३० द्विदेवत्यग्रहप्रचारः

होत्रे इडां हृत्वा हविर्धानं गच्छन् संप्रेष्यति । वायव इन्द्रवायुभ्यामनुब्रू३हि । प्रतिप्रस्थाता उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि आदित्यपात्रेण द्रोणकलशादैन्द्रवायवस्य प्रतिनिग्राह्यं परिप्लवया गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । ऐन्द्रवायवमादायाध्वर्युः, द्रोणकलशाच्च परिप्लवया राजानं, उभौ निष्क्रम्य दक्षिणतोऽवस्थाय दक्षिणं परिधिसन्धिमन्ववहृत्य । अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरोऽसि स पिन्वस्व घृतवद्देव सोम स्वाहा परिप्लवयाघारमृजुं सन्ततमाघारयति । ओषधि-पशुजनविश्वेभ्यो भूतेभ्य इदम् । आश्राव्य प्रत्याश्राविते वायव इन्द्रवायुभ्यां प्रे३ष्य । प्रथमवषट्कारेऽ-ध्वर्युस्सावशेषं जुहोति । वायव इदम् । द्वितीयवषट्कारे सावशेषेणोभौ जुहुतः । इन्द्रवायुभ्यामिदम् । भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहि आदित्यं यजमान उपतिष्ठते । अथाध्वर्योः पात्रे प्रतिप्रस्थाता सम्पातमवनयति । अध्वर्युः प्रतिप्रस्थातुः । देवेभ्यस्त्वा आदित्यपात्रेण प्रतिप्रस्थातादित्यस्थाल्यां सम्पातमवनयति । ग्रहमध्वर्युरादाय क्षिप्रं होतारमनुद्रुत्य । मयि वसुः पुरोवसुर्वाक्पा वाचं मे पाहि ग्रहं होत्रे प्रयच्छति । होतारमुपहूय परिप्लवास्थ व्याघारणशेषं भक्षेहीत्यादिना भक्षयित्वा । मार्जालीये प्रक्षाल्य हविर्धानं गच्छन् सम्प्रेष्यति । मित्रावरुणाभ्यामनुब्रू३हि । प्रतिप्रस्थाता उपयामगृहीतोऽस्यृतसदसि चक्षुष्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि पूर्ववन्मैत्रावरुणस्य प्रतिनिग्राह्यं गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । मैत्रावरुणमादायाध्वर्युरुभौ निष्क्रम्याश्राव्य प्रत्याश्राविते सम्प्रेष्यत्यध्वर्युः मित्रावरुणाभ्यां प्रे३ष्य । वषट्कृते सावशेषेणोभौ जुहुतः । मित्रावरुणाभ्यामिदम् । धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहि आदित्यं यजमान उपतिष्ठते । पूर्ववत्सम्पातावनयनम् । विश्वदेवेभ्यस्त्वा आदित्यपात्रेणादित्यस्थाल्यां सम्पातमवनयति । अध्वर्युः - होतारमनुद्रुत्य मयि वसुर्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहि ग्रहं होत्रे प्रयच्छति । हविर्धानं गच्छन् संप्रेष्यति । अश्विभ्यामनुब्रू३हि । प्रतिप्रस्थाता उपयामगृहीतोऽसि श्रुतसदसि श्रोत्रपाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि आश्विनस्य प्रतिनिग्राह्यं गृहीत्वा पवित्रदशाभिः परिमृज्य न सादयति । आश्विनमादायोभौ निष्क्रम्याश्राव्य प्रत्याश्राविते सम्प्रेष्यति । अश्विभ्यां प्रेष्य । वषट्कृते सावशेषेणोभौ जुहुतः । अश्विभ्यामिदम् । विभूरसि श्रेष्ठो रश्मीनां व्यानपा व्यानं मे पाहि आदित्यं यजमान उपतिष्ठते । पूर्ववत् सम्पातावनयनम् । विश्वेभ्यस्त्वा देवेभ्यः आदित्यपात्रेण आदित्यस्थाल्यां प्रतिप्रस्थाता सम्पातमवनीय विष्णवुरुक्रमैष ते सोमस्तꣳ रक्षस्व तं ते दुश्चक्षा मावख्यत् आदित्यपात्रेणा-दित्यस्थालीमपिदधाति । अध्वर्युः - होतारमनुद्रुत्य मयि वसुस्संयद्वसुश्श्रोत्रपाश्श्रोत्रं मे पाहि आश्विनं होत्रे प्रदाय हविर्धानं गच्छन् सम्प्रेष्यति ।