३० प्रवर्ग्यस्य समाप्तिः

अत्रैव सर्वं परिघर्म्यं समवधाय वेद्याम् । घर्माय संसाद्यमानायानुब्रू३हि इति संप्रेष्यति । आ यस्मिन्थ्सप्त वासवा इति होतुरभिज्ञाय । स्वाहा त्वा सूर्यस्य रश्मिभ्यः अग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति१ । यत्राभिजानात्यद्धि तृणमघ्निये विश्वदानीं इति तद्गामवसृज्य ।