११ पुनस्-संस्कार-निमित्तानि

पुनस्संस्कारनिमित्तानि

तीर्थयात्रां विना गौडवङ्गकलिङ्गसौवीरसौराष्ट्रमागधावन्तिदक्षिणापथादिदेशगमने सिन्धुतरणे विण्मूत्रप्राशने मद्यप्राशने सर्वेषां पुनरुपनयनं ब्रह्मचारिणस्तु प्रेतनिर्हरणे पितृमातृपितामहाचार्योपाध्यायमातुलपितृव्यज्येष्ठेभ्यः अन्येषां प्रेतकार्ये पितृमातृज्येष्ठभ्रात्राचार्यव्यतिरिक्तोच्छिष्टान्नप्रेतान्नाशौचान्नगणान्नगणिकान्नशूद्रान्नसूतकान्नभोजने श्राद्धभोजने अनिर्दशाहक्षीरपाने मधुमांसभक्षणे मातरि रजस्वलायाम् उपनयने च पुनरुपनयनं कार्यम् । उपवीतपरित्यागे सप्तकृच्छ्राणि कृत्वा पुनरुपनयनं कुर्यात् । मेखलाजिनमौञ्जीभिक्षाचरणत्रिरात्रव्रतानि पुनरुपनयने वर्जयेत् ।

॥ इति प्रयोगचन्द्रिकायां दशमः खण्डः ॥