ब्रह्मचर्यम्

गुरुकुले वासः, ब्रह्मचर्य-कालः

11 उपेतस्याचार्यकुले ब्रह्मचारिवासः ...{Loading}...

उपेतस्याचार्यकुले ब्रह्मचारिवासः ११

12 अष्टाचत्वारिंशद्वर्षाणि ...{Loading}...

अष्टाचत्वारिंशद्वर्षाणि १२

13 पादूनम् ...{Loading}...

पादूनम् १३

14 अर्धेन ...{Loading}...

अर्धेन १४

15 त्रिभिर्वा ...{Loading}...

त्रिभिर्वा १५

16 द्वादशावरार्ध्यम् ...{Loading}...

द्वादशावरार्ध्यम् १६

17 न ब्रह्मचारिणो विद्यार्थस्य ...{Loading}...

न ब्रह्मचारिणो विद्यार्थस्य परोपवासोऽस्ति १७

18 अथ ब्रह्मचर्यविधिः ...{Loading}...

अथ ब्रह्मचर्यविधिः १८

वेषः

मेखला

33 मौञ्जी मेखला त्रिवृद् ...{Loading}...

  • मौञ्जी मेखला त्रिवृद् ब्राह्मणस्य, शक्तिविषये दक्षिणावृत्तानाम् ३३

34 ज्या राजन्यस्य ...{Loading}...

ज्या राजन्यस्य ३४

35 मौञ्जी वायोमिश्रा ...{Loading}...

मौञ्जी वायोमिश्रा ३५

37 सैरी तामली वेत्येके ...{Loading}...

सैरी तामली वेत्येके ३७

दण्डः

38 पालाशो दण्डो ब्राह्मणस्य, ...{Loading}...

पालाशो दण्डो ब्राह्मणस्य,
नैय्यग्रोध-स्कन्धजो ऽवाङ्ग्रो राजन्यस्य,
बादर औदुम्बरो वा वैश्यस्य।
+++(यज्ञियो)+++ वार्क्षो दण्ड इत्य् अवर्ण-संयोगेनैक उपदिशन्ति ३८

कौपीनम्/ वेष्टिः

39 वासः ...{Loading}...

  • वासः ३९

40 शाणीक्षौमाऽजिनानि ...{Loading}...

शाणी+++(=hemp)+++-क्षौमा+++(=linen/ flax)+++ऽजिनानि +++(ब्राह्मण-क्षत्रिय-वैश्यानाम्)+++४०

41 कषायञ् चैके वस्त्रम् ...{Loading}...

कषायं+++(=red Lodh/ kaavi)+++ चैके +++(कार्पासं)+++ वस्त्रम् उपदिशन्ति ४१

उत्तरीयम्, कम्बलः

01 माञ्जिष्ठं राजन्यस्य ...{Loading}...

माञ्जिष्ठं+++(=madder-red-dyed)+++ राजन्यस्य १

02 हारिद्रं वैश्यस्य ...{Loading}...

हारिद्रं वैश्यस्य। +++(तेन कार्पासे धृते वर्णविकल्पो नास्ति।)+++ २

03 उत्तरीयम्, कम्बलः हारिणम्, ...{Loading}...

हारिणम्+++(=मृगजम्)+++, ऐणेयं+++(=मृगीजम्)+++ वा +++(blackbuck-जात्या, न वर्णेन)+++ कृष्णं ब्राह्मणस्य +++(अजिनम्, न श्वेतैणेयम्)+++ ३

04 कृष्णञ् चेद् अनुपस्तीर्णासनशायी ...{Loading}...

+++(ऐणेयं)+++ कृष्णं चेद् अनुपस्तीर्णासन-शायी स्यात् ४

05 रौरवं राजन्यस्य ...{Loading}...

रौरवं+++(→ रौतीति - barasingha? Chital?)+++ राजन्यस्य ५

06 बस्ताजिनम् ...{Loading}...

बस्ताजिनं वैश्यस्य ॥ ६ ॥

07 आविकं सार्ववर्णिकम् ...{Loading}...

आविकं सार्ववर्णिकम् ॥ ७ ॥

08 कम्बलश्च ...{Loading}...

कम्बलश् च +++(आविकः)+++ ॥८॥

09 ब्रह्मवृद्धिम् इच्छन् ...{Loading}...

ब्रह्मवृद्धिमिच्छन्न् अजिनान्य् एव वसीत,
क्षत्रवृद्धिम् इच्छन् वस्त्राण्य् एव,
उभय-वृद्धिम् इच्छन्न् उभयम् इति हि(१) ब्राह्मणम् ॥ ९॥

10 अजिनन् त्वेवोत्तरन् धारयेत् ...{Loading}...

अजिनं त्वेवोत्तरं +++(→उत्तरीयरूपेण)+++ धारयेत् +++(इत्य् आपस्तम्बपक्षः)+++ १०

ब्रह्मचर्ये नियमाः साधारणाः

01 नियमेषु तपःशब्दः ...{Loading}...

नियमेषु तपःशब्दः १

02 तद्अतिक्रमे विद्याकर्म निःस्रवति ...{Loading}...

तद्-अतिक्रमे विद्या-कर्म निःस्रवति ब्रह्म सहापत्याद् एतस्मात् २

03 कर्तपत्यम् अनायुष्यञ् च ...{Loading}...

कर्तपत्यम् अनायुष्यं च ३

04 तस्माद् ऋषयो ऽवरेषु ...{Loading}...

तस्माद् ऋषयो ऽवरेषु न जायन्ते नियमाति-क्रमात् ४

अध्ययने

07 यत्किञ् च समाहितो ...{Loading}...

यत्किं च समाहितो ऽब्रह्माप्य् आचार्याद् उपयुङ्क्ते ब्रह्मवद् एव तस्मिन् फलं भवति ७

08 अथो यत्किञ् च ...{Loading}...

अथो यत्किञ् च मनसा वाचा चक्षुषा वा सङ्कल्पन् ध्यायत्य् आहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८

09 गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ...{Loading}...

गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९

10 अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः ...{Loading}...

अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि १०

11 स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ...{Loading}...

स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ११

23 सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ...{Loading}...

सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३

24 तथा गुरुकर्मसु ...{Loading}...

तथा गुरुकर्मसु २४

25 मनसा चानध्याये ...{Loading}...

मनसा चानध्याये २५

26 आहूताध्यायी च स्यात् ...{Loading}...

आहूताध्यायी च स्यात् २६

विनोद-त्यागः

24 अदिवास्वापी ...{Loading}...

अदिवास्वापी २४

25 अगन्धसेवी ...{Loading}...

अगन्धसेवी २५

26 मैथुनन् न चरेत् ...{Loading}...

मैथुनं न चरेत् २६

27 उत्सन्नश्लाघः ...{Loading}...

उत्सन्न-श्लाघः २७

28 अङ्गानि न प्रक्षालयीत ...{Loading}...

अङ्गानि न प्रक्षालयीत २८

29 प्रक्षालयीत त्वशुचिलिप्तानि गुरोर् ...{Loading}...

प्रक्षालयीत त्वशुचिलिप्तानि गुरोर् असन्दर्शे २९

30 नाप्सु श्लाघमानः स्नायाद् ...{Loading}...

नाप्सु श्लाघमानः स्नायाद् - यदि स्नायाद् दण्डवत् ३०

31 जटिलः ...{Loading}...

जटिलः ३१

32 शिखाजटो वा वापयेद् ...{Loading}...

शिखाजटो वा वापयेद् इतरान् ३२

11 अनृत्तदर्शी ...{Loading}...

अ-नृत्त-दर्शी ११

12 सभाः समाजांश् चागन्ता ...{Loading}...

सभाः समाजांश् चागन्ता १२

13 अजनवादशीलः ...{Loading}...

अजन-वाद-शीलः १३

14 रहश्शीलः ...{Loading}...

रहश्-शीलः १४

15 गुरोर् उदाचारेष्व् अकर्ता ...{Loading}...

गुरोर् उदाचारेष्व् अकर्ता स्वैरि-कर्माणि १५

16 स्त्रीभिर् यावद्अर्थसम्भाषी ...{Loading}...

स्त्रीभिर् यावद्-अर्थ-संभाषी १६

17 मृदुः ...{Loading}...

मृदुः १७

18 शान्तः ...{Loading}...

शान्तः १८

19 दान्तः ...{Loading}...

दान्तः १९

20 ह्रीमान् ...{Loading}...

ह्रीमान् २०

21 दृढधृतिः ...{Loading}...

दृढधृतिः २१

22 अग्लांस्नुः ...{Loading}...

अग्लांस्नुः २२

23 अक्रोधनः ...{Loading}...

अक्रोधनः २३

24 अनसूयुः ...{Loading}...

अनसूयुः २४

03 न प्रेक्षेत नग्नां ...{Loading}...

न प्रेक्षेत नग्नां स्त्रियम् ३

04 ओषधिवनस्पतीनाम् आच्छिद्य नोपजिघ्रेत् ...{Loading}...

ओषधि-वनस्पतीनाम् आच्छिद्य नोपजिघ्रेत् ४

05 उपानहौ छत्रं यानम् ...{Loading}...

उपानहौ छत्रं यानम् इति च वर्जयेत् ५

06 न स्मयेत ...{Loading}...

न स्मयेत ६

08 नोपजिघ्रेत् स्त्रियम् मुखेन ...{Loading}...

नोपजिघ्रेत् स्त्रियं मुखेन ८

09 न हृदयेन प्रार्थयेत् ...{Loading}...

न हृदयेन प्रार्थयेत् ९

10 नाकारणाद् उपस्पृशेत् ...{Loading}...

नाकारणाद् उपस्पृशेत् १०

11 रजस्वलो रक्तदन् सत्यवादी ...{Loading}...

रजस्वलो रक्तदन् सत्यवादी स्याद् इति हि ब्राह्मणम् ११

आचार्यप्रमादे

25 प्रमादादाचार्यस्य बुद्धिपूर्वं वा ...{Loading}...

प्रमादादाचार्यस्य बुद्धिपूर्वं वा नियमातिक्रमं रहसि बोधयेत् २५

26 अनिवृत्तौ स्वयङ् कर्माण्यारभेत ...{Loading}...

अनिवृत्तौ स्वयं कर्माण्यारभेत २६

27 निवर्तयेद्वा ...{Loading}...

निवर्तयेद्वा २७

29 स य एवम् ...{Loading}...

स य एवं प्रणिहितात्मा ब्रह्मचार्यत्रैवास्य सर्वाणि कर्माणि फलवन्त्यवाप्तानि भवन्ति यान्यपि गृहमेधे २९

+++(आचार्ये पतिते व्यवहारो बहिष्कारपङ्क्तौ दृश्यताम्।)+++

शुश्रूषा

19 आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः ...{Loading}...

आचार्याधीनः स्यादन्यत्र पतनीयेभ्यः १९

20 हितकारी गुरोरप्रतिलोमयन्वाचा ...{Loading}...

हितकारी गुरोरप्रतिलोमयन्वाचा २०

21 अधासनशायी ...{Loading}...

अधासनशायी २१

23 सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये ...{Loading}...

सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३

24 तथा गुरुकर्मसु ...{Loading}...

तथा गुरुकर्मसु २४

28 चेष्टति च चिकीर्षन्तच्छक्तिविषये ...{Loading}...

चेष्टति च चिकीर्षन्तच्छक्तिविषये २८

37 आचामेद्वा ...{Loading}...

आचामेद्वा ३७

38 किङ् करवाणीत्य् आमन्त्र्य ...{Loading}...

किं करवाणीत्य् आमन्त्र्य ३८

25 प्रेषितस्तदेव प्रतिपद्येत ...{Loading}...

प्रेषितस्तदेव प्रतिपद्येत २५

10 नासमयेन कृच्छ्रङ् कुर्वीत ...{Loading}...

नासमयेन कृच्छ्रं कुर्वीत त्रिःश्रावणं त्रिःसहवचनमिति परिहाप्य १०

11 अविचिकित्सा यावद्ब्रह्म निगन्तव्यमिति ...{Loading}...

अविचिकित्सा यावद् ब्रह्म निगन्तव्यम् इति हारीतः ११ +++(????)+++

12 न बहिर्वेदे गतिर्विद्यते ...{Loading}...

न बहिर्वेदे गतिर्विद्यते १२

13 समादिष्टमध्यापयन्तं यावदध्ययनमुपसङ्गृह्णीयात् ...{Loading}...

समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३

14 नित्यमर्हन्तमित्येके ...{Loading}...

नित्यमर्हन्तमित्येके १४

15 न गतिर् विद्यते ...{Loading}...

न गतिर् +++(=शुश्रूषा)+++ विद्यते १५

16 वृद्धानान् तु ...{Loading}...

वृद्धानां तु १६

17 ब्रह्मणि मिथो विनियोगे ...{Loading}...

ब्रह्मणि मिथो विनियोगे न गतिर्विद्यते १७

18 ब्रह्म वर्धत इत्युपदिशन्ति ...{Loading}...

ब्रह्म वर्धत इत्युपदिशन्ति १८

निद्रा

01 सदा निशायाङ् गुरुं ...{Loading}...

सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य १

02 अनुज्ञातः संविशेत् ...{Loading}...

अनुज्ञातः संविशेत् २

03 न चैनमभिप्रसारयीत ...{Loading}...

न चैनमभिप्रसारयीत ३

04 न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ...{Loading}...

न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ४

05 न चास्य सकाशे ...{Loading}...

न चास्य सकाशे संविष्टो भाषेत् ५

06 अभिभाषितस्त्वासीनः प्रतिब्रूयात् ...{Loading}...

अभिभाषितस्त्वासीनः प्रतिब्रूयात् ६

22 स्वप्नञ् च वर्जयेत् ...{Loading}...

स्वप्नं च वर्जयेत् २२

23 अथाहरहराचार्यङ् गोपायेद् धर्मार्थयुक्तैः ...{Loading}...

अथाहरहराचार्यं गोपायेद् धर्मार्थयुक्तैः कर्मभिः २३

24 स गुप्त्वा संविशन्ब्रूयाद्धर्मगोपायमाजूगुपमहमिति ...{Loading}...

स गुप्त्वा संविशन्ब्रूयाद्धर्मगोपायमाजूगुपमहमिति २४

28 अथ यः पूर्वोत्थायी ...{Loading}...

अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति २८

समिदाधानम्

13 सायम् प्रातर् उदकुम्भम् ...{Loading}...

सायं प्रातर् उदकुम्भम् आहरेत् १३

14 सदारण्याद् एधान् आहृत्याधो ...{Loading}...

सदारण्याद् एधान् आहृत्याधो निदध्यात् १४

15 नास्तम् इते समिद्धारो ...{Loading}...

नास्तम् इते समिद्धारो गच्छेत् १५

16 अग्निम् इद्ध्वा परिसमूह्य ...{Loading}...

अग्निम् इद्ध्वा परिसमूह्य समिध आदध्यात् सायं प्रातर् यथोपदेशम् १६

17 सायम् एवाग्निपूजेत्य् एके ...{Loading}...

सायम् एवाग्नि-पूजेत्य् एके १७

18 समिद्धम् अग्निम् पाणिना ...{Loading}...

समिद्धम् अग्निं पाणिना परिसमूहेन् - न समूहन्या १८

19 प्राक् तु याथाकामी ...{Loading}...

प्राक् तु याथाकामी १९

20 नाग्न्य्उदकशेषेण वृथाकर्माणि कुर्वीताऽऽचामेद् ...{Loading}...

नाग्न्य्-उदक-शेषेण वृथा-कर्माणि कुर्वीताऽऽचामेद् वा २०

21 पाणिसङ्क्षुब्धेनोदकेनैकपाण्याऽऽवर्जितेन च नाचामेत् ...{Loading}...

पाणि-संक्षुब्धेनोदकेनैक-पाण्याऽऽवर्जितेन च नाचामेत् २१

भोजनम्

भोजनात् परम्

36 भुक्त्वा स्वयम् अमत्रम् ...{Loading}...

भुक्त्वा स्वयम् अमत्रं प्रक्षालयीत ३६

37 न चोच्छिष्टङ् कुर्यात् ...{Loading}...

न चोच्छिष्टं कुर्यात् ३७

38 अशक्तौ भूमौ निखनेत् ...{Loading}...

अशक्तौ भूमौ निखनेत् ३८

39 अप्सु वा प्रवेशयेत् ...{Loading}...

अप्सु वा प्रवेशयेत् ३९

40 आर्याय वा पर्यवदध्यात् ...{Loading}...

आर्याय वा पर्यवदध्यात् ४०

41 अन्तर्धिने वा शूद्रा ...{Loading}...

अन्तर्धिने वा शूद्रा य ४१

36 भुक्त्वाचार्यस्य सकाशे नानूत्थायोच्छिष्टम् ...{Loading}...

भुक्त्वाचार्यस्य सकाशे नानूत्थायोच्छिष्टं प्रयच्छेत् ३६

37 आचामेद्वा ...{Loading}...

आचामेद्वा ३७

38 किङ् करवाणीत्य् आमन्त्र्य ...{Loading}...

किं करवाणीत्य् आमन्त्र्य ३८

01 उत्तिष्ठेत् तूष्णीं वा ...{Loading}...

उत्तिष्ठेत् तूष्णीं वा १

भोजनात् प्राक्

42 प्रोषितो भैक्षाद् अग्नौ ...{Loading}...

प्रोषितो भैक्षाद् अग्नौ कृत्वा भुञ्जीत ४२

43 भैक्षं हविषा संस्तुतन् ...{Loading}...

भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ४३

44 आहवनीयार्थे च ...{Loading}...

आहवनीयार्थे च ४४

45 तम् भोजयित्वा यदुच्छिष्टम् ...{Loading}...

तं भोजयित्वा यदुच्छिष्टम् ४५

01 यदुच्छिष्टम् प्राश्नाति ...{Loading}...

यदुच्छिष्टं प्राश्नाति १

02 हविरुच्छिष्टमेव तत् ...{Loading}...

हविरुच्छिष्टमेव तत् २

03 यदन्यानि द्र व्याणि ...{Loading}...

यदन्यानि द्रव्याणि यथालाभमुपहरति दक्षिणा एव ताः ३

04 स एष ब्रह्मचारिणो ...{Loading}...

स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ४

अभोज्यम्

22 नानुदेश्यम् भुञ्जीत ...{Loading}...

नानुदेश्यं भुञ्जीत २२

23 तथा क्षारलवणमधुमांसानि ...{Loading}...

तथा क्षार-लवण-मधु-मांसानि +++(गृह्यसूत्र उपनयनप्रकरणे क्षार-लवणयोर् त्र्यहं नियमनात् मध्वादेरेव त्र्यहादूर्ध्वं नित्यो निषेधः। )+++ २३

05 न चास्मै श्रुतिविप्रतिषिद्धम् ...{Loading}...

न चास्मै श्रुति-विप्रतिषिद्धम् उच्छिष्टं दद्यात् ५

06 यथा क्षारलवणमधुमांसानीति ...{Loading}...

यथा क्षार-लवण-मधु-मांसानीति ६

07 एतेनान्ये नियमा व्याख्याताः ...{Loading}...

एतेनान्ये नियमा व्याख्याताः ७

08 श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ...{Loading}...

श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ८

09 दृश्यते चापि प्रवृत्तिकारणम् ...{Loading}...

दृश्यते चापि प्रवृत्तिकारणम् ९

10 प्रीतिर्ह्य् उपलभ्यते ...{Loading}...

प्रीतिर्ह्य् उपलभ्यते १०

11 पितुर् ज्येष्ठस्य च ...{Loading}...

पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोक्तव्यम् ११

12 धर्मविप्रतिपत्ताव् अभोज्यम् ...{Loading}...

धर्म-विप्रतिपत्ताव् अभोज्यम् १२

गुरुदक्षिणा

19 कृत्वा विद्यां यावतीं ...{Loading}...

कृत्वा विद्यां यावतीं शक्नुयाद्वेददक्षिणामाहरेद्धर्मतो यथाशक्ति १९

20 विषमगते त्वाचार्य उग्रतः ...{Loading}...

विषमगते त्वाचार्य उग्रतः शूद्र तो वाहरेत् २०

21 सर्वदा शूद्रत उग्रतो ...{Loading}...

सर्वदा शूद्रत उग्रतो वाचार्यार्थस्याहरणं धार्म्यमित्येके २१

22 दत्वा च नानुकथयेत् ...{Loading}...

दत्वा च नानुकथयेत् २२

23 कृत्वा च नानुस्मरेत् ...{Loading}...

कृत्वा च नानुस्मरेत् २३

24 आत्मप्रशंसाम् परगर्हामिति च ...{Loading}...

आत्मप्रशंसां परगर्हामिति च वर्जयेत् २४