२७

01 श्रावण्याम् पौर्णमास्यान् तिलभक्ष ...{Loading}...

श्रावण्यां पौर्णमास्यां तिल-भक्ष उपोष्य वा
श्वोभूते महानदम् उदकम् उपस्पृश्य
सावित्र्या समित्-सहस्रम् आदध्याज् जपेद् वा १

02 इष्टियज्ञक्रतून् वा पवित्रार्थान् ...{Loading}...

इष्टि-यज्ञ-क्रतून् वा पवित्रार्थान् आहरेत् २

03 अभोज्यम् भुक्त्वा नैष्पुरीष्यम् ...{Loading}...

अभोज्यं भुक्त्वा नैष्पुरीष्यम् +++(कदेति चेत् -)+++३

04 तत्सप्तरात्रेणावाप्यते ...{Loading}...

तत्-सप्त-रात्रेणावाप्यते ४

05 हेमन्तशिशिरयोर्वोभयोः सन्ध्योरुदकमुपस्पृशेत् ...{Loading}...

हेमन्त-शिशिरयोर् वोभयोः संध्योर् उदकम् उपस्पृशेत् ५

06 कृच्छ्रद्वादशरात्रं वा चरेत् ...{Loading}...

कृच्छ्र-द्वादश-रात्रं वा चरेत् ६

07 त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहन् त्र्यहमयाचितव्रतस्त्र्यहन् ...{Loading}...

त्र्यहम् अनक्ताश्य्
अदिवाशी ततस् त्र्यहं
त्र्य्-अहम् अयाचित-व्रतस्
त्र्यहं नाश्नाति किंचनेति
कृच्छ्र-द्वादश-रात्रस्य विधिः ७

08 एतमेवाभ्यसेत्संवत्सरं स कृच्छ्रसंवत्सरः ...{Loading}...

एतम् एवाभ्यसेत् संवत्सरं - स कृच्छ्रसंवत्सरः ८

09 अथापरम् बहून्यप्यपतनीयानि कृत्वा ...{Loading}...

अथाऽपरम् ।
बहून्य् अप्य् अपतनीयानि कृत्वा
त्रिभिर् अनश्नत्-पारायणैः कृत-प्रायश्चित्तो भवति ९

10 अनार्यां शयने बिभ्रेद्ददद्वृद्धिङ् ...{Loading}...

अनार्यां शयने बिभ्रेद्,
ददद् वृद्धिं+++(=interest)+++ +++(स्वद्रव्यस्य)+++, कषाय-पः+++(=सुराव्यतिरिक्तं मद्यं पिबन्)+++ ।
अब्राह्मण इव +++(सर्वान्)+++ वन्दित्वा,
तृणेष्व् आसीत पृष्ठ-तप् १०

11 यदेकरात्रेण करोति पापङ् ...{Loading}...

यद् एकरात्रेण करोति पापं
कृष्णं+++(→शूद्रं)+++ वर्णं ब्राह्मणः सेवमानः ।
चतुर्थ-काल उदकाभ्यवायी +++(स्नानकर्ता)+++
त्रिभिर् वर्षैस् तद् अपहन्ति पापम् ११

इति नवमः पटलः


    1. ‘The oblations of sacred fuel (samidh) are not to be accompanied by the exclamation Svāhā’–Haradatta.
     ↩︎
  1. महानद इति छ. पु. ↩︎ ↩︎ ↩︎

  2. (आप० प० ३.४.) “जुहोतिचोदना स्वाहाकारप्रदान इत्युक्तत्वात् । जपेद्वा” इति नास्ति. क. छ. पु. ↩︎ ↩︎ ↩︎

  3. Iṣṭis are the simplest forms of the Śrauta-sacrifices, i.e. of those for which three fires are necessary. ↩︎

  4. अग्नयेऽहोमुचेऽष्टाकपालः (तै० सं० ७. ५. २२.) इति विहितेष्टिर्मृगोरिष्टिदर्श हविष्का । ↩︎ ↩︎

  5. यज्ञाः क्रतवः । इति. क.छ.पु. ↩︎

  6. For some particular kinds of forbidden food the same penance is prescribed, Manu XI, 153-154. ↩︎

  7. गौ० ध० २६.४. ↩︎

  8. The same penance is described, under the name Prājāpatya kṛcchra, the Kṛcchra invented by Prajāpati, Manu XI, 212, and Yājñ. III, 320. ↩︎

  9. Manu XI, 259. ↩︎

  10. The expression kṛṣṇa varṇa, ’the black race,’ is truly Vedic. In the Ṛj-veda it usually denotes the aboriginal races, and sometimes the demons. Others explain the Sūtra thus: p. 88 A Brāhmaṇa removes the sin, which he committed by cohabiting for one night with a female of the Śūdra caste, &c.–Haradatta. The latter explanation has been adopted by Kullūka on Manu XI. 179. ↩︎