१३ अङ्गारैः पर्यूहणं, परिधिभिः परिधानम्

अध्वर्युः प्रतिप्रस्थाता च सिद्ध्यै त्वा द्विः धृष्टी आदत्तः । तपोष्वग्ने अन्तराꣳ अमित्रान् । तपाशꣳसमररुषः परस्य । तपावसो चिकितानो अचित्तान् । वि ते तिष्ठन्तामजरा अयासः गार्हपत्यादुदिचोऽङ्गारान्निरूह्य । चितः स्थ परिचितः । स्वाहा मरुद्भिः परिश्रयस्व प्रदक्षिणमङ्गारैः पर्यूह्य वैकङ्कतैः परिधिभिः परिधत्तः । मा असि, मा असि प्राञ्चावध्वर्युर्निदधाति । प्रमा असि, प्रमा असि उदञ्चौ प्रतिप्रस्थाता । प्रतिमा असि, प्रतिमा असि पूर्ववदध्वर्युः । संमा असि, संमा असि पूर्ववत्प्रतिप्रस्थाता । विमा असि, विमा असि पूर्ववदध्वर्युः । उन्मा असि, उन्मा असि पूर्ववत्प्रतिप्रस्थाता अन्तरिक्षस्यान्तर्धिरसि अध्वर्युरेव दक्षिणतः त्रयोदशं निदधाति ।