१४ सोमभक्षणम्

सदसि प्रत्यङ्मुखो भक्षयति । हविर्धानस्येशानकोणेऽध्वर्युः प्रदक्षिणमावृत्योत्तरेण हविर्धानस्य गत्वा दक्षिणेनाग्नीध्रीयं प्रत्यञ्चः प्रत्येत्य सदोद्वारि उपविश्य भक्षयति । एवं सर्वत्र गमनप्रकारोऽध्वर्योः । भक्षेहि मा विश दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोऽस्यश्विनोस्त्वा बाहुभ्याꣳ सघ्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् । मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जुषाणा सोमस्य तृप्यतु मन्द्रास्वर्वाच्यदितिरनाहतशीर्ष्णी वाग्जुषाणा सोमस्य तृप्यत्वेहि विश्वचर्षणे शंभूर्मयोभूस्स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस्पोषाय सुवीरतायै मा मा राजन्विबीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे । वसुमद्गणस्य सोम देव ते मतिविदः प्रातस्सवनस्य गायत्रछन्दस इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि भक्षयति । हिन्व मे गात्रा हरिवो गणान्मे मा वि तीतृषः । शिवो सप्तऋषीनुप तिष्ठस्व मा मेऽवाङ्नाभिमति गाः नाभिदेशमभिमृशति । भक्षेहीत्यादिना यं कञ्चन ऋत्विजमुपहूय भक्षयित्वा । मार्जालीये प्रक्षाल्य यथायतनं सादयति ।

उत्तरस्यां वर्तन्यां होतृचमसं तूष्णीं वसतीवरीभिरभिपूरयति । पूर्यमाणासु यजमानं वाचयति । निग्राभ्यास्स्थ देवश्रुत आयुर्मे तर्पयत प्राणं मे तर्पयतापानं मे तर्पयत व्यानं मे तर्पयत चक्षुर्मे तर्पयत श्रोत्रं मे तर्पयत मनो मे तर्पयत वाचं मे तर्पयतात्मानं मे तर्पयताङ्गानि मे तर्पयत प्रजां मे तर्पयत पशून्मे तर्पयत गृहान्मे तर्पयत गणान्मे तर्पयत सर्वगणं मा तर्पयत तर्पयत मा गणा मे मा वि तृषन् ।