०४ बन्धनम्

उद्वासनादि

वरुणम् उद्वास्य

प्रकृत-कर्म-विषयी-भूतं,
विषयी-भूतां वा प्रोक्ष्य,
प्रतिसर-सूत्रञ् च प्रोक्ष्य

सूत्र-व्यवस्था

वासुकिं ध्यात्वा

“त्र्यम्बकम्” इतिमन्त्रेण
“श्रियै जातः” इति मन्त्रेण वा,
प्रतिसरसूत्रं हरिद्राचूर्णेनानुलिप्य

१२ त्र्यम्बकं यजामहे ...{Loading}...

त्र्य॑म्बकं यजामहे
सु॒गन्धिं॑ पुष्टि॒-वर्ध॑नम्।
उ॒र्वा॒रु॒कम् +++(स्थूलफलम्)+++ इ॑व॒ बन्ध॑नान्
मृ॒त्योर् मु॑क्षीय॒, मा ऽमृता॑त्॥

०४ श्रिये जातः ...{Loading}...

श्रि॒ये जा॒तः, श्रि॒य आ निरि॑याय॒
श्रियं॒ वयो॑+++(=अन्नम्)+++ जरि॒तृभ्यो॑ दधाति
श्रियं॒ वसा॑ना अ-मृत॒त्वम् आ॑य॒न्
भव॑न्ति स॒त्या स॑मि॒था+++(=युद्धानि)+++ मि॒त-द्रौ॑+++(←द्रु)+++ +++(सोमे)+++ ॥

कर्मानुगुणं
पुरुषस्य, स्त्रिया वा हस्त-द्वयम् अक्षतैर् आपूर्य,
ताम्बूलं फलादिकञ् च निक्षिप्य,

हस्त-ग्रहणम्

अ॒ग्निरायु॑ष्मा॒न्थ्स ...{Loading}...

विश्वास-प्रस्तुतिः

+++(हे यजमान)+++
अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् स ओष॑धीभिर् [आयु॑ष्मा॒न् तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++य॒ज्ञ, स दख्षि॑णाभि॒र् आयु॑ष्मा॒न्, [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++ब्रह्मायु॑ष्म॒त्, तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् , [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

+++(हे यजमान)+++दे॒वा आयु॑ष्मन्तः।
ते॑ऽमृते॑न [आयु॑ष्मन्तः] [तेन॒ त्वायु॒षा ऽऽयु॑ष्मन्तङ् करोमि ।]

मूलम्

अ॒ग्निरायु॑ष्मा॒न् ,
स वन॒स्पति॑भि॒रायु॑ष्मा॒न् ,
तेन॒ त्वायु॒षायु॑ष्मन्तङ्करोमि ।

सोम॒ आयु॑ष्मा॒न् , स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्,

स दख्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्,

तद्ब्रा᳚ह्म॒णैरायु॑ष्मत् ,

दे॒वा आयु॑ष्मन्तः ते॑ऽमृते॑न

भट्टभास्कर-टीका

अग्निरायुष्मान् दीर्घायुः । स वनस्पतिभिरायुष्मान् तैर्हेतुभिस्तैर्वासह । तेनायुषा उभयेनायुषा त्वामायुष्मन्तं करोमि दीर्घायुषं करोमि । हे यजमान सोमादिषु ‘आयुष्मान्तेन’ इत्याद्यनुषज्यते । सोम ओषधीभिः, यज्ञो दक्षिणाभिः ब्रह्म ब्राह्मणैः, देवा अमृतेन, पितरस्स्वधया ॥

इति द्वितीये तृतीये दशमोनुवाकः ॥

इति पञ्चभिः कुमारस्य धर्मपत्न्या वा
दक्षिणहस्तं गृहीत्वा

अनुपनीतहस्ते

बृहत्सामेति प्रतिसरसूत्रं
दक्षिणे हस्ते बध्नाति,
स्त्रिया वाम-हस्ते बध्नाति ।

05 बृहथ्साम ख्षत्रभृद् ...{Loading}...

बृ॒हथ्-साम॑ ख्षत्र॒-भृद् वृ॒द्ध-वृ॑ष्णियन्,
त्रि॒ष्टुभौज॑श् शुभि॒तम् उ॒ग्र-वी॑रम् +++(इति सन्ति, तैः)+++।
इन्द्र॒ स्तोमे॑न पञ्च-द॒शेन॒ मध्य॑म्
इ॒दव्ँ वाते॑न॒ सग॑रेण +++(च)+++ रख्ष

उपनीत-हस्ते

अत्र बन्धनमन्त्रे च पाठभेदो दृश्यते -
बृहत्सामेति मन्त्रः - अनुपनीतस्य कुमारस्य, स्त्रिया वा विषयः
उपनीतविषये तु विश्वेत्ताते इत्येतेन बध्नीयात् इति ।
यथाचारं व्यवस्था ।

०६ विश्वेत्ता ते ...{Loading}...

विश्वेत् ता ते॒ सव॑नेषु प्र॒-वाच्या॒
या च॒कर्थ॑ मघवन्न् इन्द्र सुन्व॒ते ।
पारा॑वतं॒+++(→शत्रुस्वं)+++ यत् पु॑रु-सम्भृ॒तं वस्व्
अ॒पावृ॑णोः शर॒भाय॒ ऋषि॑-बन्धवे ॥