१६ भोजनम्

ऊर्जे त्वा प्राणाय स्वाहा इति प्राग्वंशेऽन्नमश्नाति । पत्नी च ऊर्जे त्वा इत्यन्नमश्नाति २। सर्पिर्मिश्रं दधि मधु चाभ्युपसेकम् । यदस्य मनसः प्रतिप्रियं तदश्नाति । तदेवास्यामुष्मिन् लोके भवतीति विज्ञायते । तथाशीतस्स्याद्यथा ततो दीक्षासु कनीयः कनीयो व्रतमुपेयात् । पुरस्तात् केशवपनात् वाससो वा परिधानात् भोजनमेके समामनन्ति । हविष्यमुभौ भुक्त्वा आचम्य ।