०२ उत्तम्भनादिमन्त्रजपः

वरः प्रणानायम्य, उत्तम्भनादिमन्त्रजपं करिष्य इति सङ्कल्प्य,

सत्येनोत्तभिता भूमिस्सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधिश्रितः ।
युञ्जन्ति ब्रध्नमरुषं चरन्तं परितस्थुषः ।
रोचन्ते रोचना दिवि ।
योगे योगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्र मूतये ।
सुकिँशुकँशाल्मलिं विश्वरूपँ हिरण्यवर्णँसुवृतँसुचक्रम् ।
आरोहवध्वमृतस्य लोकँ स्योनं पत्ये वहतुं कृणुष्व ।
उदुत्तरमारोहन्ती व्यस्यन्ती पृतन्यतः ।
मूर्धानं पत्युरारोह प्रजया च विराट् भव ।
संराज्ञी श्वशुरे भव संराज्ञी श्वश्रुवां भव ।
ननान्दरि संराज्ञी भव संराज्ञी अधिदेवृषु ।
स्नुषाणाँ श्वशुराणां प्रजायाश्च धनस्य च ।
पतीनाञ्च देवॄणाञ्च सजातानां विराड् भव ।
नीललोहिते भवतः कृत्या सक्तिर्व्यज्यते ।
एधन्तेऽस्या ज्ञातयः पतिर्बन्धेषु बध्यते ।

[[114]]

ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनाँ अनु ।
पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ।
माविदन्परि पन्थिनो य आसीदन्ति दम्पती ।
सुगेभिर्दुर्गमतीतामपद्रान्त्वरातयः ।
सुगं पन्थानमारुक्षमरिष्टँ स्वस्तिवाहनम् ।
यस्मिन्वीरो नरिष्यत्यन्येषां विन्दते वसु ।
तामन्दसाना मनुषे दुरोण आधत्तँ रयिं दशवीरं वचस्यवे ।
कृतं तीर्थँसुप्रपाणँशुभस्पती स्थाणुं पथेष्ठामपदुर्मतिँ हतम् ।
अयं नो मह्याः पारँ स्वस्ति नेषद्वनस्पतिः ।
सीरानस्सुतरा भव दीर्घायुत्वाय वर्चसे ।
अस्य पारे निर्ऋथस्य जीवाज्योतिरशीमहि ।
मह्या इन्द्र स्वस्तये ।

इति जपित्वा ।