०५ सीमन्तम्

पुंसुवनसीमन्तोन्नयनयोस्सहाकरणे सीमन्तोन्नयनकर्माङ्गं प्रतिसरमभ्युदयं पुण्याहं च कृत्वा, अमुक-गोत्राममुकनाम्नीं मम धर्मपत्नीं सीमन्तोन्नयनेन कर्मणा संस्करिष्यामीति सङ्कल्य, अग्निप्रतिष्ठादिपात्रसादनान्ते त्रिषु प्रदेशेषु शुक्लवर्णां शललीं पिशाचोदुम्बरस्तबकं त्रीन् दर्भपुञ्जलान् सूत्रग्रथितान् विरूढान् यवांश्च सादयित्वा, आज्यभागान्ते “धाता ददातु नो रयि”मिति चतसृभिः, “यस्त्वा हृदा कीरिणे"ति चतसृभिः प्रधानाहुतीर्हुत्वा, जयाद्यग्न्युपस्थानान्ते अग्नेः पश्चात् प्राङ्मुखीं पत्नीमुपवेश्य, शलल्यादीन् यवव्यतिरिक्तान् सह गृहीत्वा, तैः पत्न्याः शिरोमध्ये रेखां “भूर्भुवस्सुवो”

राकामहँसुहवाँ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपस्सूच्याच्छिद्यमानया ददातु वीरँशतदायमुक्थ्यम् ।
यास्ते राके सुमतयस्सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषँसुभगे रराणा ॥

इत्येताभ्यामुल्लिख्य, पश्चान्निरस्य, अप उपस्पृश्य, “गायत”मिति वीणागाथिनौ संशास्ति । तौ च

सोम एव न राजेत्याहुर्ब्राह्मणीः प्रजाः ।
विवृत्तचक्रा आसीनास्तीरेणासौ तव

इति गायेताम् । अत्रासावित्यस्य स्थाने यस्या नद्यास्तीरे वसन्ति तन्नाम सम्बुद्ध्या निर्दिशेत् । अथ सूत्रग्रथितान् यवान् पत्न्याश्शिरस्याबद्ध्य यवानां बन्धनं च अस्या वस्त्राञ्चले निबद्ध्यानक्षत्रोदयान्मौनी स्यात् । नक्षत्रेषूदितेषु प्राचीमुदीचीं वा दिशं गत्वा, वत्समभिमृश्य, व्याहृतीर्जपित्वा, मौनं विसृजेत् ।