०५ दम्पत्योर्नियमः

विवाहादि-शेषहोमान्तं द्वितीयादि-विवाहेष्व् अपि दम्पत्योः
क्षार-लवण-मधु–दन्त-धावनाञ्जनाभ्यञ्जन–गन्ध-पुष्प-ताम्बूल–
खट्वादि-शयन–
स्मरण-कीर्तन-केली-प्रेक्षण–गुह्य-भाषण–
सङ्कल्पाध्यवसाय-क्रिया-निर्वृति-रूपाष्टाङ्ग-मैथुन-वर्जम्
आग्नेय-स्थालीपाकादि-चतू-रात्रं तयोर् एकस्मिन् कटे शयनं कार्यम् ।

शयने च तयोर् मध्ये नैयग्रोधौदुम्बराश्वत्थ-प्लाक्षेष्व्-अन्यतम-दण्डं गन्ध-पुष्पालङ्कृतं
वाससा सूत्रेण वा परिवेष्टितं निधाय
तस्मिन् विश्वावसुं गन्धर्वं भावयेत् ।

[[31]]