०५ आग्नेयव्रतम्

आचार्यः प्राणानायम्य, अमुक-गोत्रममुकशर्माणं माणवकमाग्नेयव्रतेन कर्मणा संस्करिष्यामीति सङ्कल्प्य, कृतप्राणायामं शिष्यम् आग्नेयव्रतं चरिष्यामीति वाचयित्वा, वस्त्रोपवीतादि धारयित्वा, स्नानं कारयित्वा, निवीत्या अग्निं काण्डर्षिं तर्पयामि ।

[[96]]

साँहिती,र्याज्ञिकी,र्वारुणीः ब्रह्माणं स्वयम्भुवं सदसस्पतिं च तिलाक्षतोदकैः त्रिस्त्रिः तर्पयित्वा, आचान्तं शिष्यं दक्षिणत उपवेश्य, प्राजापत्यव्रतवत् पात्रसादनाद्यग्निमुखान्ते शिष्येणान्वारब्धः,

अग्नये काण्डर्षये स्वाहा - अग्नये काण्डर्षय इदम् ।
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोद्ध्यस्मज्जुहुराणमेनोभूयिष्ठान्ते नम उक्तिं विधेम स्वाहा - अग्नय इदम् ।
प्रवश्शुक्राय भानवे भरध्वं हव्यं मतिञ्चाग्नये सुपूतम् ।
यो दैव्यानि मानुषा जनूँषि ।
अन्तर्विश्वानि विद्मनाजिगाति स्वाहा - अग्नय इदम् ।
अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्रविणं भिक्षमाणाः ।
सुसदृशँ सुप्रतीकँ स्वञ्चम् । हव्यवाहमरतिं मानुषाणाँ स्वाहा - अग्नय इदम् ।
अग्ने त्वमस्मद्युयोद्ध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः ।
पुनरस्मभ्यँसुविता यदेव । क्षां विश्वेभिरजरेभिर्यजत्र स्वाहा - अग्नय इदम् ।
अग्ने त्वं पारया नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुला न उर्वी भवातोकाय तनयाय शय्ँयोः स्वाहा - अग्नय इदम् ।
प्रकारवो मनना वच्यमानाः । देवद्रीचीं नयथ देवयन्तः ।
दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची स्वाहा - अग्नय इदम् ।
साँहितीभ्यो, याज्ञिकीभ्यो, वारुणीभ्यो, ब्रह्मणे स्वयम्भुवे सदसस्पतये च हुत्वा, माणवकः

अग्ने व्रतपते काण्डर्षिभ्यः । आग्नेयव्रतं चरिष्यामि ।
तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते काण्डर्षिभ्यः ।
आग्नेयव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् ।
आदित्य व्रतपते काण्डर्षिभ्यः | आग्नेयव्रतं चरिष्यामि ।
तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते काण्डर्षिभ्यः ।
आग्नेयव्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् ।

इत्यग्न्युपस्थानं कारयित्वा, जयाद्यग्न्युपस्थानान्ते अभ्युदयं पुण्याहं च कुर्यात् ।

[[97]]

आग्नेयव्रतोत्सर्जनम्

आचार्यः प्राणानायम्य, अमुक-गोत्रममुकशर्माणं माणवकम् आग्नेयव्रतोत्सर्जनेन कर्मणा संस्करिष्यामीति सङ्कल्प्य, आग्नेयव्रतोत्सर्जनं चरिष्यामीति शिष्यं वाचयित्वा, उपवीतादिधारणस्नानतर्पणादि पूर्ववत् कारयित्वा, अग्नेरुपसमाधानाद्यग्निमुखान्ते शिष्येणान्वारब्धः, अग्नये काण्डर्षये स्वाहा - अग्नये काण्डर्षये इदम् । अग्ने नय-प्रवश्शुक्राय-अच्छागिरो मतयो-अग्ने त्वमस्मत्-अग्ने त्वं पारय-प्रकारवो मनना, इति षट्, सांहितीः याज्ञिकीः, वारुणीः, ब्रह्माणँ स्वयं भुवं सदसस्पतिं च प्रधानाहुतीर्हुत्वा, अग्ने व्रतपते काण्डर्षिभ्यः । आग्नेयव्रतमचारिषम् । तदशकं तन्मे राधि । वायो व्रतपते काण्डर्षिभ्यः । आग्नेयव्रतमचारिषम् । तदशकं तन्मे राधि । आदित्य व्रतपते काण्डर्षिभ्यः । आग्नेयव्रतमचारिषम् । तदशकं तन्मे राधि । व्रतानां व्रतपते काण्डर्षिभ्यः । आग्नेयव्रतमचारिषम् । तदशकं तन्मे राधि ।

इति शिष्येणोपस्थानं कारयित्वा, जयाद्यग्न्युपस्थानान्ते अभ्युदयं पुण्याहं च कुर्यात् ॥