+१३ व्रतानि

अथ व्रतानि

प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यानि चत्वारि व्रतानि चत्वारि काण्डानि चत्वार्युत्सर्जनानि । तत्तद्व्रतानि चरित्वा तत्तत्काण्डानधीत्य तत्तत्काण्डान्ते तत्तदुत्सर्जनानि कुर्यात् । काण्डानां सङ्कीर्णत्वेन तथाध्ययनाभावेऽपि यदा कदाचिदुत्तरायणे विवाहात्पूर्वं व्रतानि उत्सर्जनानि च कुर्यात् ।