०५ 'हिरण्यवर्णाश्शुचयः पावका' इति चतस्रः

०१ कुम्भेष्टकाः - ०१ हिरण्यवर्णाश् शुचयः ...{Loading}...

भास्करोक्त-विनियोगः

1अतः परमग्निकाण्डमेवाग्न्यार्षेयम् ॥ तत्र कुम्भेष्टकोपधानमन्त्राः - हिरण्यवर्णा इत्याद्याः ॥

मूलम् (संयुक्तम्)

हिर॑ण्यवर्णा॒श्शुच॑यᳶ पाव॒का यासु॑ जा॒तᳵ क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निय्ँया गर्भ॑न्दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का, यासु॑ जा॒तᳵ क॒श्यपो॒, यास्विन्द्रः॑ ।

अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् - ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

भट्टभास्कर-टीका

प्रथमा त्रिष्टुप् । हिरण्यवर्णाः हितरमणीयवर्णाः, हिरण्यसदृशवर्णा वा स्वच्छत्वात् । शुचयश्शुद्धाः । पावकाः शोधयित्र्यः । ‘पावकादीनां छन्दसि’ इतीत्वाभावः । यासु जातः कश्यपः प्रजापतिः ‘तद्दशहोताऽन्वसृज्यत । प्रजापतिर्वै दशहोता’ इति । यासु चेन्द्रोजातः मध्यमो विद्युदात्मा, याश्चाग्निं गर्भं दधिरे धारयन्ति, यथा ‘अग्ने गर्भो अपामसि’ इति । ता आपः विरूपाः नः अस्माकं शान्तिहेतवः स्योनास्सुखहेतवश्च भवन्तु ॥

मूलम् (संयुक्तम्)

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । म॒धु॒श्चुत॒श्शुच॑यो॒ याᳶ पा॑व॒कास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑, सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।

म॒धु॒श्चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

2द्वितीया - यासां राजेति त्रिष्टुप् ॥ यासां मध्ये वरुणो राजा वरणीयो वा आदित्यो याति सत्यानृते जनानामवपश्यन् अवहितः पश्यन् मधुश्चुतः मधुरसस्य क्षारयित्र्यः शुचय इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यासा᳚न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति । याᳶ पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [1]
शु॒क्रास्ता न॒ आप॒श्शꣳ स्यो॒ना भ॑वन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

सर्वाष् टीकाः ...{Loading}...
मूलम्

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ - या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् - ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

3यासां देवा इत्यादि ॥ तृतीया त्रिष्टुम् । यासामेकदेशममृतं सोमं वा देवा अपि भक्षं कृण्वन्ति । यद्वा - देवा आदित्यरश्मयः दिवि आदित्यमण्डले या भक्षं कुर्वन्ति स्थापयन्ति । कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः । याश्रान्तरिक्षे बहुधा भवन्ति बहुप्रकारा आविर्भवन्ति वर्षासु ॥ याश्च पृथिवीं पयसा स्वेनेत्यंशेन स्वेनैवांशेन, ओदनेन वा हेतुना उन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः । ता न इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे । सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

०१ कुम्भेष्टकाः - ०५-१३ यद् अदः ...{Loading}...
मूलम् (संयुक्तम्)

यद॒दस्स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒दस् स॑म्प्रय॒तीर्
अहा॒व्+++(→मेघे, serpens)+++ अन॑दता ह॒ते +++(ज्येष्ठ-स्थ+इन्द्रेण)+++।
तस्मा॒द् आ न॒द्यो॑ +++(→द्युनद्य् अपि)+++ नाम॑ स्थ॒,
ता वो॒ नामा॑नि सिन्धवः+++(=स्यन्दनशीलाः)+++ ।+++(4)+++

सर्वाष् टीकाः ...{Loading}...
मूलम्

यद॒दस् स॑म्प्रय॒तीरहा॒वन॑दता ह॒ते ।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒, ता वो॒ नामा॑नि सिन्धवः ।

भट्टभास्कर-टीका

5पञ्चमी - यदद इत्यनुष्टुप् ॥ सप्रयतीर् इति प्रथमपादान्तः ।
अद इति सप्तम्या अलुक् ।
अमुष्मिन्न् अहो अहन्तव्ये मेघे हते ताडिते
यद् यस्माद् यूयं संप्रयतीः संभूयेतश् चेतश् च प्रतियान्त्यः अनदत शब्दं कृतवत्यस्स्थ । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । एतेश्शतरि ‘इणो यण्’ ‘वा छन्दसि’ इति पूर्वसवर्णदीर्धत्वम्, ‘शतुरनुमः’ इति नद्या उदात्तत्वम् ।
तस्मात् कारणाद् आभिमुख्येनाव्यवधानेनैव नद्यो नाम यूयं स्थ नदनान् नद्य इत्य् उच्यध्वे ।
नडिति पचादिषु पाठात्, दिवः ‘उदात्तस्वरितयोः’ इति विभक्तिस्स्वर्यते ।
हे सिन्धवः स्यन्दनशीलाः । ‘स्यन्देः प्रसारणं धश्च’ इत्युप्रत्ययः । ता तादृशानि वः युष्माकं नामानि अन्वर्थानीत्यर्थः ॥

मूलम् (संयुक्तम्)

यत्प्रेषि॑ता॒ वरु॑णेन॒ ताश्शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन ।

विश्वास-प्रस्तुतिः ...{Loading}...

यत् प्रेषि॑ता॒ वरु॑णेन॒,
ताश् शीभꣳ॑+++(=शिवं)+++ स॒मव॑ल्गत+++(=अनृत्यत)+++ । [2]
तद् +++(द्युगङ्गेति, मेघरूपेण वा)+++ आ᳚प्नो॒द् +++(ज्येष्ठास्थ)+++ इन्द्रो॑ वो य॒तीस् -
तस्मा॒द् आपो॒ अनु॑ स्थन

सर्वाष् टीकाः ...{Loading}...
मूलम्

यत् प्रेषि॑ता॒ वरु॑णेन॒, ताश् शीभꣳ॑ स॒मव॑ल्गत । [2]
तदा᳚प्नो॒द् इन्द्रो॑ वो य॒तीस् - तस्मा॒दापो॒ अनु॑ स्थन ।

भट्टभास्कर-टीका

6नामान्तराणामपि व्युत्पत्तिं प्रदर्शयिष्याम इति बहुवचन-निर्देशेनोपक्षिप्तं तत्राप इति नाम व्युत्पादयितुमाह - यदिति ॥
षष्ठी - इयमप्यनुष्टुप् । यद् यदा वरुणेन राज्ञा प्रेषिता आदित्येन रश्मिभिर् वा नीताः सत्यस्
ता यूयं शीभं शिवं शोभनं समवल्गत सम्भूय नृत्यन्त इव शोभनं चेष्टितवत्यः । तदानीं वः युष्मान् यतीः गच्छतीः विलक्षणगतीः मध्यमस्थाने आप्नोदिन्द्रः । तस्मात्कारणात् अनु अनन्तरं ततः प्रभृति आपः स्थन अप्शब्दवाच्याः स्थ । आप्नोतेः कर्मणि क्विप्, ‘तप्तनप्तनधानाश्च’ इति तनपादेशः ॥

मूलम् (संयुक्तम्)

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् । इन्द्रो॑ व॒श्शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प॒का॒मꣳ स्यन्द॑माना॒
अवी॑वरत+++(←वृ)+++ वो॒ हिक᳚म्+++(=हि)+++ ।
इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् -
तस्मा॒द् वार्+++(=वारि)+++ णाम॑ वो हि॒तम्

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म् ।

इन्द्रो॑ व॒श् शक्ति॑भिर् देवी॒स् - तस्मा॒द्वार्णाम॑ वो हि॒तम् ।

भट्टभास्कर-टीका

7सप्तमी - अपकाममित्यनुष्टुप् ॥ अत्र वारिति नाम व्याचष्टे - अपकामं विनैव कामेन स्यन्दमानाः सदा स्यन्दनं कुर्वाणाः वः युष्मान् इन्द्रः अवीवरत वृतवान् युष्मानात्मसात्कर्तुमैच्छत् ।
वः युष्माकं शक्तिभिः हेतुभिः ।
हिकमिति पादपूरणे, प्रसिद्धौ वा ।
वस ईप्सायाम्, चुरादिरदन्तः व्यत्ययेन सन्वद्भावः । वृणोतेर्वा स्वार्थिकोण् छान्दसः । देवीः देवनशीलाः तस्मात्कारणात् वारिति नाम वः युष्माकं हितं निहितं, सर्वस्मै वा हितम् । वर्णव्यत्ययेन णत्वम् ॥

मूलम् (संयुक्तम्)

एको॑ दे॒वो अप्य॑तिष्ठ॒थ्स्यन्द॑माना यथाव॒शम् । उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ।

विश्वास-प्रस्तुतिः ...{Loading}...

एको॑ दे॒वो अप्य् अ॑तिष्ठ॒थ् -
स्यन्द॑माना यथा-व॒शम् ।
उदा॑निषुर्+++(←उदान=उच्छ्वास)+++ म॒हीर् इति॒,
तस्मा॑द् उद॒कम् उ॑च्यते

सर्वाष् टीकाः ...{Loading}...
मूलम्

एको॑ दे॒वो अप्य॑तिष्ठ॒थ् - स्यन्द॑माना यथाव॒शम् ।

उदा॑निषुर् म॒हीरिति॒, तस्मा॑दुद॒कमु॑च्यते ।

भट्टभास्कर-टीका

8अष्टमी - एक इत्यनुष्टुप् ॥ अत्रोदकं व्युत्पादयति - एको देव इन्द्रः अप्य् अतिष्ठत् स्वामित्वेनाध्यतिष्ठत् । अध्यर्थे अपिशब्दः । यथावशं यथेष्टं इतश्चेतश्च स्यन्दमाना आपः । यद्वा - स्यन्दमानास् सर्वास्स्रवन्तरिपः यथावशमप्यतिष्ठत् मध्यमे स्थाने आत्मनि आत्मनो वशं नीतवान् । तेन देवबहुमानेन आप उदानिषुः उछ्ह्वसितवत्यः महीरिति महत्यो जाता वयमेतेनेति । ‘वा छन्दसि’ डति पूर्वसवर्णदीर्घत्वम् । तस्मात्कारणादुदकमित्यपां नाम निरुच्यते उदानादुदकमिति । उत्पूर्वादनितेरौणादिकः कप्रत्ययः, नकारलोपश्च ॥

मूलम् (संयुक्तम्)

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः । ती॒व्रो रसो॑ मधु॒पृचा᳚म् [3]
अ॒र॒ङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

विश्वास-प्रस्तुतिः ...{Loading}...

आपो॑ भ॒द्रा, घृ॒तम् इद् आप॑ आसुर् -
अ॒ग्नीषोमौ॑ बिभ्र॒त्य्, आप॒ इत् ताः ।
ती॒व्रो रसो॑ मधु॒-पृचा॑म् अरङ्-ग॒म +++(→रसः)+++
मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्

सर्वाष् टीकाः ...{Loading}...
मूलम्

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर् - अ॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः ।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ।

भट्टभास्कर-टीका

9नवमी - आपो भद्रा इति त्रिष्टुप् ॥ आपो भद्राः भन्दनीयाः आप एव घृतमाज्यमासुः भवन्ति तृणादिनिष्पादनेन गवां धारकत्वात् । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वात् असेर्लेटि न भूभावः ।
किञ्च - ता एव आपः अग्नीषोमौ बिभ्रति धारयन्ति खुन्नादिहः [अन्नादिना] विद्युन्निष्पत्त्या ऽग्निं रश्मिवृद्ध्या सोमम् । ‘ईदग्नेः’ इतीत्वम्, ‘अग्नेस्तुत् स्तोमसोमाः ‘इति षत्वम्, ’ देवताद्वन्द्वे च’ इति पूर्वोत्तरपदोर्युगपत्प्रकृतिस्वरत्वम् ।
तादृशीनाम् अपां मधुपृचां मधुस्वादुना रसेन संपृक्तानां तीव्रः उद्भूतो रसः अरङ्गमः पर्याप्तगमनः कदाचिदप्यक्षीणेन प्राणेन चक्षुरादिना वर्चसा बलेन च सह मा आगन् आगच्छन्तु, तद्धेतुत्वात्प्राणादिस्थितेः । गमेः छान्दसे लुङि च्लेर्लुक् । ‘मो नो धातोः’ इति नत्वम् ॥

मूलम् (संयुक्तम्)

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑ ।

विश्वास-प्रस्तुतिः ...{Loading}...

आद्+++(=अतः)+++ इत् प॑श्याम्य् उ॒त वा॑ शृणो॒म्य्
आ मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम् ।
मन्ये॑ भेजा॒नो+++(←भज्)+++ अ॒मृत॑स्य॒ तर्हि॒
हिर॑ण्य-वर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँ य॒दा वः॑ ।

भट्टभास्कर-टीका

10दशमी - आदिति त्रिष्टुप् ॥ प्राणेन सहागन् इत्युक्तम् । तदिदानीं समर्थयते - आदित् अनन्तरमेवाहं पश्यामिउत अपि वा शृणोमि । घोषश्च माम् आगच्छति
अस्माकं वाग् रूपः आसां युष्माकम् आगमनेन रसेन वा । किं बहुना - तर्हि तदानीं अमृतस्य भेजान अमृतमेव भजन् अहं मन्ये तर्कयामि । पूर्ववत्कर्मणस्संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । कदा - यदाहि हे हिरण्यवर्णाः! वः युष्माकम् अतृपं युष्मत्पानेन सुहितोभवम् । तृप तृंप तृप्तौ, तौदादिकः । मुहितार्थयोगे षष्ठी ॥

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

001 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

आ꣡पो हि꣡ ष्ठा꣡ मयोभु꣡वस्
ता꣡ न ऊर्जे꣡ दधातन
महे꣡ र꣡णाय च꣡क्षसे

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

hí ← hí (invariable)
{}

mayobhúvaḥ ← mayobhū́- (nominal stem)
{case:NOM, gender:F, number:PL}

sthá ← √as- 1 (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

dadhātana ← √dhā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}

ūrjé ← ū́rj- (nominal stem)
{case:DAT, gender:F, number:SG}

cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}

mahé ← máh- (nominal stem)
{case:DAT, gender:M, number:SG}

ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}

पद-पाठः

आपः॑ । हि । स्थ । म॒यः॒ऽभुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ।
म॒हे । रणा॑य । चक्ष॑से ॥

Hellwig Grammar
  • āpoāpaḥap
  • [noun], nominative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • hi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • ṣṭhāas
  • [verb], plural, Present indikative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • mayobhuvasmayaḥmayas
  • [noun], neuter
  • “pleasure; refreshment.”

  • mayobhuvasbhuvaḥbhū
  • [noun], nominative, plural, feminine
  • “Earth; floor; earth; bhū; Earth; one; saurāṣṭrā; three; land; land; place; world; bhū [word]; soil; pṛthivī; being; bhūja; floor; bhūnāga; sphaṭikā; beginning; birth; estate.”

  • tāḥtad
  • [noun], nominative, plural, feminine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nanaḥmad
  • [noun], accusative, plural
  • “I; mine.”

  • ūrjeūrj
  • [noun], dative, singular, feminine
  • “strength; refreshment; vigor; food; strengthening.”

  • dadhātanadhā
  • [verb], plural, Present imperative
  • “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”

  • mahemah
  • [noun], dative, singular, masculine
  • “great; great; distinguished; much(a); adult; long; high.”

  • raṇāyaraṇa
  • [noun], dative, singular, masculine
  • “battle; fight; pleasure; joy; war; combat.”

  • cakṣasecakṣ
  • [verb noun]
  • “watch; look.”

सायण-भाष्यम्

हि यस्मात् कारणात् आपः या यूयं मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ ताः तादृश्यो यूयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त । अन्नप्राप्तियोग्यानस्मान् कुरुत । अन्नमस्मभ्यं दत्तेत्यर्थः । महे महते रणाय रमणीयाय चक्षसे दर्शनाय सम्यग्ज्ञानाय च धत्त । अस्मान् सम्यग्ज्ञानं प्रति यौग्यान् कुरुतेत्यर्थः ॥

भट्टभास्कर-टीका

11आपो हिष्ठादयस्तिस्रः ‘वि पाजसा’ इत्यत्र व्याख्याताः ।

आपः व्यापितास् स्थ मयोभुवः सुखस्य भावयित्र्यः,
ताः यूयं नः अस्मान् ऊर्जे रसाय दधातन स्थापयत
ऊर्जं वा अस्मभ्यं दत्त
महे महते रणाय रमणीयाय चक्षसे ज्ञानाय चेति प्रथमा ॥

Wilson
English translation:

“Since, waters, you are the sources of happiness, grant to us to enjoy abundance, and great anddelightful perception.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Great and delightful perception: mahe raṇāya cakṣase = samyajñānam, perfectknowledge of brahman; the ṛca solicits happiness both in this world and in the next; the rapturous sight of thesupreme god; to behold great joy

Jamison Brereton

Since you Waters are sheer refreshment, so destine us for nourishment and to see great happiness.

Griffith

YE, Waters, are beneficent: so help ye us to energy
That we may look on great delight.

Geldner

Ihr Gewässer seid ja labend; verhelfet ihr uns zur Kraft, um große Freude zu schauen!

Grassmann

Ihr Wasser seid erquickend ja, drum führet uns zu frischer Kraft, Damit wir hohe Freude schaun.

Elizarenkova

О воды, ведь вы благодатные.
Помогите нам с подкрепляющей силой,
Чтобы (мы) увидели великую радость!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - विषयः

इस सूक्त में ‘आपः’ शब्द से जलों के गुण और लाभ बतलाये गये हैं।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) वे तुम जलो ! (मयः-भुवः) सुख को भावित कराने वाले-सुखसम्पादक (हि स्थ) अवश्य हो (नः) हमें (ऊर्जे) जीवनबल के लिये (महे रणाय चक्षसे) महान् रमणीय दर्शन के लिए (दधातन) धारण करो ॥१॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल अवश्य सुखकारण और जीवनबल देनेवाले हैं। यथावसर शीतजल या उष्णजल उपयुक्त हुआ तथा महान् रमणीय दर्शन बाहिरी दृष्टि से नेत्र-शक्ति धारण करानेवाला, भीतरी दृष्टिसे मानस शान्ति वा अध्यात्मदर्शन कराने का हेतु भी है। इसी प्रकार आप विद्वान् जन भी सुखसाधक, जीवन में प्रेरणा देनेवाले और अध्यात्मदर्शन के निमित्त हैं। उनकासङ्गकरना चाहिए ॥१॥

ब्रह्ममुनि - विषयः

अत्र सूक्ते ‘आपः’ इति शब्देन जलानां गुणलाभाः प्रोच्यन्ते।

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (ताः-आपः) ता यूयमापः ! (मयः-भुवः) सुखस्य भावयित्र्यः-सुखसम्पादिका वा“मयः सुखनाम” [निघ० ३।६](हि स्थ) अवश्यं स्थ (नः) अस्मान् (ऊर्जे) जीवनबलाय (महे रणाय चक्षसे) महते रमणीयाय दर्शनाय (दधातन) धारयत ॥१॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

यो꣡ वः शिव꣡तमो र꣡सस्
त꣡स्य भाजयतेह꣡ नः
उशती꣡र् इव मात꣡रः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

rásaḥ ← rása- (nominal stem)
{case:NOM, gender:M, number:SG}

śivátamaḥ ← śivátama- (nominal stem)
{case:NOM, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}

bhājayata ← √bhaj- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}

ihá ← ihá (invariable)
{}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}

iva ← iva (invariable)
{}

mātáraḥ ← mātár- (nominal stem)
{case:NOM, gender:F, number:PL}

uśatī́ḥ ← √vaś- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}

पद-पाठः

यः । वः॒ । शि॒वऽत॑मः । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ।
उ॒श॒तीःऽइ॑व । मा॒तरः॑ ॥

Hellwig Grammar
  • yoyaḥyad
  • [noun], nominative, singular, masculine
  • “who; which; yat [pronoun].”

  • vaḥtvad
  • [noun], genitive, plural
  • “you.”

  • śivatamośivatamaḥśivatama
  • [noun], nominative, singular, masculine

  • rasasrasaḥrasa
  • [noun], nominative, singular, masculine
  • “mercury; juice; medicine; rasa; alchemy; liquid; Rasa; mahārasa; taste; broth; elixir; resin; rasa; essence; six; water; soup; liquid body substance; rasa; formulation; myrrh; rasa [word]; amṛta; purpose; delight; solution; milk; beverage; alcohol; sap; nectar; Rasātala.”

  • tasyatad
  • [noun], genitive, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • bhājayatehabhājayatabhājay√bhaj
  • [verb], plural, Present imperative
  • “distribute.”

  • bhājayatehaiha
  • [adverb]
  • “here; now; in this world; now; below; there; here; just.”

  • naḥmad
  • [noun], dative, plural
  • “I; mine.”

  • uśatīruśatīḥvaś
  • [verb noun], nominative, plural
  • “desire; agree; call; care; like; love.”

  • iva
  • [adverb]
  • “like; as it were; somehow; just so.”

  • mātaraḥmātṛ
  • [noun], nominative, plural, feminine
  • “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”

सायण-भाष्यम्

हे आपः वः युष्माकं स्वभूतः यः रसः शिवतमः सुखतमः इह अस्मिँल्लोके तस्य तं रसं नः अस्मान् भाजयत सेवयत । उपयोजयतेत्यर्थः। तत्र दृष्टान्तः । उशतीरिव उशत्य इव पुत्रसमृद्धिं कामयमानाः मातरः स्तन्यरसं यथा भाजयन्ति प्रापयन्ति तद्वत् ॥


अथ द्वितीयामाह— यो वः शिवतम इति। यो युष्माक्रं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति, इहास्मिन्कर्मणि नोऽस्मांस्तस्य भाजयत (तं) रसं प्रापयत। तत्र दृष्टान्तः—उशतीरिव मातर इति। कामयमानाः प्रीतियुक्ता मातरो यथा वत्सान्स्वकीयस्तन्यरसं प्रापयन्ति तद्वत्।

भट्टभास्कर-टीका

12यो वः युष्माकं शिवतमो रसः तं अस्मात् भाजयत इह कर्मणि । तस्य वा एकदेशमस्मान् प्रापयत उशतीव कामयमाना मातर इवेति द्वितीया ॥

Wilson
English translation:

“Give us to partake in this world of your most auspicious Soma, like affectionate mothers.”

Jamison Brereton

Your most beneficent juice—make us have a share in that here,
like eager mothers (their milk).

Griffith

Give us a portion of the sap, the most auspicious that ye have,
Like mothers in their longing love.

Geldner

Was euer angenehmstes Naß ist, des machet uns hier teilhaftig wie die liebevollen Mütter ihrer Milch!

Grassmann

Welch segenreichster Saft euch ist, an dem lasst Theil uns haben hier, Den liebevollen Müttern gleich.

Elizarenkova

Какая у вас самая целительная влага,
Наделите нас ею здесь,
Как любящие матери!

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे जलों ! तुम्हारा (यः) जो (शिवतमः-रसः) अत्यन्त कल्याणसाधक रस है-स्वाद है (तस्य नः) उसे हमें (इह) इस शरीर में (भाजयत) सेवन कराओ (उशतीः-मातरः-इव) पुत्रसमृद्धि को चाहती हुई माताओं के समान, वे जैसेअपना दूध पुत्र को सेवन कराती हैं-पिलाती हैं ॥२॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जलों के अन्दर तृप्तिकर स्वाद है, जोकि सुख देनेवाला है और भोजन को रस में परिणत करता है। इसी प्रकार आप विद्वान् जनों का ज्ञानरस आत्मा को सुख वा जीवन देता है। उनके उपदेशों का श्रवण करना चाहिये ॥२॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (वः) हे आपः ! युष्माकं (यः) यः खलु (शिवतमः-रसः) कल्याणतमोऽतिकल्याणसाधको रसोऽस्ति (तस्य नः) तम् “व्यत्ययेन षष्ठी” नोऽस्मान् (इह) अस्मिन् शरीरे (भाजयत) सेवयत (उशतीः-मातरः-इव) पुत्रसमृद्धिं कामयमाना मातर इव, यथा ताः स्वस्तन्यं रसं दुग्धं पुत्रं भाजयन्ति पाययन्ति तद्वत् ॥२॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

003 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - आपः
  • ऋषिः - त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वांबरीषः
  • छन्दः - गायत्री
Thomson & Solcum

त꣡स्मा अ꣡रं गमाम वो
य꣡स्य क्ष꣡याय जि꣡न्वथ
आ꣡पो जन꣡यथा च नः

Vedaweb annotation
Strata

Cretic

Pāda-label

genre M
genre M
genre M

Morph

áram ← áram (invariable)
{}

gamāma ← √gam- (root)
{number:PL, person:1, mood:SBJV, tense:AOR, voice:ACT}

tásmai ← sá- ~ tá- (pronoun)
{case:DAT, gender:M, number:SG}

vaḥ ← tvám (pronoun)
{case:ACC, number:PL}

jínvatha ← √ji- 2 ~ jinv- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

kṣáyāya ← kṣáya- (nominal stem)
{case:DAT, gender:M, number:SG}

yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}

ā́paḥ ← áp- (nominal stem)
{case:VOC, gender:F, number:PL}

ca ← ca (invariable)
{}

janáyatha ← √janⁱ- (root)
{number:PL, person:2, mood:IND, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

पद-पाठः

तस्मै॑ । अर॑म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ।
आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥

Hellwig Grammar
  • tasmātasmaitad
  • [noun], dative, singular, masculine
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • araṃaram
  • [adverb]

  • gamāmagam
  • [verb], plural, Present imperative
  • “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”

  • vovaḥtvad
  • [noun], dative, plural
  • “you.”

  • yasyayad
  • [noun], genitive, singular, masculine
  • “who; which; yat [pronoun].”

  • kṣayāyakṣaya
  • [noun], dative, singular, masculine
  • “dwelling; house; kṣaya [word]; home; family.”

  • jinvathajinv
  • [verb], plural, Present indikative
  • “enliven; animate.”

  • āpoāpaḥap
  • [noun], vocative, plural, feminine
  • “water; body of water; water; ap [word]; juice; jala.”

  • janayathājanay√jan
  • [verb], plural, Present indikative
  • “cause; give birth; produce; beget; generate; originate; create; create; make.”

  • ca
  • [adverb]
  • “and; besides; then; now; even.”

  • naḥmad
  • [noun], accusative, plural
  • “I; mine.”

सायण-भाष्यम्

हे आपः यूयं यस्य पापस्य क्षयाय विनाशाय अस्मान् जिन्वथ प्रीणयथ तस्मै तादृशाय पापक्षयाय अरं क्षिप्र वः युष्मान् गमाम गमयाम । वयं शिरसि प्रक्षिपामेत्यर्थः । यद्वा । यस्यान्नस्य क्षयाय निवासार्थं यूयमोषधीर्जिन्वथ तर्पयथ तस्मै तदन्नमुद्दिश्य वयमरमलं पर्याप्तं यथा भवति तथा वो युष्मान् गमाम गच्छाम । किंच हे आपः नः अस्मान् जनयथ । पुत्रपौत्रादिजनने प्रयोजयतेत्यर्थः ॥


अथ तृतीयामाह— तस्मा अरमिति। यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ, तस्मै रसाय वौ युष्मानरं गमामालं भृशं प्राप्नुमः । किंच हे आपो यूयं नोऽस्माञ्जनयथ प्रजोत्पादकन्कुरुथ। एतैर्मन्त्रैः साध्यं जलमेलनं विधत्ते— ‘अप उप सृजत्यापो वै शान्ताः शान्ताभिरेवास्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति। अस्याग्नेः शुचं शोकं दाहमित्यर्थः।
आपो हि ष्ठेत्याद्यृचस्तत्र विनियुङ्क्ते— ‘तिसृभिरुप सृजति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचꣳ शमयति’ (सं. का. ५ प्र. १ अ. ६) इति।
आहवनीयादिरूपेणाग्नेस्त्रैगुण्यम्। तस्य सर्वस्याग्नेर्मन्त्रत्रयेण दाहशान्तिः। ]

भट्टभास्कर-टीका

13तस्मै युष्माकं रसाय पर्याप्तं गमाम तं गम्यास्स्म । यस्य रसस्य क्षयाय निवासभूतं पुरुषं जिन्वथ प्रीणयथ । किञ्च - अस्मान् हे आपः! जनयथ जातान्कुरुत युष्मद्रसवन्तो हि जाता भवन्तीति तृतीया ॥

Wilson
English translation:

“Let us quickly have recourse to you, for that your (faculty) of removing (sin) by which you gladden us;waters, bestow upon us progeny.”

Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Let us go to you at once for him to whose house you are hastening; waters,reinvogorate us; faculty of removing sin: kṣaya = nivāsa, abode;

Aram = paryāptim, sufficiency; perhaps arecommendation to be regular in practising ablution

Jamison Brereton

Let us, as your (offspring), go to be fit for him for whose peaceful dwelling you animate
and beget us, o Waters.

Griffith

To you we gladly come for him to whose abode ye send us on;
And, Waters, give us procreant strength.

Geldner

Dem möchten wir euch recht kommen, für dessen Haus ihr uns erfrischet und neugebäret, ihr Gewässer.

Grassmann

Für solchen gehn wir euch zur Hand, zu dessen Sitz ihr eilend naht, Ihr Wasser machet kräftig uns.

Elizarenkova

Мы хотим прийтись у вас ко двору тому,
Для чьего жилища вы нас освежаете,
О воды, и возрождайте (снова).

अधिमन्त्रम् (VC)
  • आपः
  • त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाम्बरीषः
  • गायत्री
  • षड्जः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य) जिस रस के (क्षयाय) निवास के लिए-सात्म्य करने के लिए-संस्थापित करने के लिए (आपः) हे जलो ! (जिन्वथ) तृप्त करते हो (तस्मै) उस रस के लिए-उसकी पुष्टि के लिए (वः) तुम्हें (अरं गमाम) हम पूर्णरूप से सेवन करते हैं (च) और (नः) हमें (जनयथ) प्रादुर्भूत-समृद्ध-पुष्ट करते हो ॥३॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जल का सार भाग शरीर में सात्म्य हो जाता है, वह समृद्ध करने, पुष्ट करने का निमित्त बनता है। इसी प्रकार आप विद्वान् जनों का ज्ञान-सार आत्मा में बैठ जाता है, जो आत्मा को बल देता है ॥३॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (यस्य क्षयाय) यस्य रसस्य निवासाय शरीरे सात्म्यकरणाय संस्थापनाय“क्षि निवासगत्योः” तुदादिः हे आपः ! तर्पयथ (तस्मै वः-अरं गमाम) तत्प्राप्तये युष्मान् पूर्णरूपेण सेवेमहि (च) यतश्च (नः-जनयथ) अस्मान् प्रादुर्भावयथ पोषयथ, उक्तं यथा-“वेत्थ यदा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” [छान्दो० ५।३।३] ॥३॥

विश्वास-प्रस्तुतिः ...{Loading}...

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाꣳ॑ अ॒ग्नीꣳर् अ॑फ्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त

सर्वाष् टीकाः ...{Loading}...
मूलम्

शि॒वेन॑ मा॒ चख्षु॑षा पश्यतापश् - शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।

सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒, मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ।

भट्टभास्कर-टीका

4चतुर्थी - शिवेनेति त्रिष्टुप् ॥ आप इति प्रथमपादान्तः । हे आपः! शिवेन शान्तेन चक्षुषा मां पश्यत । किञ्च - शिवया तनुवा शरीरेण मे त्वचमुपस्पृशत । तथा कृते अहमासादितात्मा सर्वानग्नीनप्सुषदः ये अप्सु युष्मासु सीदन्ति तान्युष्मत्सम्बन्धिनः युष्मदर्थं वा हुवे आह्वयामि । ‘दीर्घादटि समानपादे’ इत्युभयत्र रुत्वम्, ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । यूयमपि मयि वर्चं अन्नं वलं सामर्थ्यं ओजस्तेजश्च निधत्त नियमेन स्था- पयत ॥