०५ आग्नेयस्थालीपाकः

ब्राह्मणाननुज्ञाप्य, प्राणानायम्य, पत्न्या सह आग्नेयस्थालीपाकेन यक्ष्य इति सङ्कल्प्य, पत्न्यर्थं पुनः प्राणानायम्य, आग्नेयस्थालीपाकेन यक्ष्य इति पत्नीं वाचयेत् । पत्नी व्रीहीनवहन्यात् । तस्मिन्नेवाग्नौ स्वयं चरुं श्रपयित्वाभिगार्य, उत्तरतोऽवतार्य,

[[118]]

पुनरभिघार्य, अग्निप्रतिष्ठाद्यग्निमुखान्ते पत्न्यान्वारब्धो दर्व्यामुपस्तीर्य, हविर्मध्यादङ्गुष्ठपर्वमात्रं मध्यमानामिकाङ्गुष्ठैः द्विरवदाय, जमदग्नीनां त्रिः, सकृदभिघार्य, चरौ प्रत्यभिघार्य, अग्नये स्वाहेत्यग्निमध्ये हुत्वा, अग्नय इदम् । दर्व्यामुपस्तीर्य, आर्द्रामलकमात्रमुत्तरार्धात्सकृदवदाय, जमदग्नीनां द्विरवदाय, सर्वेषां द्विरभिघार्य, अग्नये स्विष्टकृते स्वाहेति प्रागुदीच्यां पूर्वाहुत्यसंसक्तं हुत्वा, परिध्यञ्जनं, लेपकार्यम् आज्यस्थालीमुत्तरतः, प्रधानदर्वीं दक्षिणतः इतरां मध्ये, इत्यग्नेः पश्चान्निधाय, पात्रसादनदर्भानादाय, प्रधानदर्व्यामग्रम्, इतरदर्व्यां मध्यम्, आज्यस्थाल्यां मूलम् इति क्रमेण त्रिरक्त्वा, तेष्वेकं दर्भं प्रज्ञातं निधाय, दक्षिणोत्तराभ्यां पाणिभ्यां दर्व्यां प्रतिष्ठाप्य, सव्यं करं निरस्य तिर्यञ्चं हस्तं धारयन्, अग्रमुदत्याग्नौ प्रहृत्य, पुनरुदत्य मध्यं प्रहृत्य, पुनरुदत्य, मूलं प्रहृत्य, निहितं दर्भं च प्रहृत्य, तर्जन्या त्रिरग्निं निर्दिश्य, अग्निमभिमन्त्र्य, दक्षिणहस्तेन भूमिं स्पृष्ट्वा, मध्यमं परिधिमग्नौ प्रहृत्य, अन्यौ हस्ताभ्यां युगपदादाय, अग्नावुत्तरार्धस्याङ्गारेषु अग्रं प्रवेश्य, प्रहृत्य, सँस्रावहोमादि कुर्यात् । एवं सर्वत्र चरुकर्मसु परिध्यञ्जनादि लेपकार्यं परिधिप्रहरणं सँस्रावः प्रायश्चित्तं प्राणायामः परिषेचनं प्रणीतावोक्षणं ब्रह्मोद्वासनं च कुर्यात् । बह्वाज्यसिक्तेन हुतशेषेण चरुणा दक्षिणतो निषादितं ब्राह्मणं भोजयित्वा, प्राणानायम्य, आग्नेयस्थालीपाककर्माङ्गं वृषभदानं करिष्य इति सङ्कल्प्य, पूज्याय ब्राह्मणाय वृषभं दत्वा, प्राणानायम्य, पूर्णपात्रदानं करिष्य इति सङ्कल्प्य, तण्डुलपूर्णं पात्रं दरिद्राय कुटुम्बिने श्रोत्रियाय दद्यात् ।