०२ व्रतारम्भः

काण्डानां सङ्कीर्णत्वेन काण्डोपाकरणकाण्डोत्सर्जनानामभावेऽपि यदा कदाचिदुत्तरायणे विवाहात् प्राक् व्रतानि उत्सर्जनान्तानि कुर्यात् । ब्रह्मचारी नमस्सदस इति सदस्यान् प्रणम्य, स्वामिनः भवत्…… स्वीकृत्य, मम ब्रह्मचर्यव्रतलोपप्रायश्चित्तं कर्तुं योग्यतासिद्धिमनुगृहाणेति प्रार्थ्य, तैरनुज्ञातः, प्राणानायम्य, श्रीगोविन्देत्यादि—- भगवत्प्रीत्यर्थं गोत्रस्य शर्मणः मम उपनयनप्रभृति एतत्क्षणपर्यन्तं ब्रह्मचर्यव्रतलोपप्रायश्चित्तार्थं प्राजापत्यकृच्छ्राणि हिरण्यरूपेण करिष्य इति सङ्कल्प्य, हिरण्यं गृहीत्वा, हिरण्यगर्भ–प्रयच्छ मे, इत्युक्त्वा, इमानि हिरण्यानि मम ब्रह्मचर्यव्रतलोपप्रायश्चित्तार्थं प्राजापत्यकृच्छ्ररूपाणि नानागोत्रेभ्यस्संप्रददे न मम इति साक्षतं जलं भूमौ निक्षिप्य, ब्राह्मणेभ्यो दत्वा, सदस्यान् प्रणम्य, मयानुष्ठितं मम ब्रह्मचर्यव्रतलोपप्रायश्चित्तं यथाशास्त्रमनुष्ठितमस्त्विति भवन्तो ब्रुवन्तु इति प्रार्थ्य, तथास्तु यथाशास्त्रानुष्ठितमस्त्विति तैरनुज्ञातः । व्रताङ्गम् उप्तकेशं स्नातं शिष्यं दक्षिणत उपवेश्य-