अथाग्निविमानम् - अपरिष्कृतम्

पूर्वोक्तपुरुषचतुर्थ सार्धतिलोन एकादशाङ्गुलात्मकं प्रक्रमं कृत्वा तेनाग्निं विमिमीयात् । पूर्वनिहित द्वाविंशति शङ्कुषु षोडशशङ्कोः पुरतः एकादशशङ्कून्निहन्यात् । तत्र क्रमः षोडश द्वह्निभूचन्द्र शशिच्न्द्रैक भूमिषु चन्द्रैक शशिचन्द्रेषु हन्याच्छङ्कर शङ्कवः । एवं निहत्य पञ्चविंशति प्रक्रमात्मिकामेकां रज्जुमुभयतः पाशां कृत्वा तस्यां द्वादश प्रक्रमे (तायां) कर्षणार्थं चिह्नं कुर्यात् । अस्यां द्वादशिका तिर्यग्रज्जुः त्रयोदशिका अक्ष्णयारज्जुः । अस्याः पञ्चविंशतिकेति संज्ञा । अन्यां पञ्च प्रक्रमपरिमितामुभयतः पाशां कुर्य्यात् । अस्याः पञ्चिकेति संज्ञा । विमानकाले अभिमत शङ्कुषु पञ्चविंशतिकापाशयोर्मध्ये एवैषा यथा भवेत् तथा कृत्वा विमिमीयात् । षोडश शङ्कुमारभ्य प्रथमादिव्यवहारः । अथ विमानम् । षोडश शङ्कौ पञ्चिकाया एकं पाशं प्रतिमुच्य, अन्यं यत्र समं भवति तत्र प्रतिमुच्य एतयोः एवं शङ्क्वोः पञ्चविंशतिका पाशौ प्रतिमुच्य द्वादशिकां तिर्यक् कृत्वा दक्षिणतोलक्षणेनापायम्य चतृषु प्रक्रमेषु शङ्कुः । एवमुत्तरतः । इदं पुच्छाग्रम् । एवमग्रेऽपि विमानक्रमो ज्ञेयः । द्वितीयशंङ्कोर्दक्षिणतः प्रक्रमे शङ्कुः । एवमुत्तरतः । एषः प्रथमः पुच्छाप्ययः । चतुर्थशङ्कोः दक्षिणतः प्रक्रमत्रये शङ्कुः । एवमुत्तरतः । एषोऽपरः पुच्छाप्ययः । एवं च अग्रे अष्टप्रक्रमविस्तारो मध्ये द्विप्रक्रमविस्तारो मूले षट्प्रक्रमविस्तारो भवति । पञ्चप्रक्रमायामश्च पुच्छः अस्मादेवशङ्कोर्दक्षिणतः पञ्चविंशतितिलसहित द्व्यंङ्गुलाधिक सप्तप्रक्रमे शङ्कुः । एष पक्षायामः । अस्माच्छाङ्कोः दक्षिणतः एकप्रक्रमे शङ्कुः । इदं पक्षाग्रम् । एवमुत्तरतः शङ्कुत्रयं एवं पञ्चमादित्रिभ्यः शङ्कुभ्यो दक्षिणतः उत्तरतश्च शङ्कुत्रयम् । अनन्तरमष्टमशङ्कौ पाशौ विपर्यस्य दक्षिणतः उत्तरतश्च शङ्कुत्रयम् । एवं कृते सार्धपुरुषोदगायामः पुरुषविस्तार आत्मा चतुर्दशतिलाधिक एकोनाशीत्यङ्गुल उदगायामौ पुरुषमात्रविस्तारौ पक्षौ पुरुषमात्रप्रागायमे प्रक्रमविस्तार पक्षाग्रे च भवन्ति । ततो दशम शङ्कोर्दक्षिणतः प्रक्रमे शङ्कुः । एवमुत्तरतः । एवमेकादशशङ्कोर्दक्षिणतः उत्तरतश्च प्रक्रमे शङ्कुः । इदं शिरस्स्थानम् । एवं कृते शिरसि प्रक्रमात्मिकानि चत्वारि चतुरश्राणि भवन्ति । तत्र अग्रिमचतुरस्रद्वये दक्षचतुरस्रे ईशानकोणमारभ्य निर्ऋतिकोणपर्यन्तं लेखामालिख्य अक्ष्णया भागद्वयं कृत्वा आग्नेयभागं त्यजेत् । उत्तरतचतुरस्रे आग्नेयकोणमारभ्य वायव्यकोणपर्यन्तं लेखामालिख्य ईशानभागं त्यजेत् । पक्षाग्रयोरपि चत्वारि चत्वारि प्रक्रमात्मकचतुरस्राणि कृत्वा दक्षपक्षचतुरस्रेषु शिरोग्रस्थ दक्षचतुरस्रवत् आग्नेयभाग त्यागः । उत्तरत पक्षाग्रचतुरस्रेषु शिरोग्रस्थोत्तरचतुरस्रवत् ईशानभागत्यागः । अथ पक्षसन्नमनम् । अष्टप्रक्रमपरिमितामेकां रज्जुमुभयतः पाशां कृत्वा तस्यां कर्षणार्थं मध्ये चिह्नं कृत्वा दक्षपक्षायाम पश्चिमप्रान्त शंङ्क्वोः पाशौ प्रतिमुच्य लक्षणेन पूर्वतः कर्षयेत् । चिह्नं यत्र पतति तत्र शङ्कुं निहन्यात् । एवं दक्षपक्षायाम पूर्वप्रान्तशङ्क्वोः पाशौ प्रतिमुच्य पूर्वदाकृष्य चिुह्नं यत्र पतति त्तत्र शङ्कुं निहन्यात् । एवं कृते पक्षं पूर्वो अतः पश्चिम निनतो भवति । एवमुत्तर पक्षस्यापि विमानम् । ततः सर्वतः स्पन्द्ययावेष्टयेत् इति श्येन विहारः ।

द्विषाहस्र कारिक काशि

द्विषाहस्रे परश्श्येने वक्ष्ये मन्त्रो परिक्रमम् ।

साहस्रवदपस्यान्तं कुम्भां कुम्भी स ततः क्षिपेत् ॥ १ ॥

अनुसीतं प्रदेशं चतस्रो मध्यगा इति ।

बार्हस्पत्यस्य चरो — पक्षर्षो विधीयते ॥ २ ॥

ऋषीष्टका यथा पूर्वं शिष्टालोकं पृणास्मृताः ।

तूष्णीं पुरीषमध्यूह्य तूष्णीमेवावरुह्य च ॥ ३ ॥

परस्मिन् प्रस्तारे प्राणापानभृतान्निधिः ।

षष्ठरीत्यामन्तिमे द्वे पञ्चम्यां पञ्चपूर्वतः ॥ ४ ॥

तिस्रश्चतुर्थरीत्याश्च पूर्वाः प्राणभृतो दश ।

—-योगमक्ष्णया चोपधीयते ॥ ५ ॥

तृतीयाद्या तथा पुच्छे तृतीयाद्ये ततः पराः ।

तिस्रश्चतस्र आद्यायां पश्चिमा प्राणभृद्दश ॥ ६ ॥

चतस्रोर्ध्या आदिमायां चतस्रोर्ध्या तदुत्तराः ॥

तृतीयस्यां पञ्चमी च षष्ठीस्यान्मध्यतोदस ।

शीर्ष्ण्युदक्स्था षोडशी च तिस्रोन्त्याश्च तृतीयगाः ॥ ७ ॥

द्वितीयस्यामादिमायं तिस्रस्तिस्रोन्तिमाः क्रमात् ।

दशापानभृतः पूर्वा दक्षिणा प्राणभृत्पुरः । ॥ ८ ॥

पुच्छाद्यरीत्योरन्त्यास्तु चतस्रस्तिस्र एव च ।

तत्पूर्वा च तृतीयाद्याः दशा पानभृतः पुरः ॥ ९ ॥

दशपानभृतः प्राण भृतां पश्चादुदग्गताः ।

चतस्रॊर्ध्यास्ततः षष्ठ्यां चतस्रोर्ध्याश्च दक्षिणा ।

मध्यरीत्यो तृतीये द्वे तृतीया च ततो दश ।

सन्ततीर्दक्षिणे पक्षे वशा उत्तरपक्षकाः ॥

शिरोर्ग्र्यापक्षयोःकेचिदाद्यायामादिमात्मनि ।

तृतीयस्यां चतुर्थी च पुच्छाद्यायान्तु पञ्चमी ॥

शिरः पक्षात्म पक्षात्म पुच्छे तु क्रमशः क्षिपे ।

त्रिवृतः षट् द्वितीयायां चतुर्थी ऋषभेष्टका ॥

षट्सप्ततिस्तथालोकं पृणाश्चिति समापनम् ।

गायत्र्याभिमृशेदग्निं अश्वश्च परिमीयते ।

मध्यमाश्चितयःस्पष्टाः पञ्चमी वक्ष्यते चितिः ।

श्वोभूते नवमेस्मिन् स्यात् प्रस्तारे प्रथमे ततः ।

साहस्रवद्विकर्ण्यन्तं नात्र तृण्णा विकर्णिके ।

विरम्य तूष्णीं तत्रैव गायत्र्यादि यथा पुरा ।

द्विपदान्तन्तु तत्रस्Äयात् –द्वे द्वे तु मध्यगे ।

पक्षसन्ध्योश्च पूर्वान्त्ये द्वे द्वे तद्दक्षिणोत्तरे ।

पृष्ठयोः—–इदानीं नोपधीयते ।

दक्षपक्षोत्तरे भागे शिष्टा अष्टादशेष्टकाः ।

तरैव पक्षमध्ये च सयुग्जीमूत कृत्तिकाः ।

आद्योनञ्च वृष्टीनामुपधानं यथा पुरा ।

षष्ठी सप्तमीयेनरीत्योश्शिष्टाः सव्यच्छदे तथा ।

यशोदाद्या ऋतव्यान्ता चतु ?? मिष्टकाः । २२

एकादश्यां तु हृदयं मध्ये मन्त्रक्रमेण वा ।

चतुर्दशीत्र्ययोदश्योः अन्त्योपान्त्ये??पुच्छतः ।

आप्या षष्ठी तृतीयाद्या त्वष्टम्यां च चतुर्थिका ।

तिस्रोन्त्या दक्षपक्षे च विशयाग्रे च पार्श्वयोः ।

लोकम्पृणाश्च तत्रैवं एकादश समीरिताः ।

????श्वोभूते प्रस्तारे तु द्वितियके ।या देव्यसीष्टके त्वष्टाचत्वारिंशतमिष्टकाः ।

इन्द्रतन्वन्तमेतासां दक्षपक्षे विधीयते ।

ज्योतिष्मती सव्यपक्षे तथा यज्ञतनूरपि ।

पृष्ठस्थानमबाधित्वा त्युपदूह्याद्यथाक्रमं ।

एतदन्ते विरम्यात्र प्रभाते शेषमारभेत् ।

द्वितीयस्यामुपान्त्या स्यात् पूर्णापश्चादितीष्टका ।

तत्पश्चात्कृत्तकाद्या च दश पुच्छे ह्यतः पराः ।

चतस्रस्तु प्रतीच्यस्तु विशाखान्ताश्च तारकाः ।

पुच्छाद्यायां तथा षष्ठी यत्ते देवा इतीष्टकाः ।

तिस्रः पुरस्तात् पुच्छे तु पञ्चम्यां च दशेष्टकाः ।

मैत्राद्याप भरण्यन्तं ताः पूर्णा पूर्वभागतः ।

असंपृष्टत्वमेतासां तिलमात्रं विधीयते ।

परितोष्टौ सव्यपक्षे—–।

षष्ठ्यामाद्यास्ततः प्रोक्ताः पञ्चात्मेष्टक संज्ञिकाः ।

तृतीयान्त्या षोडशी च पक्षयो अर्ध संज्ञिके ।

पुच्छाद्यरीत्यौ मात्रा च चतुरर्ध्या चतुर्थिका ।

पञ्चादितः तृतीयस्यां वैश्वदेव्य उदाहृताः ।

आद्यास्तिस्रो वामदेव्यस्त्वथर्व शिरसोदश ।

द्वितीयान्त्या तृतीयस्यां चतुर्थ्यां च तदुत्तराः ।

अन्त्या च पञ्चमीरीत्यां पृष्ठयोश्च धृतास्तु याः ।

उपदध्यादिदानीं ता अथ प्रस्तार गोचराः ।

आद्यरीत्यां पञ्चमी च द्वितीयस्यां तृतीयगा ।

तत्पूर्वा विशया चात्र यज्ञायज्ञीयसंज्ञिकाः ।

ऋषभा चतुर्थ्याद्या स्यात्प्राजापत्या ततः पुरा ।

शिर्ष्ण्युदक्स्था षोडशी च द्वितीयार्ध्ये च पक्षयोः ।

पुच्छाद्यायां सप्तमी च चतुर्थ्यामपि पञ्चमी ।

पञ्चाज्यान्यः ततः पुच्छे दक्षिणालोक संज्ञिकाः ।

उत्तराः पावमान्यश्च यथायोगं विनिक्षिपेत् ।

आद्यायामन्तिमाः पञ्च पक्षे द्वे सप्त छन्दसः ।

ततो राष्टं्र–तः पूर्वा अ तृण्णा विकर्णिके ।

चतस्रो दक्षपक्षे च पञ्चपक्षे तथोत्तरे ।

पुच्छाद्यां च चतुर्थ्यां च तृतीया अवशेषितः ।

घृतेष्ठेके यदिस्यातां प्राणा एकादशेष्टकाः ।

–हिरण्यमित्यादि प्रयोगन्तु यथा पुरा ।

एवं द्वितीय श्येनस्य द्विशाहस्रे प्रकीर्तिता ।

उपधाय विधिस्सम्यक् प्रीयतां पार्वतीपतिः ।

रजुं द्विपुषां कुर्यात् तन्मध्ये लक्षणं भवेत् ।

पक्षस्यापरयोः को—- ।

चि–नायम्य शङ्कुः प्राक्स्थाप्य सद्वच्च पाशयोः ।

आलिखे अत्र आमूलात् आगात्पक्षनतिस्त्वयम् ।

शिरस्यात्मनि पुच्छे च पक्षयोरङ्गुलीषु च ।

पार्श्वं शङ्कुषु सर्वेषु रज्वा—- तनोति च ।