श्राद्धम्

अथात्र सूत्राणाम् अपूर्णत्वाद्
अन्यतस् सिद्धान् अपि पदार्थान् उपसंहृत्य
यथा-प्रतिभासं प्रयोग उच्यते॥

पूर्वेद्युः

पूर्वेद्युस् सायम् औपासन-होमं हुत्वा
प्राचीनावीती कृतप्राणायामः
“श्वो मासिश्राद्धं कर्तास्मी"ति सङ्कल्प्य
शुचित्वादि-गुण-सम्पन्नेभ्यः श्वित्रादि-दोष-वर्जितेभ्यः कृत-सायम्-आह्निकेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।

निवेदनम्

तत्र प्रथमं यज्ञोपवीती भूत्वा

“श्वो मासिश्राद्धं भविता,
तत्र भवद्भिर् विश्वेदेवार्थे क्षणः कर्तव्यः”

इति विश्वदेवार्थेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
ततः प्राचीनावीती “पित्रर्थे क्षणः कर्तव्यः” इति पित्रर्थेभ्यः ।
“पितामहार्थे क्षणः कर्तव्यः” इति पितामहार्थेभ्यः ।
प्रपितामहार्थे क्षणः कर्तव्यः” इति प्रपितामहार्थेभ्यः ।
एकब्राह्मणपक्षे तु “पितृपितामहप्रपितामहार्थे क्षणः कर्तव्यः” इति
मातामहश्राद्धकारी चेत्, ऊहेन “मातामहार्थे क्षणः” इत्यादिना निवेदयेत् ।

उपवीत-नियमः

तत्र चाघारयोस्, तद्-अर्थ-समिधोर्, आज्य-भागयोर्, अग्निमुखाहुतौ, स्वविष्टकृति, प्रायश्चित्ताहुतौ च
तथा विश्वेदेवार्थेषु सर्वेषु पदार्थेषु च
प्रदक्षिणानुव्रजनयोश् च
यज्ञोपवीतमेव । एभ्योऽन्यत्रासमाप्तेस् सर्वत्र प्राचीनावीतम् एव ।
एतच्च प्राग् एवोपपादितम् ।

कर्तुश् चात्र सङ्कल्पाद् आरभ्य +आसमाप्तेर्
ब्रह्मचर्यादि-व्रतचर्या +अनशनं च भवति ।
भोक्तॄणाम् अपि मनूक्तो ऽक्रोधत्वादिः ।

होमात् पूर्वम्

अथापरेद्युः प्रातस्
तान् ब्राह्मणान् गृहम् आनीय
आचान्तान् आसनेषूपवेश्य
पूर्ववद् द्वितीयम् आमन्त्रणम् ।
अत्र त्व् “अद्य श्राद्धं भविष्यती"ति भेदः ।

“पूर्वेद्युर् निवेदनं
अपरेद्युर्द्वितीयं, तृतीयं चामन्त्रणम्”

इतिवचनात् ।

अथ तेषां पादान् कुण्डेषु सकूर्च-तिलेष्व् अवनिज्याचमय्य,
कृसर-ताम्बूलादीनि दत्वा
अभ्यज्य, स्नानार्थं प्रस्थापयेत् ।
ते च स्नायुः ।

ततस् स्वयं च स्नातो
ब्राह्मण-भोजनार्थाद् अन्नाद् अन्येनान्नेन वैश्वदेवं पञ्चमहायज्ञांश् च कुर्यात् ।
केचित्— समाप्ते श्राद्धे इति ।

आसनादि

ततोऽपराह्णे प्राचीनावीती
ब्राह्मणान् प्रक्षालित-पाणिपादान् आचान्तान् आसनेषूपवेशयति -
तत्र विश्वेदेवार्थान् प्राङ्मुखान् प्राक्-कूलेषु दर्भेषु
पित्राद्य्-अर्थान् उदङ्-मुखान् द्विगुण-भुग्नेषु दक्षिणाग्रेषु दर्भेषु ।

श्राद्धागारं च शुचौ देशे दक्षिणाप्रवणे
सर्वतः परिश्रितम् उदग्-द्वारं च भवति ।
तस्योत्तर-पूर्व-देशे ऽग्निरौपासनः ।
अग्नेर् दक्षिणतः पिण्डप्रदानार्थं स्थण्डिलम् । तस्य दक्षिणतः पत्राद्यर्थानाम् आसनम् । पश्चात् तु विश्वेदेवार्थानाम् आसनम् ।

अर्घ्यादि

स्थण्डिलेषु यथावकाशं पित्रादिभ्यस् त्रिषु पात्रेषु एकस्मिन् वा
शास्त्रान्तरोक्त-विधिनार्घ्यार्थम् उदकग्रहणम् ।
विश्वेभ्यो देवेभ्यश्च यथाविधि पात्रान्तरे ।
तानि गन्धादिभिर् अभ्यर्च्य,
दर्भेषु सादयित्वा
दर्भैः प्रच्छाद्यासनगतानां ब्राह्मणानां हस्तेषु स्वस्मात् स्वस्माद् उदपात्रात् पात्रान्तरेणाप आदाय

“विश्वे देवाः इदं वो अर्घ्यं”
“पितरिदं ते अर्घ्यं”
“पितामहेदं ते अर्घ्यं”
“प्रपितामहेदं ते अर्घ्यं”
“पितृपितामहप्रपितामहा इदं वो अर्घ्यं”

इति वार्घ्याणि ददाति ।

इदम् एवार्घ्यदानं श्राद्धे स्वधा-निनयनम् उदपात्रानयनम् इति चोच्यते ।
पुरस्ताद् उपरिष्टाच् चार्घ्य-दानाद्+धस्तेषु शुद्धोदकदानम् ।

ततो गन्धादिभिर् वासोभिर् अङ्गुलीयकादिभिश् च
यथाविभवं ब्राह्मणानाम् अभ्यर्चनम् ।

अनुज्ञा

ततस् तान्
“उद्ध्रियताम् अग्नौ च क्रियताम्” इत्यामन्त्रयते ।
ते च प्रतिब्रूयुः ।

उदीच्य-वृत्तिस् त्वासन-गतानां हस्तेषूद-पात्रानयनम् ।

“उद्ध्रियताम् अग्नौ च क्रियताम्” इत्य् आमन्त्रयते ।
“कामम् उद्ध्रियतामग्नौ च क्रियताम्” इत्यतिसृष्ट उद्धरेज्जुहुयाच्च
(आप.ध.२-१७-१७,१८,१९.)

इति धर्मशास्त्रवचनात् ।

एतच् चोदपात्रानयनं उद्ध्रियताम् इत्य् आमन्त्रणं च पाक्षिकम्,
भाष्यकारेणानुक्तत्वात्,
उदीच्य-वृत्तिर् इत्यस्य समासस्य उदीच्यानां वृत्तिर् उदीच्येषु वृत्तिरित्युभयथापि विग्रहाभ्युपगमाच्च ।

होमः

अथ ब्राह्मणभोजनार्थाद् अन्नात् हविष्यम् ओदनापूपादिकम्
एकस्मिन् पात्रे समुद्धृत्य
अहविष्यं क्षारादि-संसृष्टम् अन्यस्मिन् पात्रे उद्धृत्य
अथ हविष्यं प्रतिष्ठितम् अभिघार्य
अग्नेर् उपसमाधानाद्य्-अग्निमुखान्तं कृत्वा
“यन्मे माता” इत्यादिभिस् त्रयोदश प्रधानाहुतीर् हुत्वा
स्विष्टकृतं च

तत उदीचीनम् उष्णं भस्मापोह्य
अहविष्यं स्वाहाकारेण हुत्वा

ऽथ “लेपयोः” इत्यादि तन्त्रशेषं समाप्य

भोजनम्

अभिमर्शादि

ततः “एष ते तत” इत्यादिभिस् सर्वम् अन्नम् अभिमृश्य

अथ पृथक् पृथक् तृतीयम् आमन्त्रणं पूर्ववद् एव कृत्वा
त्रिष्वपि चामन्त्रणेषु “ओं तथा” इति प्रतिवचनं ब्राह्मणानाम् ।

ततः कर्तुः प्रार्थनम् “प्राप्नोतु भवान्” इति ।
ततः “प्राप्नवानि” इत्य् अङ्गीकारो भोक्तॄणाम् ।

क्रमान्तरम् (द्रष्टुं नोद्यम्)

अपरे क्रमान्तरम् आहुः —
वैश्वदेव-पञ्च-महायज्ञानन्तरं
अपराह्णे प्राचीनावीती अग्नेर् उपसमाधानादि करोति ।
तत्र स्वधा-निनयन-पक्षे पात्र-संसादन-काले स्वधा-पात्राणाम् अपि सादनम् ।
प्रणीताः प्रणीय,
विधिवत् स्वधा-ग्रहणम् ।
ततो “ब्राह्मणं दक्षिणतो निषाद्य”
इत्य्-आद्य् अग्निमुखान्ते कृते
पाद-प्रक्षालनादि । उद्ध्रियताम् इत्यामन्त्र्य,
अन्नम् उद्धृत्य प्रधान-होमादय इति ।
इहापि पक्षे स्वधा-निनयनं पाक्षिकम् एव ।

अन्ये तु—
मासिश्राद्धे शास्त्रान्तरानुसारान् +मन्त्रवन् +नियमवद् भोजन-देश-संस्कारं,
विश्वेषां देवानां चावाहनं,
भोजयित्वोद्वासनं चेच्छन्ति ।
अत्र च पदार्थेषु क्रमे च शिष्टाचाराद् एव निर्णयः,
सूत्रकार-भाष्यकाराभ्याम् अनुक्तत्वात् ॥

स्पर्शनम्

अथ प्रकृतम् उच्यते—

भोजन-पात्र-कॢप्तान् अन्नविशेषान् यथास्वं ब्राह्मणान् उपस्पर्शयति
“पृथिवी ते पात्रं”, इत्येतया
“इदं विष्णुर् विचक्रमे” इत्येतया च ।
तस्याश्चान्ते “विष्णो हव्यं रक्षस्व” इति विश्वेषां देवानां,
“विष्णो कव्यं रक्षस्व” इति पित्रादीनाम् ।

एवं स्पर्शयित्वाथ भोजयेत् ।

श्रावणादि

विभवे सति सर्पिर्मांसादीनि विशिष्टानि दद्यात् ;
अभावे तैलं शाकम् इति ।

भुञ्जानान् ब्राह्मणान् आहवनीयार्थेन ध्यायेत्,
पित्रादीन् देवतात्वेन,
अन्नं चामृतत्वेन,
आत्मानं ब्रह्मत्वेन ।+++(5)+++

भुञ्जानेषु च पराङ् आवृत्त्य
राक्षोघ्नान्, पित्र्यान्, वैष्णवान् अन्यांश् च, पावमानमन्त्रान्,
धर्मशास्त्रम् इतिहासपुराणानि चाभिश्रावयति ।

तृप्तांश्च ज्ञात्वा मधुमतीश् श्रावयति,
“अक्षन्नमीमदन्त” इति च ।

परिकिरणम्

अथ भूमाव् अन्नं परिकिरति—

ये अग्निदग्धा येऽनग्निदग्धा
ये वा जाताः कुले मम । भूमौ दत्तेन पिण्डेन
तृप्ता यान्तु परां गतिम् ॥

इति ।

तृप्तिवचनादि

अथाचान्तेषु पुनर् अपो दत्वा
“स्व्-अदितम्” इति पित्राद्यर्थान् वाचयति,
“रोचयते” इति विश्वेदेवार्थान् ।

ततो यथाशक्ति दक्षिणां दत्वा
ऽथ सर्वेभ्यो ऽन्नशेषेभ्यः पिण्डार्थं प्राशनार्थं चोद्घृत्य
“अन्नशेषः किं क्रियताम्”? इति शेषं निवेदयेत् ।
ते च “इष्टैस् सह भुज्यतां” इति प्रतिब्रूयुः ।

आशीर्वचनम्

अथ कर्ता—

दातारो नोऽभिवर्धन्तां
वेदास्सन्ततिरेव नः । श्रद्धा च नो मा व्यपगाद्
बहु देयं च नोऽस्तु ॥

इति प्रर्थयते ।

दातारो वोऽभिवर्धन्तां
वेदास्सन्ततिरेव वः । श्रद्धा च वो मा व्यगमद्
बहु देयं च वोऽस्तु ॥

इति तेषां प्रतिवचनम् ।

अथ,

अन्नं च नो बहु भवेद्
अतिथींश्च लभेमहि । याचितारश् च नस्सन्तु
मा च याचिष्म कञ्चन ॥

इति च प्रार्थयते ।

“अन्नं च वो बहु भवेत्” इत्यूहेनैव प्रतिवचनम् ।

प्रेषणम्

अनन्तरं “ओं स्वाधा” इत्याह ।
“अस्तु स्वधा” इति प्रतिवचनम् ।

अथ ब्राह्मणानां पित्राद्य्-अर्थानां पूर्वं विसर्जनम् ।
विश्वेषां देवानां पश्चाद् विसर्जनम् ।

पूर्वोक्तेषु निवेदनादिषु सर्वेषु पदार्थेषु
दैवपूर्वत्वम् एव ।+++(5)+++

अनुव्रजनम्

अथ यज्ञोपवीती
भुक्तवतोऽनुव्रज्य, प्रदक्षिणीकृत्य,
प्राचीनावीती
“द्वैधं दक्षिणाग्रान्” इत्यादि,
“शेषस्य ग्रासवरार्ध्यं प्राश्नीयात्” इत्य्-एवम्-अन्तं यथासूत्रं करोति ॥

प्राधान्यम्

अत्र चेदं वक्तव्यं–
ब्राह्मण-भोजनं होमः पिण्ड-दानं च
त्रीण्य् अपि मासिश्राद्धे प्रधानानि -
अग्न्याधेये धूर्तस्वामिनोक्तत्वात्,
वैश्वदेवे विश्वेदेवा इत्यत्र
कपर्दिस्वामिनिनोक्तत्वाच्च ।

केचित्—
इह ब्राह्मणभोजनम् एव प्रधानम्,
होमः पिण्डदानं च तदङ्गम्,
अनर्थावेक्षो भोजयेद् इति प्रकृत्य
तयोर् विधानात् इति ।

आमश्राद्धम्

अथास्य मुख्यकल्पासम्भवे
आमश्राद्ध-विधिर् अनुकल्पतयोच्यते—

आपद्य् अनग्नौ तीर्थे च
चन्द्र-सूर्य-ग्रहे तथा ।
आम-श्राद्धं द्विजैः कार्यं
शूद्रः कुर्यात्सदैव हि ॥

इति बृहत्प्रचेतोवचनात् । अत्र व्यासः—

आवाहनं च कर्तव्यम्
अर्घ्यदानं तथैव च ।
एष एव विधिर् यत्र
यत्र श्राद्धं विधीयते ॥

यद् यद् ददाति विप्रेभ्यः
शृतं वा यदि वाशृतम् । तेनाग्नौ करणं कुर्यात्
पिण्डांस् तेनैव निर्वपेत् ॥

इति । अत्र षट्त्रिंशन्मतम्—

आमश्राद्धं यदा कूर्यात्
पिण्डदानं कथं भवेत् । गृहाद् आहृत्य पक्वान्नं
पिण्डान् दद्यात् तिलैस्सह ॥

इति ।

प्रयोगः

प्रयोगसंक्षेपस्तु—

पूर्वेद्युर् अपरेद्युर् वा
ब्राह्मणान् निमन्त्र्य,
पूर्वाह्णे स्नात्वा ब्राह्मणान् आहूय,
पादप्रक्षालनाद्य्-अर्घ्यदानान्तं कृत्वा,
यथाविभवं गन्ध-वस्त्रादिभिश् च यथार्हम् अभ्यर्च्य,
“अग्नौ करिष्यामी"त्य् आमन्त्र्य
आथाग्नि-मुखान्ते तण्डुलाद्य्-अमद्रव्येण होमकरणम् ।

ततस् तन्त्र-शेषं समाप्य,
तण्डुलाद्य्-आम-द्रव्यं श्राद्धार्थं ददाति ।
चरोर् अभावात् तद्-धर्माणाम् अभावः ।
भोजनाभावाच् च तत्-सम्बन्धिनाम् अप्य् अभावः ।

ततः पिण्ड-दानम् आमेन,
गृहाद् आहृतेन पक्वेन वेति ।

हिरण्यदानम्

अत्यन्तापदि तु
“अपि ह वा हिरण्येन प्रदान-मात्रं”,
अपि वा मूलफलैः प्रदान-मात्रम्,
इत्य्-आदि-बोधायनादि-वचनाद्-धिरण्यादेर् वा प्रदान-मात्रं
समस्त-धर्म-रहितं कुर्यात् ।

एवं सर्वथापि श्राद्धम् अवश्यं कर्तव्यम् ।
न तु कस्यांचिद् अप्य् अवस्थायां लोपः ।+++(5)+++

उपसंहारः

अत्र च श्राद्ध-विषये यद्य् अपि,

वसवः पितरो ज्ञेयाः
रुद्राश्चैव पितामहाः । प्रपितामहास् तथादित्याश्
श्रुतिर् एषा समातनी ॥

इत्यादि-शास्त्रान्तर-सिद्धं बहु वक्तव्यम् अस्ति ;
तथापि विस्तर-भयाद् उपरम्यते ॥९॥