०२ पुण्याहम्

अथ पुण्याहम्

तण्डुलोपरि सकूर्चं सपल्लवं, सोदकं सफलं कुम्भं निधायालङ्कृत्य, प्राणानायम्य, अस्यां शुभतिथौ, गोत्राया नाम्न्या मम धर्मपत्न्याः, गर्भाधानकर्माङ्गं पुण्याहं वाचयिष्य इति सङ्कल्प्य

[[48]]

चतुरो ब्राह्मणान् भोजयित्वा, तण्डुलादि वा दत्वा, स्वामिनः मनस्समाधीयतामिति प्रार्थ्य, समाहितमनसः स्म इति तैः प्रत्युक्ते, प्रसीदन्तु भवन्त इति तान् पुनः प्रार्थ्य, प्रसन्नाः स्म इति तैः प्रत्युक्ते, ओं भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये, ओं वाच्यतामित्यनुज्ञाते, कुम्भं वामहस्ते निधाय, दक्षिणहस्तेन पिधाय, कर्मणः पुण्याहं भवन्तो ब्रुवन्तु, पुण्याहं कर्मणोऽस्तु, कर्मणे स्वस्ति भवन्तो ब्रुवन्तु, स्वस्ति कर्मणेऽस्तु, कर्मण ऋद्धिं भवन्तो ब्रुवन्तु, कर्म ऋद्ध्यतामिति प्रार्थना-प्रतिवचने त्रिस्त्रिः, पूर्ववत् कुम्भं निधाय, कस्मिंश्चित्पात्रे कूर्चेन किञ्चित् किञ्चित् अस्तुशब्देषु जलं निनीय, ओम् ऋद्धिः, ओं समृद्धिः, पुण्याहसमृद्धिः, शिवं कर्म, प्रजापतिः प्रीयताम्, अस्तु प्रीयतां भगवान् प्रजापतिः ब्रह्मा, अस्त्विति ते ब्रूयुः, शान्तिरस्तु, पुष्टिरस्तु, तुष्टिरस्तु, अविघ्नमस्तु, आयुष्यमस्तु, आरोग्यमस्तु, धनधान्यसमृद्धिरस्तु, गोब्राह्मणेभ्यः शुभं भवतु, ईशान्यां बहिर्देशे अरिष्टनिरसनमस्तु, आग्नेय्यां यत्पापं तत्प्रतिहतमस्तु, सर्वशोभनमस्तु, सर्वास्सम्पदः सन्तु । इति सर्वे सप्रणवं सह ब्रूयुः । ओं शान्तिश्शान्तिरिति नीतं पात्रस्थं जलं कुम्भे निस्राव्य, “इमं मे वरुण” “तत्त्वायामी"ति द्वाभ्यां कुम्भे वरुणरूपिणं भगवन्तम् आवाह्य आसनादिवीटिकान्तैरभ्यर्च्य, वरुणमुद्वास्य, कुम्भजलेन प्रोक्ष्य, हस्ते निनयेत् ॥