०३ ग्रन्थोद्दिष्टकर्मणां सङ्क्षेपतः परिचयः

दर्शपूर्णमासौ

अस्मिन् ग्रन्थ उद्दिष्टानां कर्मणां सामान्यतः परिचयः क्रियते आपस्तम्बसूत्रानुसारम् । प्रथमतो दर्शपूर्णमासावधिकृत्य वक्ष्यामः । दर्शपूर्णमासाविति कर्मणोर्नामधेयौ । दर्शपूर्णमासौ प्रकृतियागावुच्येते । प्रकृष्टसर्वाङ्गोपदेशो यत्र क्रियते सा प्रकृतिः । विशेषमात्रोपदेशो यत्र क्रियतेऽवशिष्टं तु प्रकृतेरतिदिश्यते सा विकृतिः । यावज्जीवं दर्शपूर्णमासाभ्यां यजेत इति श्रुत्या तौ नित्यकर्मत्वेनोपदिष्टौ । नित्यकर्मत्वात् फलं दर्शपूर्णमासयोः ईश्वरप्रीणनद्वारा चित्तशुद्धिः । पर्वप्रतिपदोः सन्धिमत्यहोरात्रेऽनुष्ठेयौ । यदि सन्धिः पर्वदिनस्यापराह्णे स्यात् तर्हि तद्दिने अन्वाधाय प्रतिपदि यागः । पूवाह्णे सन्धिश्चेत् पूर्वदिने अन्वाधाय सन्धिदिने यागः । पूर्वदिने सङ्कल्पः, ऋत्विग्वरणम्, अग्निप्रणयनम्, अन्वाधानम्, इध्माबर्हिराहरणादीनि कर्माणि भवन्ति । पौर्णमासेष्टिरुत्तरेद्युरुदिते चादित्येऽनुवर्तयितव्या । दर्शेष्टिश्चेदुदयात् प्राक् । अध्वर्युः, आग्नीध्रः, ब्रह्मा, होता इति चत्वार ऋत्विजो दर्शपूर्णमासौ निर्वहन्ति । अग्निः, विष्णुः प्रजापतिर्वा, अग्नीषोमौ, इन्द्रो वैमृधश्च पौर्णमासेष्ट्याः प्रधानदेवताः । अग्निः, इन्द्राग्नी चामावास्यायाः प्रधानदेवताः असन्नयतो यजमानस्य । सन्नयतस्तु अग्निः, इन्द्रो महेन्द्रो वा । सान्नाय्यशब्देन दधिपयसी हविषी उच्येते । पात्रासादनम्, अप्प्रणयनम्, हविस्संस्काराः, सामिधेन्यः, प्रयाजाः, प्रधानहविर्यागः, इडाह्वानम्, अनूयाजाः, पत्नीसंयाजाः, इत्यादीनि बहुविधान्यङ्गकर्माणि तत्रानुष्ठीयन्ते । अयं च विशेषः दर्शपूर्णमासयोः यत् ऋत्विजां भोजनमेव तत्र दक्षिणा ॥ पिण्डपितृयज्ञः अमावास्यायामपराह्णे यजमानः स्वस्य पितृभ्यो यत्कर्म करोति स पिण्डपितृयज्ञः । स दक्षिणाग्नौ क्रियते । सोमः पितृमान्, यमोऽङ्गिरस्वान् पितृमान्, अग्निः कव्यवाहन इति पिण्डपितृयज्ञस्य प्रधानदेवताः । दर्विहोमधर्मत्वेनात्र होमः क्रियते । ततो यजमानेन स्वेभ्यः पितृभ्यः पिण्डदानं क्रियते । अस्मिन् कर्मणि पात्रासादनहविस्संस्कारहोमानां कर्ता अध्वर्युर्भवति । सूत्रकारान्तरमतेन यजमान एव वा सर्वं कर्म करोति । सङ्कल्पः सकृदाच्छिन्नदर्भाहरणं (सकृत् एकयत्नेनाच्छिद्याहृताः दर्भाः), पात्रासादनम्, हविस्संस्काराः, प्रधानहोमः, पिण्डप्रदानम्, पिण्डानामुपस्थाननमस्कारादयः, पिण्डोद्वासनमित्यादीन्यङ्गकर्माणि अत्र भवन्ति ॥

अग्न्याधानम्

शास्त्रोक्तरीत्या मन्त्रेण संस्कृताः गार्हपत्यादयोऽग्नय आयतनेषु यन्निधीयन्ते तदग्न्याधानमुच्यते । तत्रायतनानां प्रमाणानि शुल्बसूत्रे उक्तानि । गार्हपत्यायतनं वृत्ताकारो भवति । दक्षिणाग्न्यायतनं अर्धवृत्ताकारः, आहवनीयं चतुरश्राकारः । त्रयाणामायतनानां क्षेत्रफलं (अय्ज्ग्) समानं भवति । आयतनानां मापनं च प्रत्येकस्य यजमानस्य हस्ताङ्गुल्याद्यनुगुणं भवति । आधानात् पुरस्तात् जायापतिभ्यां कृछ्राचरणं कूष्माण्डहोमः गायत्रीपुरश्चरणं महानदीस्नानं दानमित्यादिभिरात्मशुद्धिः करणीया । आधानदिनात्पूर्वस्मिन् दिने प्रातः आधानसङ्कल्पः, अश्वत्थवृक्षनिर्मितारण्योराहरणम्, सप्त पार्थिवसंभाराणां सप्त वानस्पत्यसंभाराणामाहरणम्, नान्दीश्राद्धम्, रात्रौ ब्रह्मौदनं इत्येतान्यङ्गकर्माणि भवन्ति । आधानदिने प्रातः ब्राह्मे मुहूर्ते कर्माणि प्रक्रमन्ते । आयतनेषु पार्थिववानस्पत्यसंभारनिवपनम्, अग्निमन्थनम्, गार्हपत्याधानम्, दक्षिणाग्न्याधानम्, आहवनीयाधानम्, शिवाजपः, घोराजपः, पूर्णाहुतिः, अग्न्युपस्थानम्, तत आधानाङ्गेष्टय इत्यादीन्यङ्गकर्माणि भवन्ति । आधानेन सकृत् संस्कृतेष्वग्निष्वेव यजमानोऽग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमादीनि सर्वाणि कर्माण्यनुष्ठातुमर्हति । यज्ञपात्राणि स्रुवजुहूप्रभृतीनि यावज्जीवं धारणीयानि मध्ये विच्छिन्नाग्निः सन्नपि । तं”यज्ञपात्रैर्दहन्ति इति श्रुत्या तेषां पात्राणां पितृमेधे प्रतिपत्तेरुक्तत्वात् । पूर्वमेव पत्नीवियोगे सति तेषां सर्वेषां पात्राणां तया सहैव दाहो भवति । आधानदिने सायमग्निहोत्रस्योपक्रमो भवति । आगामिन्यां पौर्णमास्यामन्वारम्भणीयेष्टिं कृत्वा ततः दर्शपूर्णमासयोरुपक्रमो भवति । तत्र प्रथमं पूर्णमासयागः, पश्चाद्दर्शयागः इत्येवं क्रमेण पक्षान्ते तयोरनुष्ठानं भवति ।

अन्वारम्भणीया

अन्वारभ्यतेऽनया इत्यन्वारम्भणीया इति इष्ट्याः नाम । सा च इष्टिः दर्शपूर्णमासयोरारम्भविशेषः । एषा इष्टिराधानानन्तरं या प्रथमा पौर्णमासी तस्यामनुष्ठेया । अस्याः अग्नाविष्णू, सरस्वती, सरस्वान्, अग्निर्भगी च प्रधानदेवताः । मिथुनौ गावौ दक्षिणा । दर्शपूर्णमासयोरारम्भार्थत्वेनानुष्ठीयमानत्वात्प्रथमाधानानन्तरं सकृदेव भवति । विच्छिन्नाधानेषु न पुनरनुष्ठेया ।

अग्निहोत्रम्

अग्निहोत्रं श्रुत्युक्तं नित्यं कर्म । आहिताग्निर्यजमान आधानेन संस्कृतेषु गार्हपत्यदक्षिणाग्न्याहवनीयाख्ये- ष्वग्निषु प्रत्यहं सायं प्रातर्यज्जुहोति तदग्निहोत्रमुच्यते । तत्र सायंहोमस्य अग्निप्रजापती प्रधानदेवते । प्रातर्होमस्य सूर्यप्रजापती प्रधानदेवते । आहवनीये प्रधानहोमः क्रियते । नित्ये कल्पे पयसा होतव्यम् । पशुकामस्यापि पय एव विहितम् । पयसोऽलाभे विशेषकामे चान्यानि होमद्रव्याणि भवेयुः । यथा पयसोऽलाभे आज्येन जुहुयात्, आज्येन जुहुयात्तेजस्कामस्य, दध्नेन्द्रियकामस्य, यवाग्वा ग्रामकामस्य इत्यादीनि । अग्नीनां प्रणयनपक्षो धारणपक्ष इति पक्षद्वयं वर्तते । येन यजमानेन प्रणयनपक्षोऽवधृतः स केवलं गार्हपत्यमेव नित्यं धरति । धारणपक्षेऽग्नित्रयमपि नित्यं ध्रियते । प्रणयनपक्षश्चेदवधृतः तदा सायं सूर्यास्तमयात्प्राक् , प्रातः सूर्योदयात् प्राक् ,गार्हपत्यादाहवनीयदक्षिणाग्न्योः प्रणयनं कृत्वा सायं अस्तमिते सूर्ये प्रातः अभ्युदिते सूर्ये होमः करणीयः । प्रातर्होमे उदितहोमोऽनुदितहोम इति पक्षद्वयं वर्तते । सूर्योदयोत्तरं क्रियमाणो होम उदितहोमः । सूर्योदयात्प्राक् क्रियमाणो होम अनुदितहोमः । प्रत्यहं यजमानो पुत्रो शिष्यो ऋत्विग्वा होमं कुर्यात् । पर्वसु यजमान एव जुहुयात् । समस्तेष्टार्थसाधनमग्निहोत्रमिति श्रुतिस्मृतिवादाः ॥

पत्नीप्रवासे न कर्मलोपः पुनराधानं वा । पत्न्या सह प्रवासे प्राप्ते वास्तोष्पतीयं हुत्वा गार्हपत्याग्निमरण्योरात्मनि वा समारोप्य प्रवसेत् ।

यावज्जीवमग्निहोत्रं जुहोति, यावज्जीवंदर्शपूर्णमासाभ्यां यजेत इति श्रुतेः आशौचकालेऽप्यग्निहोत्रादि कर्तव्यमेव । तथाच वैद्यनाथीये गोभिलः - “ अग्निहोत्रे तु होमार्थं शुद्धिस्तत्कालिकी स्मृता” । (आशौचकाण्डे ‘त्याज्यकर्माणि’ अध्याये) तत्रैवाग्निहोत्रार्थं स्नानोपस्पर्शनान्तं तत्कालं शौचं, इति शङ्खस्मृतौ । तथा च तत्रैव

दर्शं च पूर्णमासं च कर्म वैतानिकं च यत् ।
सूतकेऽपि त्यजन् मोहात् प्रायश्चीयते हि सः ॥ इति मनुवचनत्वेनोदाहृतम् ॥

अपि च -

तस्माद्यायावरधर्मेणामयाव्यार्तो वा जननमरणयोरध्वन्यापत्सु वाऽर्धमासायार्धमासाया-ग्निहोत्रं जुहुयात् । (भारद्वाजपितृमेधसूत्रं २-९-२ )

इति सूत्रानुसारेणोक्तेषु निमित्तेषु प्राप्तेष्वग्निहोत्रस्य पक्षहोमोऽप्यनुमतः ॥

सायंप्रातस्तनौ होमावुभौ सायं समस्य तु । आपन्नो जुहुयात्तस्य समिधेकाथवा द्वयम् ॥

इति वैद्यनाथीयाह्निककाण्ड उदाहृतबृहस्पतिस्मृत्यनुसारेण आपदि सायमेव सायंप्रातर्होमावनुमतौ ॥

चातुर्मास्यानि

चातुर्मास्ययागः दर्शपूर्णमासयोर्विकार ऐष्टिको यागः । तस्मिन् यागे प्राधान्यतः चत्वारि पर्वाणि भवन्ति - वैश्वदेवपर्व, वरुणप्रघासपर्व, साकमेधपर्व, शुनासीरीयपर्वेत्याख्यानि । फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा आरभ्य चतुर्षु चतुर्षु मासेषु एतान्यनुष्ठेयानि । फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा वैश्वदेवपर्वानुष्ठेयम् । तत्पूर्वदिने चातुर्मास्याङ्गत्वेनान्वारम्भणीयेष्टिः क्रियते । अस्या अन्वारम्भणीयेष्टेः अग्निर्वैश्वानरः पर्जन्यश्च प्रधानदेवते । वैश्वदेवपर्वणः अग्निः सोमः सविता सरस्वती पूषा मरुतः विश्वेदेवाः द्यावापृथिवी च प्रधानदेवताः । एतास्वग्निप्रभृतयः पूषान्ताः सञ्चरदेवता इत्युच्यन्ते । ताः चतुर्ष्वपि पर्वसु यष्टव्याः भवन्ति । तत्र विश्वेषां देवानामामिक्षा हविः । तप्ते पयसि दधि अवनयन्ति । तेन यद्घनीभूतं संपद्यते सा आमिक्षा इत्युच्यते । अवशिष्टं द्रवात्मकं वाजिनमित्युच्यते । चतुर्ष्वपि पर्वस्वग्निमन्थनं विद्यते । प्रथमजो वत्सः वैश्वदेवस्य दक्षिणा ।

आषाढ्यां पौर्णमास्यां श्रावण्यां वा वरुणप्रघासैर्यजेत । अस्मिन्पर्वण्यग्न्यादिभिः पञ्चभिः सञ्चरदेवताभिस्सह इन्द्राग्नी मरुतः वरुण कः इति प्रधानदेवताः । अस्मिन्पर्वण्यग्रेण गार्हपत्यमाहवनीयद्वयं विद्यते । उत्तरतोऽध्वर्योर्दक्षिणतः प्रतिप्रस्थातुः । अस्मिन्पर्वणि पत्नीयजमानाभ्यां करम्भपात्राणां हवनं क्रियते । भ्रष्टयवानां पिष्टं करम्भ इत्युच्यते । अन्ते नद्यादौ जलेऽवभृथेष्टिः क्रियते ॥

ततश्चतुर्षु मासेषु पूर्वस्मिन् पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजेत । प्रथमदिने अनीकवतेष्टिः, सान्तपनेष्टिः, गृहमेधीयेष्टिः इतीष्टित्रयं भवति । द्वितीयदिन उषसि इन्द्राय पूर्णादर्विहोमः, ततः क्रीडिनेष्टिः, अष्टदेवतात्मिका महाहविर्नामिकेष्टिः, महापितृयज्ञः, त्र्यम्बकेष्टिः, आदित्येष्टिः इत्येता इष्टयो भवन्ति । चातुर्मास्येषु साकमेध एव बृहत् पर्व ।

ततश्चतुर्षु मासेषु फाल्गुन्यां चतुर्दश्यां चैत्र्यां वा शुनासीरीयेण यजेत । अस्मिन्पर्वणि दशनां देवतानां यागो भवति । चतुर्दश्यां शुनासीरीयं समाप्य पुनः वैश्वदेवपर्व प्रक्रमेत । प्रतिपर्वणोऽन्ते मन्त्रेण यजमानस्य वपनं भवति । यदा त्वनुष्ठायोत्सिसृक्षति तदा शुनासीरीयस्य यजनकालविकल्पा भवन्ति । चातुर्मास्यानामन्ते सोमेन पशुना वा यजेत । सूत्रान्तरेषु द्वादशाहे पञ्चाहे च चातुर्मास्यानामनुष्ठानमुक्तम् । ऐष्टिकचातुर्मास्यपर्यन्तं हविष्ट्वेन पशुविनियोगो न भवति ।

पशुबन्धः

यस्मिन्पर्वणि यज्ञार्थं पशुर्बध्यते स पशुबन्धः । पशुबन्धे पशुरेव प्रधानं हविः । इन्द्राग्नी पशुदेवता । पशुबन्धे त्रीणि प्रदानानि भवन्ति वपा, पुरोडाशः, पशोरङ्गानीति । अमावास्यायां पौर्णमास्यां वा पशुबन्धेन यजेत । पशुबन्धः नित्यं कर्म । तेन संवत्सरे संवत्सरे यजेत षट्सु षट्सु मासेष्वित्येके (आप.श्रौ.सू.७-२८-६) इति सूत्रकारेण प्रतिसंवत्सरं कर्तव्यतया विहितत्वात् । षडृत्विजः पाशुकं कर्म निर्वहन्ति । प्रथमं षड्ढोतृहोमः, तत आग्नावैष्णवेष्टिः, यूपकर्म, वेदिकरणम्, उत्तरवेद्यामग्निप्रतिष्ठापनम्, बर्हिराहरणादि दार्शिकं तन्त्रम्, यूपसंस्काराः, पशोरुपाकरणादीनां संस्काराः, प्रयाजाः, पशोः संज्ञपनम्, वपायागः, पुरोडाशयागः, पशुहविर्यागः, अनूयाजाः, उपयड्ढोमः, पत्नीसंयाजाद्युत्तरं तन्त्रमित्यादीनि कर्माणि तत्र भवन्ति । पशुबन्धः दिनद्वयसाध्यं कर्म । एकेनाह्नाप्यनुष्ठातुं शक्यते । पशुबन्धस्य वरो दक्षिणा । गौर्धेनुरनड्वान्पष्ठौही वा वरशब्देनोच्यन्ते । तेषु उत्तरोत्तरदानेन फलोत्कर्षः॥

अग्निष्टोमः

अग्निः प्रजापतेः साक्षात् सञ्जातः प्रथमो देवः । तथा ब्राह्मणोऽपि प्रजापतेर्मुखादेव जज्ञे । तस्मादेकयोनित्वाज्ज्येष्ठेनेवानुजोऽनुगृह्यते अग्निना ब्राह्मणः । तस्माद्ब्राह्मणोऽग्निदैवत्यः । सर्वा आहुतय अग्निद्वारेणैव देवानपियन्ति । सोऽयमग्निः विश्वात्मत्वात् वैश्वानरः, सकलसंपदधिपतित्वाज्जातवेदाः । एष एव सर्वज्ञः, सर्वेष्वनुप्रविष्टः । अग्निरेव प्रयाजानूयाजदेवतारूपेणानेकधा वर्तमानः । स एव सर्वेषां हविषां प्रथमभागी । अग्निसंबद्धं कर्म कृत्वैव देवेषु कर्मफलमिच्छन्ति । तदर्थमेव हि स प्रजापतिः कर्माधिकरणत्वेनाग्निरूपेण व्यवस्थितः । तस्मादस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्ते । अग्निपूर्वकमेव प्रजापतिः प्रजा असृजत । अग्नौ प्रक्षिप्ता आहुतय एव शक्तिरूपास्सत्यः जगतः सर्वाः क्रिया निर्वर्तयन्ति । रसो वै सः (तै.उ २-७) इति श्रुतेः परमात्मा सर्वस्य आनन्दहेतुः । स एव सोमरूपेण ओषधीः प्रविश्य तास्सर्वाः पुष्णाति । तथा हि गीतासु स्वयमाह वेदात्मा भगवान् पुष्णामि चौषधीस्सर्वाः सोमो भूत्वा रसात्मकः (गी. १५-१३) इति । एवमोषधिरूपेणान्नरूपेण चन्द्ररूपेण च रसात्मकस्सोमः जगद्व्याप्नोत्याह्लादयति च । स एव सोमः स्वादिष्ठः, मोदकारी, सर्वेषां पापानां पवयिता, रक्षोहा, महिमावत्तमः । स एव अन्नं, जलं, बलं, आयुः, कान्तिं, धनमारोग्यं च प्रयच्छति । यदि लोकः एतत्सर्वं प्राप्नुयात् तर्हि सोमेन रसेन यज्ञहुतेनैव पीतेन तत्सर्वं प्राप्नोति । तथा हि श्रुतिः अपामसोमममृता अभूमादर्श्म ज्योतिरविदाम देवान् । किमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य (तै.सं३-२-५) ॥ सोमो हि वृषा प्रजाकामस्य रेतोधाः प्रजाः प्रजनयति । सोमपा ब्राह्मणा आहुः सोमराजानो वयमिति । यदि ब्राह्मणोऽसोमपस्स्यात् दुर्ब्राह्मणस्स्यात् । स एव सोमो देवः सोमलतारूपेण पृथिव्यां विराजते । तां सोमलतां सोमयागेऽभिषुत्येन्द्रादिभ्यो हुत्वा तांस्तोषयन्ति ।

कृत्स्नोऽयं प्रपञ्चोऽग्नीषोमात्मकः । अन्नरूपस्सोमोऽन्नादरूपोऽग्निश्च सम्भूय बलरूपमिन्द्रं जनयतः । सकलप्राणशक्तिरूपा देवता महेन्द्रः । स एव सोमयागस्य प्रधानदेवता । सोमरसेन यथाशास्त्रमग्नौ हूयमानेन तृप्तो इन्द्रस्त्रिभ्यो लोकेभ्यो क्षेमं सुवृष्टिं सत्प्रजां बलं कीर्तिमारोग्यं च प्रयच्छति । तथा च श्रुतिः सौम्या खलु वा आहुतिर्दिवो वृष्टिं च्यावयति (तै.सं.२-४-१०) इति । यज्ञमयभूतेनाग्नीषोमीय-रूपेणानवरतक्रियाप्रवाहरूपं कृत्स्नमिदं जगत् व्याप्तम् । तस्मात् सर्वत्र सर्वाभिः क्रियाभिर्यज्ञः संपादनीयः, यज्ञभावनैव कर्तव्या ॥

यदिदं जगति अन्नमद्यते सर्वैः प्राणिभिस्तदा प्रत्येकस्मिन् प्राणिनि अन्नरूपस्सोमोऽन्नादरूपेऽग्नौ हूयमानेन शक्तिरूपो इन्द्रो जायते । तत्प्रतीकत्वेनैवाधिदैविके सोमयज्ञे सोमलतात्मक आज्यतृणव्रीहिपयोदधिमांसाद्यन्नरूपः सोम आहवनीयादिष्वग्निषु बलात्मकाय इन्द्राय हूयते । एवं जगतः परिपालयितारमिन्द्रं सोमयागेनान्नान्नादात्मभूताभ्यामग्नीषोमाभ्यां तोषयन् यज्ञकर्ता यजमान इत्थंभूतं जगदनवरतमनुवर्तयति । अयं यज्ञः सकलजगतः स्थितिकारणं सत् सकलकामप्राप्तिसाधनं च भवति ।

य एवं विद्वानग्निष्टोमेन यजते प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति तस्मादाहुर्ज्येष्ठयज्ञ इति (तै.सं.७-१-१) इति श्रुतेः अग्निष्टोमस्सोमयागः सोमसंस्थासु प्रथममनुष्ठेयं कर्म । स च यज्ञायज्ञियाख्येन अग्निष्टोमसाम्ना समाप्यमानत्वादग्निष्टोमसंज्ञितः । त्रिवृत्पञ्चदशसप्तदशैकविंशाख्याश्चत्वारो स्तोमाः ज्योतींषीत्युच्यन्ते । ज्योतींषि स्तोमाः यस्य यागस्य स ज्योतिष्टोमः । स चाग्निष्टोमस्सोमो ज्योतिष्टोमेन विशिष्टत्वात् ज्योतिष्टोमोऽग्निष्टोमस्सोम इति व्यवह्रियते ।

वसन्ते वसन्ते ज्योतिष्टोमेन यजेत इति श्रुतेरस्य कर्मणः नित्यरूपेणानुष्ठानं विहितम् । महर्षिणापस्तम्बेनापि अग्नीनाधाय कर्माण्यारभते सोमावरार्ध्यानि यानि श्रूयन्ते (आप.धर्म=२) इति नित्यत्वमुक्तम् । महर्षिणा गौतमेन स्मृतेषु चत्वारिंशत् संस्कारेष्वग्निष्टोमोऽपि पठितः । न चासौ दर्शपूर्णमासावनिष्ट्वाऽऽहर्तव्य इति प्राय ऋषीणां मर्यादा । क्वचित् प्रागपि दर्शपूर्णमासाभ्याम्, क्वचिदग्नीनाधाय प्रागप्यग्निहोत्रात् सोमयागोऽनुमतः । अयं च ज्योतिष्टोमोऽग्निष्टोमः सर्वसोमयागप्रकृतिभूतः । अस्मिन् यागे सोमरसः प्रधानं हविः । सोमो नाम लताविशेषः । ता लता अभिषुत्य सोमरसं निष्पादयन्ति । तस्य रसस्याग्नौ हूयमानत्वादिदं कर्म सोमयाग इत्युच्यते । अत्र आज्यपुरोडाशपयोदधिपश्वादीन्यपि हवींषि भवन्ति ॥

चतुर्भिरपि वेदमन्त्रैरनुष्ठीयमानेऽस्मिन् यागे षोडशर्त्विजो भवन्ति । ते च गणचतुष्टयेन विभक्ताः । प्रत्येकस्मिन् गणे चत्वारो भवन्ति । ते च इत्थम् =

  • १. अध्वर्युगणः = अध्वर्युः, प्रतिप्रस्थाता, नेष्टा, उन्नेता ॥
  • २. होतृगणः = होता, मैत्रावरुणः, अच्छावाकः, ग्रावस्तुत् ॥
  • ३. उद्गातृगणः = उद्गाता, प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यः ॥
  • ४. ब्रह्मगणः = ब्रह्मा, ब्राह्मणाच्छंसी, आग्नीध्रः, पोता ॥

अध्वर्युगणो याजुर्वेदिके कर्मणि नियुक्तः । होतृगणो बाह्वृच्ये (ऋग्वेदस्य) कर्मणि नियुक्तः । उद्गातृगणः सामवेदकर्मणि नियुक्तः । होतृगणेनोच्यमानयाज्यापुरोनुवाक्याभिरध्वर्युगणो यागं निर्वर्तयति । तथैव होतृगणः शस्त्राख्या देवतास्तुतीः शंसति । उद्गातृगणः स्तोत्राख्यसामगीतिभिर्देवतास्तोषयति । सर्ववेदज्ञः सर्वर्त्विक्कर्मज्ञो ब्रह्मा विहारस्य यजमानस्य च दक्षिणतः स्थित्वा कृत्स्नं यज्ञं गोपायति । स च मनसा एव ध्यानेन यज्ञं संस्करोति । ब्रह्मगणस्यावशिष्टास्त्रय ऋत्विजो होतृगणेन सह देवतास्तुतीः शंसन्ति । तत्र चाग्नीध्रस्त्वध्वर्योः साहाय्यत्वेनापि कर्माण्यनुतिष्ठति । सदस्य इति सप्तदश ऋत्विगपि क्वचित् विकल्पेन भवति । स कर्मणामुपद्रष्टा भवति ।

सोऽयं सोमयाग एकाहदीक्षापक्षे पञ्चदिनात्मको भवति । कदाचित् दैवान्मानुषाद्वा विलम्बादुत्कर्षेत् । तत्र प्रथमेऽहनि सोमप्रवाकद्वारा ऋत्विग्वरणं तेषां मधुपर्केणार्हणं च भवतः । अपराह्णे दीक्षणीयेष्टिः, यजमानस्य पत्न्याश्च दीक्षासंस्काराश्च भवन्ति । रात्रौ पत्नीयजमानौ पयो व्रतयतः । ततो यजमानः सनीहारान् प्रेषयति । सनिः याञ्चालभ्यं धनम् । तद्य आहरन्ति ते सनीहाराः । दीक्षाप्रभृति आ संस्थायाः दीक्षितौ पत्नीयजमानौ पयोव्रतिनौ हविश्शेषभोजिनौ स्याताम् । न पुरावभृथादपोऽभ्यवेयाताम् । यावद्यज्ञं यजमानो नाग्निहोत्रं जुहुयात्, न दर्शपूर्णमासाभ्यां यजेत । कृष्णविषाणया कण्डूयेत, अपिगृह्य स्मयेत । न दद्यान्नपचेन्नामेध्यं पश्येत् । मधु मांसं स्त्रियमनृतमुपरिशय्यां ष्ठीवनं विकाले निष्क्रमणं दीक्षितविमितात्प्रवासमिति वर्जयेत् । इत्यादिनियमा भवन्ति ॥

द्वितीयेऽह्नि प्रायणीयेष्टिः, सोमक्रयः, आतिथ्येष्टिः, प्रवर्ग्यसंभरणम्, पौर्वाह्णिकौ प्रवर्ग्योपसदौ, आपराह्णिकौ प्रवर्ग्योपसदावित्येतान्यङ्गकर्माणि भवन्ति । तत्र गोऽजहिरण्यधेनुवत्सवत्सतरानडुद्गोमिथुनवासोभिर्दशभिर्द्रव्यैः सोमविक्रयिणः सोमं क्रीणाति । ततः सोमं शकटेन यागशालामानीय आसन्द्यां प्रतिष्ठाप्य आतिथ्येष्टिं कुर्वन्ति । प्रवर्ग्यो यज्ञपुरुषस्य शिरस्स्थानीयः, उपसदः ग्रीवा । अग्नीषोमीयसवनीयदिनेष्वनुष्ठीयमानानि कर्माण्यन्येऽवयवाः । एवं समस्तयज्ञकर्मभिः पादादिमस्तकान्तं यज्ञपुरुषं मूर्तिरूपेण भावयित्वाराधयन्ति । एतद्दिनप्रभृति सुत्याहप्रातःपर्यन्तं प्रत्यहं प्रातः सायं च सुब्रह्मण्याह्वानं भवति । सुब्रह्मण्यो नाम इन्द्रः । सुब्रह्मण्याख्य ऋत्विक् स्तुतिभिरिन्द्रं यज्ञार्थमाह्वयति ॥

तृतीयेऽह्नि प्रातः सायं च प्रवर्ग्योपसदौ, महावेदिनिर्माणं च भवति । यस्यां वेद्यां सोमेन इज्यते सा महावेदिः । महावेद्यां यत्राग्निर्निधीयते सा उत्तरवेदिः । महावेद्युत्तरवेद्योश्च निर्माणं शुल्बसूत्रोक्तप्रकारेण भवति ।

चतुर्थेऽह्नि प्रातरेव पौर्वाह्णिक्यावापराह्णिकयौ च प्रवर्ग्योपसदौ भवतः । तत उत्तरवेद्यां प्रवर्ग्योद्वासनम्, अग्निप्रणयनम्, सदोहविर्धानादिशालानिर्माणम्, अग्नीषोमीयपशुयागः,(अत्र सर्वत्र पशुरित्यजः) वसतीवरीग्रहणम्, रात्रौ वसतीवरी परिहरणम्, उत्तरस्मा अह्ने पयस्यार्थं सायंदोहस्य दोहनम्, अन्येषां च हविर्भूतानां पयसां दोहनम्, इध्माबर्हिराहरणमित्येतान्यङ्गकर्माणि भवन्ति । अस्मिन्दिनेऽग्नीषोमीयपशुयाग एव मुख्यं कर्म । पुरा इन्द्रोऽग्नीषोमाभ्यां वृत्रम् (अशनायां) अहन् । यजमानो दीक्षया सर्वदेवतार्थं स्वात्मानमेव समर्पयति । अग्निराहुत्यधिकरणत्वेन सोमश्च होमद्रव्यत्वेन सर्वोपकारित्वात् तावुभौ सर्वदेवतात्मकौ । अग्नीषोमीयपश्वालम्भनेन यजमानः स्वात्मानमेव सर्वाभ्यो देवताभ्यो निष्क्रीणाति वार्त्रघ्नश्च भवति । अर्थात् सर्वेषां अशनायापीडां (बुभुक्षापीडां) निवारयति, अन्नसमृद्धिं प्राप्नोति ॥

इदमेव पञ्चममहः सोमयागस्य प्रधानं दिनं यत्सुत्याह इत्याचक्षते सोमस्याभिषूयमाणत्वात् । चतुर्थदिनस्य रात्र्यां चतुर्थे यामे एव सुत्यमहः प्रक्रमयन्ति । सुत्येऽहनि प्रातस्सवनमाध्यन्दिनसवनतृतीयसवनमिति भागत्रयं भवति । अर्थात् तस्मिन्नह्नि सोमो त्रिरभिषूयते । प्रातस्सवनं प्रातरनुवाकेन प्रारभ्यते । अध्वर्युणा प्रेषितेन होत्रा ‘अग्निरुषा अश्विनौ’ इत्येता देवता उद्दिश्य शस्यमानमन्त्राः प्रातरनुवाकः । पुरा मनुष्याणां वयसां वा वाचःप्रवदनात् प्रातरनुवाकं प्रक्रमयति । ततोऽध्वर्युगणः सोममभिषुणोति । सोमरसोऽभिषुत्य प्रपीड्य निष्पाद्यते । तं रसं निर्दिष्टयाज्ञिकवृक्षैर्निर्मितेषु ग्रहाख्येषु पात्रेषु इन्द्रवाय्वादिदेवाता उद्दिश्य गृह्णन्ति । एतेभ्यो ग्रहपात्रेभ्योऽन्ये चमसाख्यानि दश पात्राणि भवन्ति यैरपि सोमोऽग्नौ हूयते । प्रत्येकस्मिन् सवने सवनीयहविर्यागो भवति । प्रातस्सवने धानाः, करम्भः, परिवापः, पुरोडाशः, पयस्या इत्येतानि पञ्च हवींषि भवन्ति । तेषां हविषां क्रमेण इन्द्रो हरिवान्, इन्द्रः पूषण्वान्, सरस्वती भारती, इन्द्रः, मित्रावरुणौ इति देवताः । उत्तरयोस्सवनयोः पयस्यावर्जं चत्वारि हवींषि भवन्ति । एवं नानादेवत्यैः हविर्भिरिन्द्रमेव यजन्ते । प्रातस्सवने सवनीयपशोर्वपायागो भवति । अग्निः सवनीयपशोर्देवता । सवनीयपशोर्यागानन्तरं ग्रहैश्चमसैश्च सोमरसस्य यागो भवति । तत ऋत्विजो यजमानश्च हुतशिष्टं सोमं भक्षयन्ति । अस्मिन्त्सवने बहिष्पवमानादयः पञ्च स्तोत्राणि, आज्यादयः पञ शस्त्राणि भवन्ति । प्रतिसवनान्ते सवनप्रायश्चित्तानि भवन्ति । माध्यन्दिनसवनं तु सोमाभिषवेनैवारभ्यते । सोमसम्बन्धीनि कर्माणि प्रातस्सवनवदेवात्रापि भवन्ति । अत्र पशुपुरोडाशयागो भवति । अस्मिन्नपि सवने माध्यन्दिनपवमानादीनि पञ्च स्तोत्राणि, मरुत्वतीयादीनि पञ्च शस्त्राणि भवन्ति । अस्मिन्त्सवने मरुत्वतीयशस्त्रात् प्राक् सर्वेभ्योऽप्यृत्विग्भ्यो यज्ञदक्षिणा दीयते । तृतीयसवनं तु आदित्यग्रहहोमेन प्रारभ्यते । ततः सोमाभिषवादीनि कर्माणि प्रातस्सवनवदेव भवन्ति । प्रातस्सवनमाध्यन्दिनसवनयोरभिषुतस्य सोमस्य य ऋजीषः स एवास्मि-न्त्सवनेऽभिषूयते । एवमृजीषान्निष्पीडितसोमरसे पत्न्या मथितं दधि दम्पतीभ्यामवनीयते । एवं संस्कृतरसोऽ-स्मिन्त्सवने हूयते । सवनीयपशोरङ्गानां यागोऽस्मिन्त्सवने भवति । अस्मिन्त्सवनेऽग्निष्टोमे विहितेषु द्वादश स्तोत्रशस्त्रेष्ववशिष्टस्तोत्रशस्त्रद्वयं भवति । तृतीयसवनान्ते समिष्टयजुराख्या पूर्णाहुतिर्हूयते ॥

अथावभृथः

पत्नीयजमानौ सर्व ऋत्विजः सर्वे प्रेक्षकाः सर्वान्त्सोमलिप्तान्त्सम्भारानभुषुतसोमलताश्चादाय नद्यादितीर्थमवभृथेष्ट्यर्थं गच्छन्ति । अवभृथेष्ट्या वारुणमेककपालं हविः । जल एवेष्टिः क्रियते । इष्ट्यनन्तरं सर्वान्त्सोमयागसम्भारान्त्सोमलताः पत्नीयजमानयोर्दीक्षावासांसीत्यादि जले विसृजन्ति । ततः पत्नीयजमानौ, ऋत्विजः, श्रद्धालवः प्रेक्षकाश्चावभृथस्नानं कुर्वन्ति । एतत्स्नानमतीव पुण्यप्रदम् । पत्नीयजमानौ नूतनवस्त्राणि परिधत्तः । यागशालां प्रत्यागत्य उदयनीयेष्ट्या यजन्ते । प्रायणीयस्य चरुनिष्कासे एव उदयनीयस्य हविर्निरुप्यते । प्रायणीयस्य देवता एवात्रापि देवताः । ततो मित्रावरुणाभ्यामामिक्षायागोऽनुष्ठीयते । तेन सहाज्येन देविकायागः क्रियते । धाता, अनुमतिः, राका, सिनीवाली, कुहूः च देविका इत्याचक्षते । ततो गार्हपत्याग्निमरण्योरात्मनि वा समारोप्य यागशालायाः प्रागुदग्वा गत्वा विहारं कल्पयित्वा उदवसानीयेष्ट्या यजन्ते । अत्र अग्निष्टोमः सन्तिष्ठते ॥

वरुणप्रघासविहारविषयः

वरुणप्रघासविहारविषये किञ्चिदत्र प्रस्तूयते । अस्माकं गुरूणां प्रयोगपाठे उत्तरा वेदिः ७२ अङ्गुलाः पश्चात्तिर्यक् , ९६ अङ्गुलाः प्राची, ५४ अङ्गुलाः पुरस्तात्तिर्यक् इत्यस्ति । दक्षिणा वेदिस्तु ५४ अङ्गुलाः पश्चात्तिर्यक् , ९६अङ्गुलाः प्राची, ३६ अङ्गुलाः पुरस्तात्तिर्यक् इत्यस्ति । अस्मद्ग्रामीणप्रयोगपाठे तु वेदिद्वयस्य श्रोण्यंसौ विस्तारायामतः समम् इत्युक्तम् । वेदिमानं एवमस्ति ४८ अङ्गुलाः पश्चत्पुरस्ताच्च तिर्यक् , ३६अङ्गुलाः प्राची, एवमेव द्राविडप्रयोगोऽपि विद्यते । प्रयोगपाठेषु वैविध्यस्य कारणं नैव अवगच्छामः । अपि च एतेषां मूलभूतशुल्बसूत्रमपि नैव लभेमहि ॥

प्रायश्चित्तपशुविषयः

प्रथमसोम एवं हि संकल्पयन्ति “ त्रिपुरुषसोमपीथविच्छेदनसन्धानार्थमैन्द्राग्नं पशुं दौर्ब्राह्मण्यनिर्हरणार्थ-माश्विनं पशुमग्नीषोमीयेन पशुना सहोपालम्भ्यौ कुर्वन् सोमेन यक्ष्ये ” इति । कोऽयं विच्छिन्नसोमपीथो नाम । एवं हि श्रूयते ऐन्द्राग्नं पुनरुत्सृष्टमालभेत य आ तृतीयात्पुरुषात्सोमं न पिबेद्विच्छिन्नो वा एतस्य सोमपीथः (तै सं २-१-५) इति । यस्य पित्रादयः त्रयःपुरुषाः सोमं न पीतवन्तः स विच्छिन्नसोमपीथ इत्युच्यते । सः सोमपीथार्थी ऐन्द्राग्नं पुनरुत्सृष्टमालभेत इति वाक्यार्थः । अत्र व्याख्यायां भट्टभास्करेण “ आतृतीयादिति - अभिविधौ आकार इत्येके, तृतीयमपि गृहीत्वा इत्यन्ये । सोमपीथः सोमपानम् ” इत्युक्तम् । सायणाचार्यैरस्यैव व्याख्यावसरे “ स्वात्मानमारभ्य तृतीयः पुरुषः पितामहः पिता स्वयं च यदा सोमं न पिबेयुः तदानीमस्य सोमपानं विच्छिन्नम्, स एतं पशुमालभेत ” इत्युक्तम् । सायणाचार्यमतं रुद्रदत्तेन सयुक्तिकं खण्डितम् । रुद्रदत्तपक्ष एव साधीयान् । कात्यायनमतेन तु द्विपुरुषविच्छेदेऽपि प्रायश्चित्तमिष्यते । यथाह - “ वसन्तेऽग्निष्टोमः । ऐन्द्राग्नं पुनरुत्सृष्टमालभ्य द्विपुरुषास्सोमपीथिनः ”( कात्या.सू ७-१-४,५) इति ।

अथ पुनरुत्सृष्टशब्दार्थः मीमांस्यते । “ कः पुनरुत्सृष्ट इति । अवशीर्णगव एवैष उक्तो भवति ” इति बौधायनः (बौ.सू २४-१८) । सायणाचार्यैस्तु पुनरुत्सृष्टोऽनड्वान् (तै सं १-५-२) इति पुनराधेयप्रकरणे ेश्रुतस्य “दौर्बल्येन भारं वोढुमशक्ततया परित्यक्तस्सन् केनचित्पोषणेन पुनश्शक्तीकृतः पुनरुत्सृष्टः ” इति व्याख्यातम् । ऐन्द्राग्नं पुनरुत्सृष्टमालभेत (तै सं २-१-५) इत्यत्र “ गालितवृषणो बलीवर्द उत्सृष्ट इत्युच्यते । स एव ततो जीर्णः लाङ्गलवहनादेर्मुक्तः पुनरुत्सृष्ट ” इति व्याख्यातम् । एवं विरुद्धव्याख्यानस्य किं कारणमिति विद्वद्भिरेव विमर्शनीयम् । भट्टभास्करभाष्ये “ पुनरुत्सृष्टः जीर्णो गालितवृषणः पुङ्गवः । महर्षभार्थम् गोषु मुक्त इत्येके ” इति । बौधायनकर्मान्तस्य भवस्वामिभाष्ये “ पुनरुत्सृष्ट इत्यस्य पुनर्गृहीतो दुर्बलः” (बौ सू भवस्वामिभाष्यम् २४-१८) इति व्याख्यातम् । कात्यायनसूत्रयाज्ञिकदेवकृतव्याख्यायां “ पूर्वं वाहितः दौर्बल्याच्चोत्सृष्टः, पुनरपि सबलो जातः पुनरपि वाहितः पुनश्च दौर्बल्यात् यः उत्सृष्टः सः पुनरुत्सृष्ट इत्युच्यते । स च पुनरुत्सृष्टः छाग एव, न सामर्थ्यात् गौः । कुतः? प्रत्यनुग्रहात्, छागस्यापि हिमवत्प्रदेशे वाह्यमानस्य पुनरुत्सृष्टत्वसम्भवात् ”(कात्य सू ७-१-५) इत्युक्तम् । आपस्तम्बसूत्रकपर्दिभाष्ये “ ऋषभार्थं गोषु मुक्तोऽजात्यो वाहेयमिति पुनरानीयोत्सृष्ट इति उत्सृष्टाग्निना एवेत्येके ” (आप सू १९-१६-१६) इति व्याख्यातम् । रुद्रदत्तवृत्तौ “ कः पुनरुत्सृष्ट इति प्रश्नमुत्थाप्य छागः पुनरुत्सृष्ट ” इति भारद्वाजसूत्रमुदाहृतम् । आपस्तम्बसूत्रे तु पुनरुत्सृष्टगुणकत्वं गोजातेर्व्याख्याता । एवं पुनरुत्सृष्टशब्दार्थनिर्णये ऐकमत्याभावात् यं कञ्चनार्थमादायानुष्ठातुं शक्यते ॥ अस्माकं तु मतेन पुनराधेयप्रकरणस्थसायणव्याख्यानमेव समीचीनमित्याभाति । स अनड्वान् वा छागो वा भवतु , उभयथापि सूत्रकारैर्व्याख्यातत्वात् ॥

आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणस्सोमं पिपासेत् (तै सं २-१-१०) इति दौर्ब्राह्मण्यनिर्हरणार्थं य आश्विनः पशुः श्रुत्या विहितः तत्र सन्दिह्यते कोऽसौ दुर्ब्राह्मण इति । तमाह बौधायनः यस्य वेदश्च वेदी च उभौ विच्छिद्येते त्रिपूरुषं । स वै दुर्ब्राह्मणो नाम, यश्च पौनर्भवो भवेत् इति । (चतुर्थपादस्य बहूनि पाठान्तराणि सन्ति । यश्चैववृषलीपतिः इत्येकम्, न सोमं पातुमर्हतीत्यन्यमित्येवम्, ) तत्र वेदश्च वेदी चेति चकाराभ्यां समुच्चयस्य स्पष्टमवगमादुभयविच्छेद एव भवत्याश्विनो नान्यतरस्य विच्छेदे इति । भारद्वाजस्त्वाह “ विलुप्तसावित्रीको दुर्ब्राह्मण ” इति । विलुप्तसावित्रीकपक्षे तु त्रिपुरुषमुभयाविच्छेदेऽपि भवत्येव आश्विनः । ऐन्द्राग्नस्तु नेष्यते निमित्ताभावात् । “ गायत्रीमात्रसारोऽपि नासौ दुर्ब्राह्मणः स्मृतः ” इत्यपि स्मृतिवचनं भवति । तस्मिन्स्तु पक्षे त्रिपुरुषमुभयविच्छेदेऽपि न भवत्याश्विनः ॥