् तृतीयं पञ्चावत्तिनः । पूर्वाधाच्च यजमानभागमणुमिव दीर्घम् । तमाज्येन सन्तर्प्य ध्रुवाया उपोहति । सान्नाय्ययोरपि सन्तर्पणम् । एवमुत्तरस्यावद्यति ।

यजमानः - सुरूपवर्षवर्ण एहीमान्भद्रान्दुर्याꣳ अभ्येहि मामनुव्रता न्यु शीर्षाणि मृढ्वमिड एह्यदित एहि सरस्वत्येहि रन्तिरसि रमतिरसि सूनर्यसि जुष्टे जुष्टिं तेऽशीयोपहूत उपहवं तेऽशीय इडामवदीयमानाम् ।

इडोपाह्वानम्

अध्वर्युः - अभिघार्य इडां होत्रे प्रदाय अपि वा प्राचीमिडामपोह्य दक्षिणेन होतारमतिक्रम्य स्वयं दक्षिणत आसीनः स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति । इडां होत्रे प्रदाय । होता इडापात्रं सव्येन धारयति । दक्षिणहस्तं संलग्नं धारयति । पुरस्तात् प्रत्यङ्ङासीनः होतुर्हस्ते इडाघृतेनानक्ति । तत्र अवान्तरेडामवद्यति । स्वयं होतोत्तरभागमादत्ते । लेपादुपस्तरणाभिघारणे भवतः । द्विरभिघारयेत् पञ्चावत्तिनः । उपहूयमाना-मन्वारभेते अध्वर्युर्यजमानश्च ।

यजमानः - उत्तरातिक्रम्य । भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहि इडामन्वारभ्य उपांशूपहवे सप्त देवगवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिस्सूनुस्सूनरी उच्चैरुपहवे सप्त मनुष्यगवीः । देवीर्देवैरभि मा निवर्तध्वꣳ स्योना १स्योनेन घृतेन मा समुक्षत । नम इदमुपदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादुदचन्निव । स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् । वायविडा ते माता होतारमीक्षमाणो वायुं मनसा ध्यायेत् वायो । उपहूतः पशुमानसानि । सा मे सत्याशीरस्य यज्ञस्य भूयादरेडता मनसा तच्छकेयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वस्मास्विन्द्र इन्द्रियं दधात्वस्मान्राय उत यज्ञास्सचन्तामस्मासु सन्त्वाशिषस्सा नः प्रिया सुप्रतूर्तिर्मघोनी जुष्टिरसि जुषस्व नो जुष्टानोऽसि जुष्टिं ते गमेयम् । आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणꣳ सवर्चसम् । सञ्जयन् क्षेत्राणि सहसाहमिन्द्र कृण्वानो अन्याꣳ अधरान्त्सपत्नान् । इडाया अहं देवयज्यया पशुमान्भूयासम् । इडा धेनुस्सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माꣳ आगात् भक्षायाह्रियमाणामनुमन्त्रयते ।

इडाप्राशनम्

अध्वर्युः - दैव्या अध्वर्यव इति होतुरभिज्ञाय । उपहूतः पशुमानसानि इति जपति । हविस्समं पञ्चधा कृत्वा । इडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणस्याम सर्वात्मानस्सर्वगणाः । यजमानपञ्चमा इडां प्राश्नन्ति । वाग्यता आसत आ मार्जनात् । आचम्य । मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्ताम् अन्तर्वेदि प्रस्तरेऽद्भिर्मार्जयन्ते । प्रस्तरादपादाय शिरस्यप आनयते तन्मार्जनम्

पुरोडाशानां चतुर्धाकरणं प्राशनं च

आग्नेयं पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोति । बर्हिषदं वा कृत्वा चतुर्धाकरोति ॥

यजमानः - ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां मे बर्हिषि पुरोडाशमासन्नमभिमृशति । अथैनं प्रतिदिशं व्यूहति । आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रध्न पाहि भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविस्सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तो ब्राह्मणो नेहाब्राह्मणस्यास्ति । अथैनमन्वादिशति । इदं ब्रह्मणः । इदꣳ होतुः । इदमध्वर्योः । इदमग्नीधः ।

अध्वर्युः - इदं यजमानस्य । वेदेन यजमानभागं निर्दिशति ।

यजमानः - उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इदमग्नीधः ।

अध्वर्युः - आग्नीध्रभागस्य वैशेषिकं स्थविष्ठमग्नीधे षडवत्तं संपादयति । द्विरुपस्तृणाति द्विरादधाति द्विरभिघारयति ।

आग्नीध्रः - अग्नेराग्नीध्रमसि अग्नेः शामित्रमसि नमस्ते अस्तु मा मा हिꣳसीः भक्षयित्वा आचामेत् ।

अध्वर्युः - वेदेन ब्रह्मयजमानभागौ परिहरति । तौ प्रतिगृह्य नासंस्थिते भक्षयतः । पृथक्पात्राभ्यामितरयोः । स्रुवेण होतुः । जुह्वाध्वर्योः ।

होता - पृथिव्यै भागोऽसि भक्षयति ।

अध्वर्युः - अन्तरिक्षस्य भागोऽसि भक्षयति ।

अन्वाहार्यासादनं, अभिमर्शनं, प्रतिग्रहणं च

ततोऽध्वर्युर्दक्षिणाग्नौ अन्वाहार्यं महान्तमपरिमितमोदनं पचति । क्षीरे भवतीत्येके । अभिघार्य । उदगुद्वास्य । अन्तर्वेद्यासाद्य ।

ब्रह्मा - ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वा हुताद्य मा मा हिꣳसीरहुतो मह्यꣳ शिवो भव अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ।

यजमानः - ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसत्प्रजापतेर्भागोऽस्यूर्जस्वा-न्पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिल्लोके । इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युम् अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति

अध्वर्युः - दक्षिणसद्भ्य उपहर्तवै३ इति सम्प्रेष्यति ।

यजमानः - दक्षिणत एत, ब्राह्मणा अयं व ओदनो यथाभागं प्रतिगृह्णीध्वम् ।

ऋत्विजः - दक्षिणत एत्य दक्षिणां प्रतिग्रहीष्यन्थ्सप्तदशकृत्वोऽपान्यात् । व्यावृत्य प्रतिगृह्णीयात् । अध्वर्युराग्नीध्रो दक्षिणेनाहवनीयमुपविश्य । देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यां प्रतिगृह्णामि । राजा त्वा वरुणो नयतु देवि दक्षिणे ब्रह्मण ओदनम् । तेनामृतत्वमश्याम् । वयो दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । क इदं कस्मा अदात् । कामः कामाय । कामो दाता । कामः प्रतिग्रहीता । कामꣳ समुद्रमा विश । कामेन त्वा प्रतिगृह्णामि । कामैतत्ते । एषा ते काम दक्षिणा । उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु प्रतिगृह्णन्ति ।

यजमानः - उत्तरतः परीता३ इति सम्प्रेष्यति ।

अनूयाजहोमः

अध्वर्युः - हविश्शेषानुद्वास्य । ब्रह्मन्प्रस्थास्यामस्समिधमाधायाग्नीत् परिधीꣳश्चाग्निं च सकृत्सकृत्संमृड्ढि इति सम्प्रेष्यति ।

ब्रह्मा - देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि । ओं ३ प्रतिष्ठ ।

आग्नीध्रः - एषा ते अग्ने समित्तया वर्धस्व चाचप्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा अनूयाजसमिधमादधाति ।

यजमानः - एतेनैव आधीयमानमनुमन्त्रयते । अग्नय इदम् । यन्ते अग्न आ वृश्चाम्यहं वा क्षिपितश्चरन्न् । प्रजां च तस्य मूलं च नीचैर्देवा नि वृश्चत । अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने सं दह याꣳश्चाहं द्वेष्मि ये च माम् आहितायामनुमन्त्रयते ।

आग्नीध्रः - पूर्ववत्परिधीनग्निं च सकृत्सकृत्संमृज्य । अग्ने वाजजिद्वाजं त्वा ससृवाꣳसं वाजं जिगिवाꣳसं वाजिनं वाजजितं वाजजित्यायै सं मार्ज्म्यग्निमन्नादमन्नाद्याय सकृदग्निं प्राञ्चं संमार्ष्टि ।

अध्वर्युः - इध्मसन्नहनान्यद्भिः संस्पृश्याग्नौ प्रहरति । यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिꣳसीरेतदस्तु हुतं तव स्वाहा ।

यजमानः - भूतानामधिपतये रुद्राय तन्तिचराय वृष्ण इदम् । उभावप उपस्पृशतः । वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः । सं मे सन्नतयो नमन्तामिध्मसन्नहने हुते संमार्गान् हुतान् यजमानोऽनुमन्त्रयते । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता इति सप्तहोतारं वदेत्पुरस्तादनूयाजानाम् ।

अध्वर्युः - औपभृतं जुह्वामानीय जुहूपभृतावादाय दक्षिणा सकृदतिक्रान्तोऽग्रेण आघारसंभेदं प्रतीचस्त्रीननूयाजान् यजति । आश्राव्य प्रत्याश्राविते देवान् यज पूर्वार्धे समिधि जुहोति ।

यजमानः - अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् ।

अध्वर्युः - आश्राव्य प्रत्याश्राविते यज वषट्कृते मध्ये जुहोति ।

यजमानः - अग्नय इदम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् ।

अध्वर्यु: - आश्राव्य प्रत्याश्राविते यज वषट्कृते पश्चार्धे हुत्वा प्राञ्चमुत्तमं संस्थापयन्नितरावनु संभिन्नत्ति ।

यजमानः - अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ।

वाजवतीभ्यां व्यूहनं, परिध्यंजनं च

अध्वर्युः - प्रत्याक्रम्य आयतने स्रुचौ सादयित्वा । वाजवतीभ्यां व्यूहत्युभौ वाजवत्यौ जपतः । वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीत् इति दक्षिणेन हस्तेन उत्तानेन सप्रस्तरां जुहूमुद्यच्छति । अथा सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः सव्येनोपभृतं नियच्छति । उद्ग्राभं च दक्षिणेन जुहूमुद्यच्छति । निग्राभं च दक्षिणेन उपभृतं नियच्छति । ब्रह्म देवा अवीवृधन् प्राचीं जुहूं प्रोहति । अथा सपत्नानिन्द्राग्नी मे विषूचीनान् व्यस्यताम् सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरस्य । अप उपस्पृश्य । प्रोक्ष्यैनामभ्युदाहृत्य । जुह्वा परिधीननक्ति । वसुभ्यस्त्वा मध्यमम् ।

यजमानः - वसून्देवान् यज्ञेनापिप्रेम् अज्यमानमनुमन्त्रयते । वसुभ्य इदम् ।

अध्वर्युः - रुद्रेभ्यस्त्वा दक्षिणम् ।

यजमानः - रुद्रान्देवान् यज्ञेनापिप्रेम् । रुद्रेभ्य इदम् ।

अध्वर्युः - आदित्येभ्यस्त्वा उत्तरम् ।

यजमानः - आदित्यान्देवान् यज्ञेनापिप्रेम् । आदित्येभ्य इदम् ।

अध्वर्युः - न प्रस्तरे जुहूं सादयति । सञ्जानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावताम् विधृतीभ्यां प्रस्तरमपादाय बर्हिषि विधृती अपिसृज्य । दक्षिणोत्तराभ्यां पाणिभ्यां प्रस्तरं गृहीत्वा । स्रुक्षु प्रस्तरमनक्ति । अक्तꣳ रिहाणा वियन्तु वयः जुह्वामग्रम् । प्रजां योनिं मा निर्मृक्षम् उपभृति मध्यम् । आ प्यायन्तामाप ओषधयः ध्रुवायां मूलम् । मूलाञ्जने दक्षिणं पाणिमधः कुर्यात् । एवं त्रिरङ्क्त्वा

यजमानः - समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिस्सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा प्रस्तरमज्यमानम् ।

प्रस्तरप्रहरणम्

अध्वर्युः - आयुषे त्वा अक्तस्य तृणमपादाय प्रज्ञातं निधाय । दक्षिणोत्तराभ्यां पाणिभ्यां सह शाखया प्रस्तरं गृहीत्वा जुह्वां प्रतिष्ठाप्य, आसीनः । आश्राव्य प्रत्याश्राविते । इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषस्सूक्तवाकाय सूक्ता ब्रू३हि । अनूच्यमाने सूक्तवाके अग्निरिदꣳ हविरजुषतेति होतुरभिज्ञाय । मरुतां पृषतयः स्थ दिवं गच्छ ततो नो वृष्टिमेरय सह शाखया प्रस्तरमाहवनीये प्रहरति ।

यजमानः - सूक्तवाकदेवता अनुमन्त्रयते । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । सोमायेदम् । सोमस्याहमुज्जितिमनूज्जेषम् । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । प्रजापतय इदम् । प्रजापतेरहमुज्जितिमनूज्जेषम् । विष्णव इदम् । विष्णोरहमुज्जितिमनूज्जेषम् १। अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहमुज्जितिमनूज्जेषम् । इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहमुज्जितिमनूज्जेषम् । इति पौर्णमास्याम् ।

दर्शे तु = असन्नयतः, इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहमुज्जितिमनूज्जेषम् । सन्नयतः२ इन्द्रायेदम् । इन्द्रस्याहमुज्जितिमनूज्जेषम् । महेन्द्रायेदम् । महेन्द्रस्याहमुज्जितिमनूज्जेषम् । देवेभ्य आज्यपेभ्य इदम् । अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहमुज्जितिमनूज्जेषम् । स्व नाम ग्रहण काले एमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषम् । सूक्तवाकस्य आशिष्षु सा मे सत्याशीर्देवान्गम्याज्जुष्टाज्जुष्टतरा पण्यात्पण्यतरारेडता मनसा देवान्गम्याद्यज्ञो देवान्गच्छतु यज्ञो म आगच्छतु इति यत्कामयते तस्य नाम गृह्णाति ।

अध्वर्युः - न्यञ्चं हस्तं पर्यावर्तयन् अग्नीद्गमय इति सम्प्रेष्यति ।

आग्नीध्रः - त्रिरञ्जलिनाऽविष्वञ्चं प्रस्तरं ऊर्ध्वमुद्यौति । रोहितेन त्वाग्निर्देवतां गमयतु । हरिभ्यां त्वेन्द्रो देवतां गमयतु । एतशेन त्वा सूर्यो देवतां गमयतु ।

यजमानः - प्रस्तरं प्रह्रियमाणमेतैरेवानुमन्त्रयते ।

अनुप्रहर अथैनमाग्नीध्रोऽध्वर्युमाह ।

यत्प्रस्तरात्तृणमपात्तं तदध्वर्युः प्रहरति । स्वगा तनुभ्यः ।

यजमानः - तनुभ्य इदम् । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन द्विषन्तꣳ शोचयामसि । द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचम् । प्रस्तरतृणे प्रह्रियमाणे ।

अध्वर्युः - एतदेतत् । इति त्रिरङ्गुल्या निर्दिश्य २। आयुष्पा अग्नेस्यायुर्मे पाहि चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहि अग्निमभिमन्त्र्य । ध्रुवासि अन्तर्वेदि पृथिवीमभिमृशति ।

परिधिप्रहरणम्

अथैनमाग्नीध्रोऽध्वर्युमाह संवदस्व ।

अगानग्नीत् इत्यध्वर्युः ।

अगन् इत्याग्नीध्रः ।

श्रावय इत्यध्वर्युः ।

श्रौषट् इत्याग्नीध्रः ।

मध्यमं परिधिमन्वारभ्य सम्प्रेष्यति । स्वगा दैव्या होतृभ्यस्स्वस्तिर्मानुषेभ्यः शंयोर्ब्रू३हि । अनूच्यमाने शंयुवाके, परिधीनाहवनीये प्रहरति । यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयमाणः । तं त एतमनु जोषं भरामि नेदेष त्वदप चेतयातै मध्यमम् । यज्ञस्य पाथ उपसमितम् इतरौ प्रहरन् उत्तरार्ध्यस्याग्रमङ्गारेषूपगूहति ।

यजमानः - वि ते मुञ्चामि रशना वि रश्मीन् वि योक्त्रा यानि परिचर्तनानि धत्तादस्मासु द्रविणं यच्छ भद्रं प्र णो ब्रूताद्भागधां देवतासु परिधिषु विमुच्यमानेषु । अग्नय इदम् । विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् । यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवेन मे सन्तिष्ठस्व स्योनेन मे सन्तिष्ठस्व सुभूतेन मे सन्तिष्ठस्व ब्रह्मवर्चसेन मे सन्तिष्ठस्व यज्ञस्यर्धिमनु सन्तिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नमः इत्यभिमंत्रयते ।

संस्रावहोमः

अध्वर्युः - यजमानं प्रथत इति परिधीनभिमन्त्र्य । जुह्वामुपभृतोऽग्रमन्ववधाय । सꣳस्रावभागा-स्स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवा इमां वाचमभि विश्वे गृणन्त आसद्यास्मिन्बर्हिषि मादयध्वꣳ स्वाहा परिधीनभि जुहोति ।

यजमानः - वसुभ्यो रुद्रेभ्य आदित्येभ्यस्सꣳस्रावभागेभ्य इदम् । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वानथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहा गमेः संस्रावं हुतम् । अत्रैवर्त्विजो हविश्शेषान्भक्षयन्ति ।

पत्नीसंयाजा

आज्यलेपान् उष्णेन वारिणा प्रक्षाल्य सस्रुवे जुहूपभृतावध्वर्युरादत्ते । वेदं होता । स्फ्यमाज्यस्थालीमुदकमण्डलुं चादाय आग्नीध्रः । आग्नीध्रप्रथमाः पत्नीस्संयाजयिष्यन्तः प्रत्यञ्चो यन्ति । अग्रेण गार्हपत्यं दक्षिणेनाध्वर्युः प्रतिपद्यते । उत्तरेणेतरौ । अग्नेर्वामपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनी सुम्ने मा धत्तं धुरि धुर्यौ पातम् स्फ्ये स्रुचौ सादयेत् । अपरेण गार्हपत्यमूर्ध्वज्ञव आसीनाः ध्वानेन उपांशु वा पत्नीस्संयाजयन्ति । दक्षिणोध्वर्युरुत्तर आग्नीध्रो मध्ये होता । वेदमुपभृतं कृत्वा । जुह्वां चतुर्गृहीत्वा । सोमायानुब्रू३हि । आश्राव्य प्रत्याश्राविते । सोमं यज । वषट्कृते उत्तरार्धे जुहोति । एवमितरान् ।

यजमानः - सोमायेदम् । सोमस्याहं देवयज्यया सुरेता रेतो धिषीय ।

अध्वर्युः - त्वष्ट्रेऽनुब्रू३हि । आश्राव्य प्रत्याश्राविते त्वष्टारं यज । वषट्कृते जुहोति ।

यजमानः - त्वष्ट्र इदम् । त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयम् ।

अध्वर्युः - राकाया अनुब्रू३हि । आश्राव्य प्रत्याश्राविते राकां यज । वषट्कृते जुहोति ।

यजमानः - राकाया इदम् । राकाया अहं देवयज्यया प्रजावान्भूयासम् ।

पत्नी - राकाया अहं देवयज्यया प्रजावती भूयासम् ।

अध्वर्युः - सिनीवाल्या अनुब्रू३हि । आश्राव्य प्रत्याश्राविते सिनीवालीं यज वषट्कृते जुहोति

यजमानः -सिनीवाल्या इदम् । सिनीवाल्या अहं देवयज्यया पशुमान्भूयासम् ।

पत्नी - सिनीवाल्या अहं देवयज्यया पशुमती भूयासम् ।

अध्वर्युः - कुह्वा अनुब्रू३हि । आश्राव्य प्रत्याश्राविते कुहूं यज । वषट्कृते जुहोति ।

यजमानः - कुह्वा इदम् । कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासम्

पत्नी - कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासम् ।

अध्वर्युः - परिश्रिते । देवानां पत्नीभ्योऽनुब्रू३हि । आश्राव्य प्रत्याश्राविते । देवानां पत्नीर्यज । वषट्कृते जुहोति ।

यजमानः - देवानां पत्नीभ्य इदम् ।

अध्वर्युः - अग्नये गृहपतयेऽनुब्रू३हि । आश्राव्य प्रत्याश्राविते अग्निं गृहपतिं यज । वषट्कृते जुहोति ।

यजमानः - अग्नये गृहपतय इदम् । देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्रभूयासम् ।

आज्येडा

अध्वर्युः - पूर्ववद्धोतुरङ्गुलिपर्वणी अनक्ति । उपस्पृष्टोदकाय होतुर्हस्ते चतुर आज्यबिन्दूनिडामवद्यति । षडग्नीधः । उपहूयमानामन्वारभन्तेऽध्वर्युराग्नीध्रः पत्नी च १। उपहूतां प्राश्नीतः होताग्नीध्रश्च ।

यजमानः - इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी आज्येडामनुमन्त्रयते ।

सम्पत्नीयहोमः

अध्वर्युः - अत्र स्रुवेण सम्पत्नीयं जुहोति पत्न्यामन्वारब्धायाम् । सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । सञ्जानानौ विजहतामरातीर्दिवि ज्योतिरजरमारभेताꣳ स्वाहा गार्हपत्ये जुहोति ।

यजमानः - दिविज्योतिषे अजराय परमात्मन इदम् ।

अध्वर्युः - अन्तर्वेदि वेदं निधाय ।

यजमानः - वेदोऽसि वित्तिरसि पाप्मनो व्यावृत्तिं विदेय कर्मासि करुणमसि क्रियासꣳ सनिरसि सनितासि सनेयं घृतवन्तं कुलायिनꣳरायस्पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् अन्तर्वेदि वेदमभिमृशति ।

पिष्टलेपफलीकरणहोमः

अध्वर्युः - तूष्णीं दक्षिणाग्नौ इध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति । चतुर्गृहीताज्ये फलीकरणानोप्य । अग्नेऽदब्धायोऽशीततनो पाहि माद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादविषं नः पितुं कृणु सुषदा योनिꣳ स्वाहा ।

यजमानः - अग्नये अदब्धायवे अशीततनव इदम् । या सरस्वती विशो भगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्म फलीकरणे हुते यजमानो मुखं विमृष्टे ।

अध्वर्युः - चतुर्गृहीताज्ये पिष्टलेपानोप्य । उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषस्संयाजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ तास्सर्वास्स्विष्टास्सुहुता जुहोमि स्वाहा ।

यजमानः - विश्वेभ्यो देवेभ्य इदम् ।

अध्वर्युः - जुह्वां त्रिराज्यं गृहीत्वा । दक्षिणाग्नौ प्रतिमन्त्रं जुहोति । या सरस्वती विशोभगीना तस्यै स्वाहा ।

यजमानः - सरस्वत्यै विशोभगीनाया इदम् ।

अध्वर्युः - या सरस्वती वेशभगीना तस्यै स्वाहा ।

यजमानः - सरस्वत्यै वेशभगीनाया इदम् ।

अध्वर्युः - इन्द्रो पानस्य केह मनसो वेशान्कुरु सुमनसस्सजातान्थ्स्वाहा ।

यजमानः - इन्द्राय सुमनस इदम् ।

पत्नी - इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि योक्त्रं विमुञ्चति ।

अध्वर्युः - पत्न्यास्सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयति ।

पत्नी - समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गच्छे समात्मा तनुवा मम अग्निहोत्रहवण्योदके आनीयमाने पत्नी जपति । निनीय मुखं विमृज्य उत्तिष्ठति । पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् ।

प्रायश्चित्तहोमः

अध्वर्युः - यथेतमाहवनीयं गत्वा जुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोति १ । ब्रह्मप्रतिष्ठाश्रावितं यद्वो देवास्ततम्म उद्वयं तमसस्पर्युदु त्यं चित्रमिमं मे वरुण तत्त्वा यामि त्वन्नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापत इष्टेभ्य इत्यष्टावयाश्च यदस्मिन्यज्ञमाज्ञातं यदकर्म यदस्यकर्मण यत इन्द्र स्वस्तिदा आभिर्गीर्भिरनाज्ञातं पुरुषसम्मितो यत्पाकत्रा यद्विद्वाꣳसोऽयाडग्निर्ये ते शतं यो भूतानामुद्बुध्यस्वोदुत्तमं व्याहृतीभिर्विहॄताभिः समस्ताभिश्च जुहुयात् ।

यजमानः - अस्यामिष्टौ सर्वप्रायश्चित्तानि करिष्ये ।

अध्वर्युः - ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्थ्स्वाहाकृताहुतिरेतु देवान्त्स्वाहा ।

यजमानः - ब्रह्मण इदम् ।

अध्वर्युः - आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्थ्स्वाहाकृताहुतिरेतु देवान्स्वाहा ।

यजमानः - यज्ञायेदम् ।

अध्वर्युः - यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माꣳ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन स्वाहा ।

यजमानः - मरुद्भ्य इदम् ।

अध्वर्युः - ततं म आपस्तदु तायते पुनः स्वाधिष्ठा धीति रुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजस्स्वाहाकृतस्य समुतृप्णुतर्भुवस्स्वाहा ।

यजमानः - ऋभुभ्य इदम् ।

अध्वर्युः - उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमꣳ स्वाहा ।

यजमानः - सूर्यायेदम् ।

अध्वर्युः - उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यꣳ स्वाहा ॥

यजमानः - सूर्यायेदम् ।

अध्वर्युः - चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा ॥

यजमानः - सूर्यायेदम् ।

अध्वर्युः - इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युरा चके स्वाहा ।

यजमानः - वरुणायेदम् ।

अध्वर्युः - तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरु शꣳस मा न आयुः प्रमोषीस्स्वाहा ।

यजमानः - वरुणायेदम् ।

अध्वर्युः - त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्यस्मत्स्वाहा ।

यजमानः - अग्नीवरुणाभ्यामिदम् ।

अध्वर्युः - स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि स्वाहा ॥

यजमानः - अग्नीवरुणाभ्यामिदम् ।

अध्वर्युः - त्वमग्ने अयास्ययासन्मनसा हितः । अया सन् हव्यमूहिषेऽया नो धेहि भेषजꣳस्वाहा ।

यजमानः - अग्नये अयस इदम् ।

अध्वर्युः - प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयꣳ स्याम पतयो रयीणाꣳ स्वाहा ।

यजमानः - प्रजापतय इदम् ।

अध्वर्युः - इष्टेभ्यस्स्वाहा ।

यजमानः - इष्टेभ्य इदम् ।

अध्वर्युः - वषडनिष्टेभ्यः स्वाहा ।

यजमानः - अनिष्टेभ्य इदम् ।

अध्वर्युः - भेषजं दुरिष्ट्यै स्वाहा ।

यजमानः - दुरिष्ट्या इदम् ।

अध्वर्युः - निष्कृत्यै स्वाहा ।

यजमानः - निष्कृत्या इदम् ।

अध्वर्युः - दौरार्ध्यै स्वाहा ।

यजमानः - दौरार्ध्या इदम् ।

अध्वर्युः - दैवीभ्यस्तनूभ्यस्स्वाहा ।

यजमानः -दैवीभ्यस्तनूभ्य इदम् ।

अध्वर्युः - ऋद्ध्यै स्वाहा ।

यजमानः - ऋद्ध्या इदम् ।

अध्वर्युः - समृद्ध्यै स्वाहा ।

यजमानः - समृद्ध्या इदम् ।

अध्वर्युः - अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजꣳ स्वाहा ।

यजमानः - अग्नये अयस इदम् ।

अध्वर्युः - यदस्मिन् यज्ञेऽन्तरगाममन्त्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन स्वाहा ।

यजमानः - देवेभ्य इदम् ।

अध्वर्युः - आज्ञातमनाज्ञातममतं च मतं च यत् । जातवेदस्सं धेहि त्वꣳ हि वेत्थ यथा तथꣳ स्वाहा ।

यजमानः - अग्नये जातवेदस इदम् ।

अध्वर्युः - यदकर्म यन्नाकर्म यदत्यरेचि यन्नात्यरेचि । अग्निष्टत्स्विष्टकृद्विद्वान्थ्सर्वꣳ स्विष्टꣳ सुहुतं करोतु स्वाहा ।

यजमानः - अग्नये स्विष्टकृत इदम् ।

अध्वर्युः - यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्थ्सर्वꣳ स्विष्टꣳ सुहुतं करोतु स्वाहा ।

यजमानः - अग्नये स्विष्टकृत इदम् ।

अध्वर्युः - यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतये विद्विषो वि मृधो जहि स्वाहा ।

यजमानः - इन्द्राय मघोन इदम् ।

अध्वर्युः - स्वस्तिदा विशस्पतिर्वृत्रहा वि मृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करस्स्वाहा ।

यजमानः - इन्द्राय अभयङ्करायेदम् ।

अध्वर्युः - आभिर्गीर्भिर्यदतो न ऊनमा प्यायय हरि वो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम स्वाहा ।

यजमानः - इन्द्राय हरिवते वर्धमानायेदम् ।

अध्वर्युः - अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथꣳ स्वाहा ।

यजमानः - अग्नय इदम् ।

अध्वर्युः - पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथꣳस्वाहा ।

यजमानः - अग्नय इदम् ।

अध्वर्युः - यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन्, यजिष्ठो देवाꣳ ऋतुशो यजाति स्वाहा ।

यजमानः - अग्नय इदम् ।

अध्वर्युः - यद्विद्वाꣳसो यदविद्वाꣳसो मुग्धाः कुर्वन्त्यृत्विजः । अग्निर्मा तस्मादेनसश्श्रद्धा देवी च मुंचताꣳ स्वाहा ।

यजमानः - अग्नये श्रद्धायै देव्या इदम् ।

अध्वर्युः - अयाडग्निर्जातवेदा अन्तरः पूर्वो अस्मिन्निषद्य । सन्वन्थ्सनिꣳ सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्छ भद्रꣳ स्वाहा ।

यजमानः - अग्नये जातवेदस इदम् ।

अध्वर्युः - ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितताः पुरुत्रा । तेभ्यो न इन्द्रस्सवितोत विष्णुर्विश्वे देवा मुञ्चन्तु मरुतस्स्वस्त्या स्वाहा ।

यजमानः - वरुणेन्द्रसवितृविष्णुविश्वेदेवमरुद्भ्य इदम् ।

अध्वर्युः - यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिꣳसीरेतदस्तु हुतं तव स्वाहा ।

यजमानः - भूतानामधिपतये रुद्राय तन्तिचराय वृष्ण इदम् । उभावप उपस्पृशतः ।

अध्वर्युः - उद्बुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सꣳसृजेथामयं च । पुनः कृण्वꣳस्त्वा पितरं युवानमन्वाताꣳसीत् त्वयि तन्तुमेतꣳ स्वाहा ।

यजमानः - अग्नये तन्तुमत इदम् ।

अध्वर्युः - उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमꣳ श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा ।

यजमानः - वरुणायेदम् ।

अध्वर्युः - भूस्स्वाहा ।

यजमानः - अग्नय इदम् ।

अध्वर्युः - भुवस्स्वाहा ।

यजमानः - वायव इदम् ।

अध्वर्युः - सुवस्स्वाहा ।

यजमानः - सूर्यायेदम् ।

अध्वर्युः - भूर्भुवस्सुवस्स्वाहा ।

यजमानः - प्रजापतय इदम् । ऋक्तो यज्ञभ्रेषप्रायश्चित्तं करिष्ये । आश्वलायनो यजमानश्चेत् होमकर्ता ब्रह्मा । आपस्तम्बानां तु अध्वर्युः ।

अध्वर्युः - भूस्स्वाहा इति गार्हपत्ये जुहोति ।

यजमानः - अग्नय इदम् । यजुष्टो यज्ञभ्रेषप्रायश्चित्तं करिष्ये ।

अध्वर्युः - भुवस्स्वाहा इति दक्षिणाग्नौ ।

यजमानः - वायव इदम् । सर्वतो यज्ञभ्रेषप्रायश्चित्तं करिष्ये ।

अध्वर्युः - भूर्भुवस्सुवस्स्वाहा इत्याहवनीये ।

यजमानः - प्रजापतय इदम् । अस्मिन् कर्मणि ऋत्विक्षु मयि च नाना प्रकारेण संभावित समस्तदोषनिर्हरणार्थं सर्वप्रायश्चित्ताहुतिं करिष्ये ।

अध्वर्युः - भूर्भुवस्सुवस्स्वाहा इत्याहवनीये ।

यजमानः - प्रजापतय इदम् ।

समिष्टयजुर्होमः

अध्वर्युः - आ प्यायतां ध्रुवा घृतेन — यज्ञे अस्मिन् पूर्ववत् ध्रुवामाप्याय्य बर्हिर्ध्रुवाया अधस्तात्कृत्वा । अन्तर्वेद्यूर्ध्वस्तिष्ठन् ध्रुवया समिष्टयजुर्जुहोति । देवा गातुविदो गातुं वित्वा गातुमित मनस्पत इमं नो देव देवेषु यज्ञꣳ स्वाहा वाचि स्वाहा वाते धास्स्वाहा मध्यमे स्वाहाकारे बर्हिरनु प्रहरति अन्ते घृतम् ।

यजमानः - देवेभ्यो गातुविद्भ्यो यज्ञाय परमात्मन इदम् । वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छतु यज्ञो म आगच्छतु यज्ञेश्वरप्रसादो म आगच्छातु यत्कामयते तस्य नाम गृह्णाति । समिष्टयजुर्हुतमनुमन्त्रयते । सं यज्ञपतिराशिषा यजमानः स्वभागं प्राश्नाति । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् सायंदोहं प्राश्नाति । इदꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा प्रातर्दोहम् ।

अध्वर्युः - यदि यजमानः प्रवसेत् प्रजापतेर्विभान्नाम लोकस्तस्मिꣳस्त्वा दधामि सह यजमानेन इति ध्रुवायां यजमानभागमवधाय समिष्टयजुषा सह जुहुयात् । अभिस्तृणीहि परिधेहि वेदिम् । जामिं मा हिꣳसीरमुया शयाना । होतृषदना हरितास्सुवर्णाः । निष्का इमे यजमानस्य ब्रध्ने होतृषदनैः वेदिमभिस्तीर्य । को वोऽयोक्षीत्स वो विमुञ्चतु अन्तर्वेदि प्रणीता आसाद्य मन्त्रेण विमुञ्चति । तत्र सन्ततामुदकधारां स्रावयति ।

प्रणीताविमोकः

यजमानः - सदसि सन्मे भूयास्सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठाः उदकमानीयमानमनुमन्त्रयते । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् । दक्षिणायां दिशि मासाः पितरो मार्जयन्ताम् । प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् । उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम् । ऊर्ध्वायां दिशि यज्ञस्संवत्सरो यज्ञपतिर्मार्जयन्ताम् इति यथालिङ्गं प्रतिदिशं व्युत्सिच्य । समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परा सेचि मत्पयः अन्तर्वेदि शेषं निनीय । यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति । या सरस्वती वैशम्भल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्म मुखं विमृष्टे । अवभृथस्स्यैव रूपं कृत्वोत्तिष्ठति । एष वै दर्शपूर्णमासयोरवभृथः ।

उपवेषोपगूहनम्

अध्वर्युः - यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु । उपवेषोपविड्ढिनः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान् कुरु पुरस्तात् प्रत्यञ्चमुत्करे उपवेषं स्थविमत उपगूहति ।

कपालविमोकः

अध्वर्युयजमानौ - यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम् उभौ कपालविमोचनीयं जपतः । संख्यायोद्वासयति यजमानस्य गोपीथाय । प्रतिकपालयोगं मन्त्रावृत्तिः ।

ब्रह्मा - दिवो भागोऽसि स्वभागं प्राश्य । आचम्य । आहवनीये समिधमाधाय । अयाडग्निर्जातवेदा अन्तरः पूर्वो अस्मिन्निषद्य । सन्वन्थ्सनिꣳ सुविमुचा विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्छ भद्रम् ॥ प्र णो यक्ष्यभिवस्यो अस्मान्त्सन्नस्सृज सुमत्या वाजवत्या इत्याहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति ।

यजमानस्य विष्णुक्रमणं, अग्न्यादित्योपस्थानं च

यजमानः - दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान् प्राचः क्रामति । उत्तरमुत्तरं ज्यायांसम् । अनतिहरन्थ्सव्यम् । नाहवनीयमतिक्रामति । विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतेन छन्दसा दिवमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अवस्थाय चतुर्थञ्जपति विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशोऽनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अन्त्ये विष्णुक्रमदेशे एव स्थित्वा विष्ण्वतिक्रमातिमोक्षाणां जपः । अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतिमोक्षाः । अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण सहजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्भ्रातृव्यान-धरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि ॥ ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाꣳस्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाꣳ श्रैष्ठ्य आ धेह्येनम् अतिमोक्षान्जपति । अगन्म सुवस्सुवरगन्मेत्यादित्यमुपतिष्ठते अगन्म सुवस्सुवरगन्म सन्दृशस्ते मा छित्सि यत्ते तपस्तस्मै ते माऽऽवृक्षि सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीदमहं पाप्मानं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तस्स यं द्विष्मः ॥ सं ज्योतिषा भूवम् ॥ उद्यन्नद्य मित्रमहस्सपत्नान्मे अनीनशः । दिवैनान् विद्युता जहि निम्रोचन्नधरान्कृधि ॥ उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य ॥ उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् ॥ यो नश्शपादशपतो यश्च नश्शपतश्शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापꣳ समूहताम् आदित्यमुपतिष्ठते । ऐन्द्रीमावृतमन्वावर्ते इति प्रदक्षिणमावर्तते । पुण्या भवन्तु या लक्ष्मीः परा भवन्तु या पापीः । समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोषः पुनरुपावर्तते । समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासं आहवनीयमुपसमिन्धे । वसुमान् यज्ञो वसीयन् भूयासम् । यो नस्सपत्नो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन आहवनीयमुपतिष्ठते । अपरेण गार्हपत्यमुपविश्य तूष्णीं गार्हपत्ये समिधमादधाति । तिष्ठन् जपति । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधत्पोषꣳ रयिं मयि आग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयासꣳ सुगृहपतिर्मया त्वं गृहपतिना भूयाश्शतꣳ हिमास्तामाशिषमाशासे तन्तवे ज्योतिष्मतीं तामाशिषमाशासे यज्ञेश्वर शर्मणे ज्योतिष्मतीम् । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि मा मानुषात् इति च । प्रतिपुत्रं मन्त्रावृत्तिः । तूष्णीं दक्षिणाग्नौ समिधमादधाति । अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योनः दक्षिणाग्निमुपतिष्ठते । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि मा मानुषात् अन्तर्वेद्युपविश्य । ज्योतिरसि तन्तवे उपविश्य जपति । प्रतिपुत्रं मन्त्रावृत्तिः । वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षाञ्जपति ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाꣳस्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाꣳ श्रैष्ठ्य आ धेह्येनम् ॥

व्रतोत्सर्जनम्

कस्त्वा युनक्ति स त्वा विमुञ्चतु यज्ञं विमुञ्चति । दक्षिणातिक्रम्य अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेराधि । वायो व्रतपते व्रतमचारिषं तदशकं तन्मेराधि । आदित्य व्रतपते व्रतमचारिषं तदशकं तन्मेराधि । व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मेराधि व्रतं विसृजते । यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणां यज्ञस्य पुनरालम्भं जपति । गोमाꣳ अग्नेऽविमाꣳ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इडावाꣳ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् प्राङुदेत्य गोमतीं जपति । यज्ञ शं च म उप च म आयुश्च मे बलं च मे । यज्ञ शिवो मे सन्तिष्ठस्व यज्ञ स्विष्टो मे सन्तिष्ठस्व यज्ञारिष्टो मे सन्तिष्ठस्व दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति ।

यज्ञसमापनम्

यजमानः पत्नी च :- वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् इत्यप उपस्पृशतः । ब्राह्मणाꣳस्तर्पयितवै३ इति सम्प्रेष्यति ॥

अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमउक्तिं विधेम । प्र वश्शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् । यो दैव्यानि मानुषा जनूꣳषि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्रविणं भिख्षमाणाः । सुसंदृशꣳ सुप्रतीकꣳ स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र । अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी । भवा तोकाय तनयाय शं योः । प्रकारवो मनना वच्यमानाः । देवद्रीचीन्नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची ॥ सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमः । दशकृत्वस्ते नमः । शतकृत्वस्ते नमः । आ सहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते नमः । नमस्ते अस्तु मा मा हिꣳसीः ।

नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।

नम आहवनीयाय महावेद्यै नमो नमः ॥

काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे ।

स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः ।

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।

कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥

अनृणा अस्मिन्ननृणाः परस्मिꣳस्तृतीये लोके अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान्पथो अनृणा आक्षीयेम ॥ अहं परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु मे पिताऽभूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमस्समानाम् ॥ प्रवसन्काले विहाराभिमुखो याजमानं जपति । प्राचो विष्णुक्रमान्क्रामति । प्राङुदेत्य गोमतीं जपति जपति ॥

प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु च ।

स्मरणादेव तद्विष्णोस्संपूर्णं स्यादिति ( स्मृतिः? )श्रुतिः ॥

प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।

यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥

स्वरेण वर्णेन च यद्विहीनं तथापि हीनं क्रिययापि यच्च ।

तथातिरिक्तं मम तत् क्षमस्व तदस्तु चाग्नेः परिपूर्णमेतत् ॥

मन्त्रमध्ये क्रियामध्ये विष्णोस्स्मरणपूर्वकम् ।

यत्किंचित् क्रियते कर्म तत्कर्म सफलं भवेत् ॥

॥ इति दर्शपूर्णमासेष्टिप्रयोगः ॥

