०३ वैश्वदेवं पर्व

॥ अथ वैश्वदेवं पर्व ॥

प्राचीनप्रवणे वैश्वदेवेन यजते । वैश्वदेवेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । अग्नीन् विहृत्य अन्वादधाति । वैश्वदेवꣳ हविरिदमेषां मयि । आमावास्यं तन्त्रम् । इषे त्वोर्जे त्वा शाखामाच्छिनत्ति । अप उपस्पृश्य । इमां प्राचीमुदीचीमिषमूर्जमभिसꣳस्कृताम् । बहुपर्णामशुष्काग्राꣳ हरामि पशुपामहम् आहरति । वायवस्स्थोपायवस्स्थ तया षट्कृत्वो षडवरार्ध्यान् वत्सानपाकरोति । अत्र व्रतप्रवेशः । पयस्वतीरोषधय इत्याद्यादित्योपस्थानान्तम् । देवो वस्सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आ प्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो देवभागमूर्जस्वती: पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा वस्स्तेन ईशत माघशꣳस: शाखया गोचराय गा: प्रस्थापयति । प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्वा । शुद्धा अपस्सुप्रपाणे पिबन्तीश्शतमिन्द्राय शरदो दुहाना: । रुद्रस्य हेति: परि वो वृणक्तु प्रस्थिता अनुमन्त्रयते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वी: यजमानस्य गृहानभ्यैति । यजमानस्य पशून्पाहि अग्निष्ठे अनस्यग्न्यगारे वा पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात्प्राचीं वा । असिदादानादि । बर्हिराहरणकाले प्रसूमयं बर्हिः प्रस्तरश्च । सर्वाणि निधनानि त्रेधा तूष्णीं बध्वा । सम्भरणमन्त्रेण प्रत्येकं संभृत्य, मन्त्रेण सन्नह्यति । तथेध्मान् । त्रयोविंशतिदारून् त्रीन्कलापान् अष्टावष्टौ सप्त च समशस्तूष्णीं सन्नह्य । ततस्तान् त्रयोविꣳशतिधा संभरामि इत्यूहेन त्रीन्कलापान् समशो निदधाति । ततो मन्त्रेण सन्नह्यति । वेदं कृत्वा वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा । अन्तर्वेदि शाखाया: पलाशान्यसर्वाणि प्रशात्य । मूलतश्शाखां परिवास्य उपवेषं करोति । उपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हवि: कृण्वन्तश्शिवश्शग्मो भवासि न: उपवेषं करोति । तृतीयस्यै दिवो गायत्रिया सोम आभृत: । सोमपीथाय सन्नयितुं वकलमन्तरमा ददे प्रथमपरिवासनशकलमादाय । प्रज्ञातं निधाय । त्रिवृद्दर्भमयं पवित्रं कृत्वा । वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारं शाखायां शिथिलमवसजति । मूले मूलान्यग्रे अग्राणि, न ग्रन्थिं करोति ।

यजमान: - त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मित: । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वश: । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवत: । यवाग्वा हुते सायमग्निहोत्रे अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।