१९ औद्ग्रहणहोमः

अध्वर्युः :- यद्दीक्षणीयाया ध्रौवमाज्यं ततो दीक्षाहुतीस्स्रुवेण चतस्रो जुहोति स्रुचा पञ्चमीम् । यत्राध्वर्युरौद्ग्रहणानि जुहोति तद्यजमानोऽध्वर्युमन्वारभ्य पञ्च जुहोति१ । आकूत्यै प्रयुजेऽग्नये स्वाहा अध्वर्युर्जुहोति । वाचा मे वाग्दीक्षताꣳ स्वाहा यजमानो जुहोति । आकूत्यै प्रयुजेऽग्नय इदम् । वाच इदम् । अध्वर्युः :- मेधायै मनसेऽग्नये स्वाहा । यजमानः - प्राणेन मे प्राणो दीक्षताꣳ स्वाहा । मेधायै मनसेऽग्नय इदम् । प्राणायेदम् । अध्वर्युः :- दीक्षायै तपसेऽग्नये स्वाहा । यजमानः - चक्षुषा मे चक्षुर्दीक्षताꣳ स्वाहा । दीक्षायै तपसेऽग्नय इदम् । चक्षुष इदम् । अध्वर्युः :- सरस्वत्यै पूष्णेऽग्नये स्वाहा । यजमानः - श्रोत्रेण मे श्रोत्रं दीक्षताꣳ स्वाहा । सरस्वत्यै पूष्णेऽग्नय इदम् । श्रोत्रायेदम् । गृहीत्वा स्रुक्स्रुवयोर्व्यत्यासः । सर्वत्र तूष्णीं ध्रौवाप्यायनम् । आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो हविषा वृधातु स्वाहा इत्यध्वर्युः । यजमानः - मनसा मे मनो दीक्षताꣳ स्वाहा । अद्भ्यो द्यावापृथिवीभ्यामंतरिक्षाय बृहस्पतय इदम् । मनस इदम् । ध्रौवाप्यायनं याजमानम् । अध्वर्युः :- अष्टकृत्व आप्याय्य चतुरनाप्याय्य तूष्णीं ध्रौवं समापयन् द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा पूर्णाहुतिं जुहोति । यजमानः - वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वꣳहसो ज्योग्जीवा जरामशीमहि पूर्णाहुतिं हूयमानामनुमन्त्रयते । कालात्मने सवित्रे इदम् ।