इतरे विषयाः

आश्वलायनमधुपर्कः

॥ अथ आश्वलायनमधुपर्कः ॥

यजमानः - विष्टरो विष्टरो विष्टरः इत्युक्ते । अहं वर्ष्म सजातानां विद्युतामिव सूर्यः । इदं तमधितिष्ठामि यो मा कश्चाभिदासति उदगग्रे विष्टर उपविशेत् । पाद्यं पाद्यं पाद्यं इत्युक्ते पाद्येन पादौ प्रक्षालयीत । दक्षिणमग्रे अर्घ्यमर्घ्यमर्घ्यं इत्युक्ते अर्घ्यमञ्जलिना प्रतिगृह्य शिरसि प्रोक्षेत् । आचमनीयमाचमनीयमाचमनीयं इत्युक्ते गृहीत्वा निधाय । मधुपर्को मधुपर्को मधुपर्कः इत्युक्ते मित्रस्य त्वा चक्षुषा प्रतीक्षे मधुपर्कमाह्रियमाणमीक्षते । देवस्य त्वा — हस्ताभ्यां प्रतिगृह्णामि तदञ्जलिना प्रतिगृह्य सव्ये पाणौ कृत्वा । मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः । मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । मधुमान्नो वनस्पतिर्मधुमान् अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । अङ्गुष्ठानामिकाभ्यां प्रदक्षिणमालोड्य । वसवस्त्वा गायत्रेण छन्दसा भक्षयन्तु पुरस्तान्निमार्ष्टि । रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्तु दक्षिणतः । आदित्यास्त्वा जागतेन छन्दसा भक्षयन्तु पश्चात् । विश्वे त्वा देवा आनुष्टुभेन छन्दसा भक्षयन्तु उत्तरतः । भूतेभ्यस्त्वा मध्यात्त्रिरुद्गृह्य निमार्ष्टि । अथ आचमनीयेनाचामति अमृतोपस्तरणमसि । विराजो दोहोऽसि प्रथमं प्राश्नीयात् । विराजो देहमशीय द्वितीयम् । मयिदोहः पद्यायै विराजः तृतीयम् । न सर्वं न तृप्तिं गच्छेत् । ब्राह्मणायोदगुच्छिष्टं प्रयच्छेत् । अलाभे अप्सु वा सर्वम् । अथ आचमनीयेनान्वाचामति । अमृतापिधानमसि । सत्यं यशश्श्रीर्मयि श्रीश्श्रयतां इति निश्शेषं द्वितीयमाचमनम् । गौः गौः गौः इत्युक्ते माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्रणु वोचं चिकितुषे जनाय मागामनागामदितिं वधिष्ट इति जपित्वा । ओमुत्सृजत उत्सृजति ।

॥ इति आश्वलायनमधुपर्कः ॥



आपस्तम्बीयमधुपर्कप्रयोगः

॥ अथ आपस्तम्बीयमधुपर्कप्रयोगः ॥

यजमानः पत्न्या सह प्राणानायम्य आगतान् ऋत्विजः मधुपर्केण अर्हयिष्ये इति सङ्कल्प्य । मधुपर्कप्रदः कूर्चः कूर्चं ददाति । अध्वर्युः - राष्ट्रभृदस्याचार्यासन्दी मात्वद्योषं इति यजुषा तस्मिन्कूर्चे प्राङ्मुख उपविशेत् । आपः पाद्याः पाद्यमुदकं प्रयच्छति । आपः पादावनेजनीर्द्विशन्तं नाशयन्तु मे । अस्मिन्कुले ब्रह्मवर्चस्यसानि इत्यपोऽभिमन्त्र्य । प्रथमं प्रक्षालयित्रे ब्राह्मणाय दक्षिणं पादं प्रयच्छेत् । यजमानः दक्षिणं पादं सव्यं च ताभिरद्भिः प्रक्षालयेत् । अध्वर्युः - प्रक्षालयितारमुपस्पृश्य उत्तरेण यजुषा आत्मानं प्रत्यभिमृशेत् । मयि महो मयियशो मयीन्द्रियं वीर्यम् । अप उपस्पृशेत् । पुष्पगन्धादियुक्तं अर्घ्यं मृन्मये निधाय कूर्चाभ्यां परिगृह्य अर्हणीया आप इति प्रयच्छति । अध्वर्युः - आ मागन् यशसा वर्चसा सꣳसृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वदिपतिं पशूनां अपोऽभिमन्त्र्य । अञ्जलावेकदेशे आनीयमाने उत्तरं यजुर्जपेत् विराजो दोहोऽसि विराजो दोहमशीय मम पद्याय विराज इति । शेषं पुरस्तान्निनीयमान उत्तरयानुमन्त्रयते समुद्रं वः प्रहिणोमि स्वां योनिमपि गच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पयः इति । अस्मिन्काले यजमानः ऋत्विग्भ्यो वस्त्राङ्गुलीयकादि अलङ्करणानि दद्यात् । अत्र द्वितीयं ब्रह्मसूत्रं केचित् प्रयच्छन्ति । दधिमध्विति संसृज्य । कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य मधुपर्क इति प्राह । अध्वर्युः - त्रय्यै विद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो दीप्तिरसि । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनां । आ मागन् यशसा वर्चसा सꣳसृज पयसा तेजसा च । तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनां इति द्वाभ्यामभिमन्त्र्य । आचम्य । अमृतोपस्तरणमसि अपोशनं कृत्वा । यन्मधुनो मधव्यं परममन्नाद्यं वीर्यम् । तेनाहं मधुनो मधव्येण परमेणान्नाद्येन वीर्येण परमोऽन्नादो मधव्योऽसानि इति मधुपर्कं त्रिः प्राश्य सकृन्मन्त्रेण द्विस्तूष्णीम् । अमृतापि-धानमसि अपोशनं कुर्यात् । आचम्य । शेषं शिष्यादिभ्यः प्रयच्छेत् । न ब्रह्मचारिणे । यजमानः गौः इत्युक्ते । अध्वर्युः - यज्ञो वर्धतां यज्ञस्य वृद्धिमनु वर्धापचितिरस्यपचितिं मा कुर्वपचितोऽहं मनुष्येषु भूयासम् । गौर्धेनुभव्या माता रुद्राणां दुहिता वसूनाꣳ स्वसादित्यानाममृतस्य नाभिः । प्रणु वोचं चिकितुषे जनाय मागामनागा मदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु इत्युपांशूक्त्वा ओं उत्सृजत इत्युच्चैः प्रब्रूयात् । अन्नं प्रोक्तमुपांशूत्तरैरभमन्त्र्य कल्पयतेत्युच्चैः । यजमानः सिद्धमन्नं भूतं । अध्वर्युः - भूतं, सुभूतं, सा विराट् तन्माक्षायि तस्य तेऽशीय तन्म ऊर्जं धाः इति उपांश्वभिमन्त्र्य ओं कल्पयत इत्युच्चैरनुजानीयात् । ततो भोजनं पूज्यस्य ।

॥ इति आपस्तम्बीय मधुपर्कः ॥



द्विपशुप्रयोगः

॥ द्विपशुप्रयोगः ॥

पशुशाखाहरणे एकैव शाखा मन्त्रेण । एकामेव प्लक्षशाखां तूष्णीम् । त्रिवृत्पलाशे दर्भ — पशू हव्यं करोतु मे । प्रतिपशु स्वरुः१ । दिवस्सूनू स्थः तन्त्रेण स्वरू आदाय । अन्तरिक्षस्य वाꣳ सानाववगूहामि । इषे त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टमुपाकरोमि । प्रज्ञाते बर्हिषी निधाय । अन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमि । तेऽपि बर्हिषी प्रज्ञाते निधाय । उपाकृत्य पञ्च जुहोति । प्रजानन्तः — सुवर्गं यातं पथिभिः — प्रतितिष्ठतꣳ शरीरैस्स्वाहा । पशुभ्यामिदम् । येषामीशे — निष्क्रीताविमौ यज्ञियं भागमिताꣳ रायस्पोषा — स्वाहा ॥ ये बध्यमानावनुबध्यमाना अभ्यैक्षन्त — स्वाहा । य आरण्याः — स्वाहा ॥ प्रमुञ्चमाना — देवाः । उपाकृतौ शशमानौ यदस्थाज्जीवं देवानामपीतां पाथस्स्वाहा ॥ देवस्य त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टं नियुनज्मि । पुनर्देवस्य त्वेत्यादि । इन्द्राग्निभ्यां त्वा जुष्टं नियुनज्मि । उत्तरतो यूपस्य नियुनक्ति । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि । इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि । अपां पेरुरसीत्यादि सर्वतश्च प्रोक्ष्येत्यन्तं एकस्य कृत्वा पुनरन्यस्य करोति२ । स्रुच्यमाघार्य प्रत्याक्रम्य । जुह्वा पशू समनक्ति । सं ते प्राणो इत्यादि । श्रोण्यां, इत्यन्तं एकस्य कृत्वा इतरस्य करोति । ध्रुवा समञ्जनादि कर्म प्रतिपद्यते । दश प्रयाजानिष्ट्वा प्रत्याक्रम्य जुह्वा स्वरुद्वयं स्वधितिं च अनक्ति । स्वर्वञ्जनं तन्त्रेण करोति । सकृत् स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना एकं पशुं समनक्ति । पुनः स्वधित्यञ्जनम् । अन्यं स्वरुमन्तर्धाय स्वधितिना एवमितरं समनक्ति । पर्यग्निकरणं तन्त्रेण । पर्यग्नये क्रियमाणायानुब्रूहि इत्यनूहेन सम्प्रेष्यति । प्रजानन्तः — सुवर्गं यातं — प्रतितिष्ठतꣳ शरीरैस्स्वाहा ॥ पशुपतेः पशवो — तेषां यौ वव्रिरे देवास्तौ स्वराडनुमन्यताꣳ स्वाहा ॥ उभयोस्तन्त्रेण प्रमोकः । ये बध्यमानावनु बध्यमाना — स्वाहा ॥ प्रमुञ्चमाना — देवाः । उपाकृतौ शशमानौ यदस्थाज्जीवं देवानामपीतां पाथस्स्वाहा ॥ प्रणीयमाने । वपाश्रपणीभ्यां मुख्यं पशुमन्वारभेते अध्वर्युर्यजमानश्च । एक एव अध्रिगु संप्रैषः । तन्त्रेण अग्नेर्हरणम् । नाना प्राणो यजमानस्य पशुभ्यां यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपीतां पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ अध्वर्युर्जपति । पृथिव्यास्संपृचः पाहि इत्यावर्तते । अमायुं कृण्वन्तौ संज्ञपयत इति सम्प्रैषः । स्वर्विदौ स्थस्स्वर्वित्वा स्वरितꣳ स्वर्मह्यꣳ स्वः पशुभ्यो लोकविदौ स्थो लोकं वित्वा लोकमितं लोकं मह्यं लोकं पशुभ्यो गातुविदौ स्थो गातुं वित्वा गातुमितं गातुं मह्यं गातुं पशुभ्यो नाथविदौ स्थो नाथं वित्वा नाथमितं नाथं मह्यं नाथं पशुभ्यः ॥ न वा उवे तन्म्रियेथे न रिष्यथो देवाꣳ इदिथो पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र वां देवस्सविता दधातु ॥ आशानां वामाशापालेभ्यः — वयम् ॥ नाना प्राणो यजमानस्य पशुभ्यां यज्ञो — जीवं देवानामपीतां पाथः — कामाः ॥ इन्द्रस्य भागः सुवितेट्ठ— यो नो द्वेष्ट्यनु तꣳ रवेथां – वीराः । यदस्य पारे रजसः — स्वाहा । यस्माद्भीषा वाशिषाथां ततो नो अभयं कृतम् १ । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषान्यषदतं ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा वेपिषाथां ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा पलायिषाथां ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा समज्ञासाथां ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा निमेहथः ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ यस्माद्भीषा शकृत्कुरुथस्ततो नो अभयं कृतम् । प्रजाभ्यस्सर्वाभ्यो मृडतं नमो रुद्राय मीढुषे स्वाहा ॥ यत्पशू मायुमकृषातामुरो वा पद्भिराहेते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳहसस्स्वाहा ॥ वपाश्रपण्योः तन्त्रेण प्रतितपनम् । शमितार उपेतन — पाशाभ्यां पशू प्रमुञ्चत — परि ॥ अदितिः पाशं प्रमुमोक्त्वेतं नमः पशुभ्यः पशुपतये करोमि इति क्रमेण पाशौ प्रमुच्य अरातीयन्तमिति तन्त्रेण व्युदसनम् । वाक्त आप्यायतां इति क्रमेण आप्यायनम् । शमोषधीभ्य इति शेषमन्ते निनीय । ओषधे त्रायस्वैनं इत्यादि क्रमेण । रक्षसां भागौ स्थः इति निरसनम् । अग्नीषोमाभ्यां त्वा जुष्टामुत्कृन्तामि । इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामि । शमिता तु वपोद्धरणापिधानं मुख्यस्यैव करोति । प्रत्युष्टं इति शामित्रे प्रतितपनं तन्त्रेण । मुख्यस्य वपाश्रपण्योरन्वारम्भः । निर्दग्धं इति आहवनीयस्य अन्तमे अङ्गाारे वपां निकूडनं तन्त्रेण । वायो वीहि इति भेदेन । त्वामु ते दधिरे इति अभिहोमः तन्त्रेण । यस्त आत्मा इति प्रत्येकमनूहेन अभिघारणम् । केचिदूहमिच्छन्ति२ । दृꣳहतं गा दृꣳहतं गोपतिं मा वो यज्ञपती रिषत् इति तन्त्रेणोद्वास्य । सुपिप्पला ओषधीः कृतं इति तन्त्रेणासादनम्१ । प्रयुता द्वेषाꣳसि इत्यावृत्तिः । इदमिन्द्रियं इति भेदेन अभिमर्शनम् । उत्तमप्रयाजादि । पूर्वं परिवप्यं हुत्वा क्रमेण वपाप्रचारः । अग्नीषोमाभ्यां छागस्य वपाया मेदसोऽनुब्रूहि । अग्नीषोमाभ्यां छागस्य वपाया मेदसः प्रेष्य । इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रूहि । इन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्य । उभयोरिन्द्रियावी भूयासम् । जेॆमानमिति वा । उत्तरं परिवप्यं हुत्वा । पृथग्वपोद्धरणाभिघारणं वपाश्रपणी प्रहरणं च । सकृदेव संस्रावेणाभिजुहोति ।

पशुपुरोडाशकाले द्वाविंशतिकपालानि । निर्वपणकाले अग्नीषोमाभ्यां त्वा जुष्टं निर्वपामि । इन्द्राग्निभ्यां त्वा जुष्टं निर्वपामि । अग्नीषोमौ हव्यꣳ रक्षेथामिन्द्राग्नी हव्यꣳ रक्षेथाम् । एवमेव प्रोक्षणमधिवापस्संवापश्च । हविष्कृता वाचं विसृज्य पशुं विशास्ति । गुदे मा निर्व्लेषीर्वनिष्ठू मा निर्व्लेषीः इति संप्रेष्यति । उभयोस्तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो, यो नः कनीयो, ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनम् । प्रचरणकाले अग्नीषोमाभ्यां पुरोडाशस्यानुब्रूहि । अग्नीषोमाभ्यां पुरोडाशस्य प्रेष्य । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् । इन्द्राग्निभ्यां पुरोडाशस्यानुब्रूहि । इन्द्राग्निभ्यां पुरोडाशस्य प्रेष्य । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । शृतꣳ हवीश्शमितः इत्याद्यनूहः । सं ते मनसा — अग्नीषोमाभ्यां त्वा जुष्टमभिघारयामि । अन्यः पृषदाज्यमानयति । अध्वर्युः पुनः सं ते मनसा — इन्द्राग्निभ्यां त्वा जुष्टमभिघारयामि । यस्त आत्मेति क्रमेण आज्येन पशुमभिघारयति । स्वाहोष्मण इति ऊष्माभिमन्त्रणं तन्त्रेण । उद्वासनं क्रमेण स्वेन स्वेन हृदयशूलेन सह । पञ्चहोत्रासादनं क्रमेण । इदमिन्द्रियमिति क्रमेण । अभ्यावर्तते मनोता । चतसृषूपस्तृणीतेत्यादि । जुह्वां दैवतान्यवधाय उपभृति स्विष्टकृदर्थं त्र्यङ्गान्यवधाय नाभिघारयति । अथ हविषा प्रचरति । अग्नीषोमाभ्यां छागस्य हविषोऽनुब्रू३हि । अग्नीषोमाभ्यां छागस्य हविषः प्रेष्य । अर्धर्चे वसाहोमं कृत्वा न दिग्यागः । वसाहोमशेषमन्यत्र निधाय । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवधाय उपभृति हविष्येव त्र्यङ्गान्यवधाय द्विरभिघारयति । ऐन्द्राग्नयागः । इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रू३हि । इन्द्राग्निभ्यां छागस्य हविषः प्रेष्य । पुर्ववद्वसाहोमं कृत्वा उभयोर्वसाशेषमेकीकृत्य दिग्यागः । उभयोरिन्द्रियावी भूयासम् । जेॆमानमिति वा । वनस्पतियागादि । गुदहोमे उभयोर्गुदकाण्डैरुपयज उपयजति । समुद्रं गच्छतꣳ स्वाहान्तरिक्षं गच्छतꣳ स्वाहा इत्यादि सर्वत्र ऊहः । न स्वरुहोमः । न शूलद्वयोरुद्वासनम् । अननूबन्ध्यापक्षे सवनीयेन सह स्वरुहोमः शूलोद्वासनं च । उभयोर्जाघनीभ्यां तन्त्रेण पत्नीस्संयाजयन्ति । सन्तिष्ठते द्विपशुप्रयोगः ।

॥ इति द्विपशु प्रयोगः ॥



त्रिपशुप्रयोगः

॥ अथ त्रिपशुप्रयोगः ॥

पशुशाखाहरणे एकैव शाखा मन्त्रेण । एकामेव प्लक्षशाखां तूष्णीं । त्रिवृत्पलाशे दर्भः — पशून् हव्यं करोतु मे । प्रतिपशु स्वरुः१ । दिवस्सूनवस्स्थ तन्त्रेण स्वरूनादाय । अन्तरिक्षस्य वो सानाववगूहामि । इषे त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टमुपाकरोमि । प्रज्ञाते बर्हिषी निधाय । अन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया इन्द्राग्निभ्यां त्वा जुष्टमुपाकरोमि । तेऽपि बर्हिषी प्रज्ञाते निधाय । पुनरन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया अश्विभ्यां त्वा जुष्टमुपाकरोमि । तेऽपि बर्हिषी प्रज्ञाते निधाय । उपाकृत्य पञ्च जुहोति । प्रजानन्तः — सुवर्गं यात पथिभिः —प्रतितिष्ठत शरीरैस्स्वाहा । पशुभ्य इदम् । येषामीशे — निष्क्रीता इमे यज्ञियं भागं यन्तु रायस्पोषा —ट्ठसन्तु स्वाहा ॥ ये बध्यमानाननुबध्यमाना अभ्यैक्षन्त — संविदानस्स्वाहा ॥ य आरण्याः — स्वाहा ॥ प्रमुञ्चमाना — देवाः । उपाकृताञ्च्छशमानान् यदस्थाज्जीवं देवानामपि यन्तु पाथस्स्वाहा ॥ देवस्य त्वेत्यादि । अग्नीषोमाभ्यां त्वा जुष्टं नियुनज्मि । पुनर्देवस्य त्वेत्यादि । इन्द्राग्निभ्यां त्वा जुष्टं नियुनज्मि । पुनर्देवस्य त्वेत्यादि । अश्विभ्यां त्वा जुष्टं नियुनज्मि । उत्तरतो यूपस्य नियुनक्ति । अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि । इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि । अश्विभ्यां त्वा जुष्टं प्रोक्षामि । अपां पेरुरसीत्यादि२ सर्वतश्च प्रोक्ष्येत्यन्तं एकस्य कृत्वा पुनरन्यस्य करोति । स्रुच्यमाघार्य प्रत्याक्रम्य । जुह्वा पशून् समनक्ति । सं ते प्राणो वायुना इत्यादि । श्रोण्यां, इत्यन्तं एकस्य कृत्वा इतरस्य करोति । ध्रुवा समञ्जनादि कर्म प्रतिपद्यते । दश प्रयाजानिष्ट्वा प्रत्याक्रम्य जुह्वा स्वरुत्रयं स्वधितिं च अनक्ति । स्वर्वञ्जनं तन्त्रेण करोति । सकृत् स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना एकं पशुं समनक्ति । पुनः स्वधित्यञ्जनम् । अन्यमन्यं स्वरुमन्तर्धाय स्वधितिना एवमितरौ समनक्ति । पर्यग्निकरणं तन्त्रेण । पर्यग्नये क्रियमाणायानुब्रूहि इत्यनूहेन सम्प्रेष्यति । प्रजानन्तः — सुवर्गं यात पथिभिः — प्रतितिष्ठत शरीरैस्स्वाहा । पशुपतेः पशवो — तेषां यान् वव्रिरे देवास्ताꣳ स्वराडनुमन्यताꣳ स्वाहा ॥ त्रयाणां तन्त्रेण प्रमोकः । ये बध्यमानाननुबध्यमाना अभ्यैक्षन्त संविदानस्स्वाहा ॥ प्रमुच्यमाने । प्रमुञ्चमाना — देवाः । उपाकृताञ्च्छशमानान् यदस्थाज्जीवं देवानामपि यन्तु पाथस्स्वाहा ॥ प्रणीयमाने । वपाश्रपणीभ्यां मुख्यं पशुमन्वारभेते अध्वर्युर्यजमानश्च । एक एव अध्रिगुसम्प्रैषः । तन्त्रेण अग्नेर्हरणम् । नाना प्राणो यजमानस्य पशुभिर्यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपि यन्तु पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ अध्वर्युर्जपति । पृथिव्यास्सम्पृचः पाहि इत्यावर्तते । अमायुं कृण्वन्तः संज्ञपयत इति सम्प्रैषः । स्वर्विदस्स्थ स्वर्वित्वा स्वरित स्वर्मह्यꣳ स्वः पशुभ्यो लोकविदस्स्थ लोकं वित्वा लोकमित लोकं मह्यं लोकं पशुभ्यो गातुविदस्स्थ गातुं वित्वा गातुमित गातुं मह्यं गातुं पशुभ्यो नाथविदस्स्थ नाथं वित्वा नाथमित नाथं मह्यं नाथं पशुभ्यः ॥ न वा उवे तन्म्रियध्वे न रिष्यथ देवाꣳ इदिथ पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र वो देवस्सविता दधातु ॥ आशानां व आशापालेभ्यः — वयम् ॥ नाना प्राणो यजमानस्य पशुभिर्यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपि यन्तु पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ इन्द्रस्य भागः सुविते — यो नो द्वेष्ट्यनुतꣳ रवध्वं — वीराः । यदस्य पारे रजसः — स्वाहा । यस्माद्भीषा वाशिढ्वं ततो नो अभयं कृत१ । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा न्यषदत ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा वेपिढ्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा पलायिढ्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा समज्ञाध्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा निमेहथ ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ यस्माद्भीषा शकृत्कुरुथ ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ यत्पशवो मायुमकृषतोरो वा पद्भिराघ्नते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳहसस्स्वाहा ॥

वपाश्रपण्योः तन्त्रेण प्रतितपनम् । शमितार उपेतन — पाशेभ्यः पशून् प्रमुञ्चत —परि ॥ अदितिः पाशं प्रमुमोक्त्वेतन्नमः — करोमि इति क्रमेण पाशान् प्रमुच्य अरातीयन्तमिति तन्त्रेण व्युदसनम् । वाक्त आप्यायतां इति क्रमेण आप्यायनम् । शमोषधीभ्य इति सर्वेषामन्ते निनीय । ओषधे त्रायस्व इत्यादि क्रमेण । रक्षसां भागास्स्थ इति निरसनम् । अग्नीषोमाभ्यां त्वा जुष्टामुत्कृन्तामि । इन्द्राग्निभ्यां त्वा जुष्टामुत्कृन्तामि । अश्विभ्यां त्वा जुष्टामुत्कृन्तामि । शमिता तु वपोद्धरणापिधानं मुख्यस्यैव करोति । प्रत्युष्टमिति शामित्रे प्रतितपनं तन्त्रेण । मुख्यस्य वपाश्रपण्योः अन्वारम्भः । निर्दग्धमिति आहवनीयस्यान्तमे अङ्गारे वपानिकूडनं तन्त्रेण । वायो वीहि स्तोकानां इति भेदेन । त्वामु ते दधिरे इत्यभिहोमस्तन्त्रेण । यस्त आत्मा इति प्रत्येकमनूहेन अभिघारणम् । केचिदूहमिच्छन्ति १ । दृꣳहत गा दृꣳहत गोपतिं मा वो यज्ञपती रिषत् इति तन्त्रेणोद्वास्य । सुपिप्पला ओषधी कृत इति दक्षिणस्यां वेदिश्रोण्यां बर्हिषि प्लक्षशाखायां तन्त्रेणासादनम्२ । प्रयुता द्वेषाꣳसि इत्यावृत्तिः । इदमिन्द्रियं इति पृथक्पृथगभिमर्शनम् । उत्तमप्रयाजादि । पूर्वं परिवप्यं हुत्वा क्रमेण वपा प्रचारः । अग्नीषोमाभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि, अग्नीषोमाभ्यां छागस्य वपाया मेदसः प्रेष्य । इन्द्राग्निभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि । इन्द्राग्निभ्यां छागस्य वपाया मेदसः प्रेष्य । अश्विभ्यां छागस्य वपाया मेदसोऽनुब्रू३हि, अश्विभ्यां छागस्य वपाया मेदसः प्रेष्य । सर्वेषां इन्द्रियावी भूयासम् । जेमानं महिमानमिति वा । उत्तरं परिवप्यं हुत्वा । पृथग्वपोद्धरणाभिघारणं वपाश्रपणी प्रहरणं च । सकृदेव संस्रावेणाभिजुहोति ।

अग्नीषोमीयादीनां पशुपुरोडाशानां पात्रसंसादनादि कर्म प्रतिपद्यते । त्रयस्त्रिंशत् कपालानि स्फ्यश्च द्वन्द्वम् । निर्वपणकाले अग्नीषोमाभ्यां त्वा जुष्टं निर्वपामि । इन्द्राग्निभ्यां त्वा जुष्टं निर्वपामि । अश्विभ्यां त्वा जुष्टं निर्वपामि । अग्नीषोमौ हव्यꣳ रक्षेथामिन्द्राग्नी हव्यꣳ रक्षेथामश्विनौ हव्यꣳ रक्षेथाम् । एवमेव प्रोक्षणमधिवापस्संवापश्च । हविष्कृता वाचं विसृज्य पशुं विशास्ति । गुदानि मा निर्व्लेषीर्वनिष्ठून् मा निर्व्लेषीः इति सम्प्रेष्यति । सर्वेषां तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो, यो नः कनीयो — अपतमिन्द्राग्नी भुवनान्नुदेता — विदेय ऐन्द्राग्नम् । यो नः कनीयो —ट्ठअपतमश्विनौ भुवनान्नुदेता — विदेय आश्विनम् । ममाग्ने, पञ्चहोतेत्यासन्नाभिमर्शनम् । प्रचरणकाले अग्नीषोमाभ्यां पुरोडाशस्यानुब्रू३हि । अग्नीषोमाभ्यां पुरोडाशस्य प्रेष्य । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् । इन्द्राग्निभ्यां पुरोडाशस्यानुब्रू३हि । इन्द्राग्निभ्यां पुरोडाशस्य प्रेष्य । इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । अश्विभ्यां पुरोडाशस्यानुब्रू३हि । अश्विभ्यां पुरोडाशस्य प्रेष्य । अश्विभ्यामिदम् । अश्विनोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । शृतꣳ हवीः इत्याद्यनूहः । सं ते मनसा — अग्नीषोमाभ्यां त्वा जुष्टमभिघारयामि । अन्यः पृषदाज्यमानयति । अध्वर्युः पुनः सं ते मनसा — इन्द्राग्निभ्यां त्वा जुष्टमभिघारयामि । पुनः सं ते मनसा — अश्विभ्यां त्वा जुष्टमभिघारयामि । यस्त आत्मा इति क्रमेण आज्येन पशूनभिघारयति । स्वाहोष्मण इत्यूष्माभिमन्त्रणं तन्त्रेण । उद्वासनं क्रमेण स्वेन स्वेन हृदयशूलेन सह । पञ्चहोत्रासादनं क्रमेण । इदमिन्द्रियमिति क्रमेण । अभ्यावर्तते मनोता । चतसृषूपस्तृणीतेत्यादि । जुह्वां दैवतान्यवदाय उपभृति स्विष्टकृदर्थं त्र्यङ्गान्यवदाय नाभिघारयति । अथ हविषा प्रचरति । अग्नीषोमाभ्यां छागस्य हविषोऽनुब्रू३हि, अग्नीषोमाभ्यां छागस्य हविषः प्रेष्य । अर्धर्चे वसाहोमं कृत्वा न दिग्यागः । वसाहोमशेषमन्यत्र निधाय । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवदाय, उपभृति हविष्येव त्र्यङ्गान्यवदाय नाभिघारयति । अथ ऐन्द्राग्नयागः इन्द्राग्निभ्यां छागस्य हविषोऽनुब्रू३हि । इन्द्राग्निभ्यां छागस्य हविषः प्रेष्य । पूर्ववत् वसाहोमः, शेषनिधानं च । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवदाय, उपभृति हविष्येव त्र्यङ्गान्यवदाय द्विरभिघारयति आश्विनयागः अश्विभ्यां छागस्य हविषोऽनुब्रू३हि, अश्विभ्यां छागस्य हविषः प्रेष्य । पूर्ववत् वसाहोमं कृत्वा सर्वेषां वसाहोमशेषमेकीकृत्य दिग्यागः । सर्वेषां हविषां इन्द्रियावी भूयासं, जेमानं महिमानं इति वा अनुमन्त्रणम् । वनस्पतियागादि । गुदहोमे सर्वेषां गुदकाण्डैरुपयज उपयजति समुद्रं गच्छत स्वाहान्तरिक्षं गच्छत स्वाहा इत्यादि सर्वत्र ऊहः । न स्वरुहोमः । न हृदयशूलोद्वासनम् । अननूबन्ध्यापक्षे सवनीयेन सह स्वरुहोमः शूलोद्वासनं च । सर्वेषां जाघनीभिः तन्त्रेण पत्नीस्संयाजयन्ति । सन्तिष्ठते त्रिपशुप्रयोगः ॥

॥ इति त्रिपशुप्रयोगः ॥



सौमिक-वेदिमान-कारिका

॥ सौमिक-वेदिमान-कारिका ॥

मीयते सौमिकी वेदिः प्रक्रमैर्द्विदशाङ्गुलैः । पदं क्षुद्रमिदं ग्राह्यं प्रागुक्तं तद्दशाङ्गुलम् ॥ १ ॥

आदौ त्रिषु नव द्व्येकचन्द्रद्विशरभूद्विषु । एकैकद्विशरैकेषु शङ्कवो दश पञ्च च ॥ २ ॥

षट्त्रिंशिका मानरज्जुः तस्यां द्व्यष्टसु लक्षणम् । विमाने पाशयोर्मध्यं प्रक्रमा द्वादशस्मृताः ॥ ३ ॥

श्रोणी पञ्चदशस्वाद्ये सदोऽनन्तरतुर्ययोः । तत्कोणः पञ्चमोनेषु भास्करेषु दशस्वपि ॥ ४ ॥

तृतीये द्व्यन्तरा धिष्ण्याः तेषां प्रादेशतो भ्रमः । रुद्रेषु सप्तदशसु शङ्कू पादोनतेष्विह ॥ ५ ॥

आग्नीध्रं तत्पञ्चमे तु धिष्ण्यौ द्वादशसु स्मृतौ । षष्ठे स्यात्पञ्चके धानं पञ्चांशद्वितयान्विते ॥ ६ ॥

सप्तमे प्राग्वदाग्नीध्रं नवमे मनुषूत्करः । एकादशे हविर्धानं पाशौ व्यत्यस्य पूर्ववत् ॥ ७ ॥

षोडशस्वर्धहीनेषु शामित्रो द्वादशे भवेत् । उत्तरार्धात्तृतीये तु त्रयोदशचतुर्दशे ॥ ८ ॥

शङ्क्वोरुत्तरवेदिस्याद्द्वयोस्सार्धमुपान्त्ययोः । अन्तिमे द्वादशस्वंसौ चात्वालो स्यादुदक्क्रमे ॥ ९ ॥

पुरः पश्चात्सदोधानात् त्यजेत् प्रक्रमपञ्चकम् । दक्षिणे तु हविर्धाने पश्चात्त्रीन्प्रक्रमांस्त्यजेत् ॥ १० ॥

पार्श्वद्वये प्रक्रमौ द्वौ अङ्गुलिद्वयसंयुतौ । अरत्निमात्रं मध्ये चोपरवाणां च लक्षणम् ॥ ११ ॥

एवमेव विमानं स्यात् पदैरपि चतुर्विधैः । पदं पञ्चमसंयुक्तं धिष्ण्यविष्कम्भ इष्यते ॥ १२ ॥

शम्यामात्रस्तु चात्वालो व्यक्तं बोधायनोऽब्रवीत् ।

अन्यथाग्नौ विरोधस्स्यान्मानं चान्यं न विद्यते ॥ १३ ॥

॥ इति सौमिक वेदिमान कारिकाः ॥



पुनराधेयप्रयोगः

॥ पुनराधेयप्रयोगः ॥

आधानस्य सङ्कल्पः

पुनराधेयं व्याख्यास्यामः । तस्य अग्न्याधेयवत्कल्पः । अग्नीनाधाय एतस्मिन् संवत्सरे यो नर्ध्नुयात् स पुनरादधीत, प्रजाकामः पशुकामः पुष्टिकामो ज्यान्यां पुत्रमर्त्यायां स्वेष्वारुध्यमानेषु यदा वा अङ्गेन विधुरतां नीयात् । पौर्णमासीमिष्ट्वा आग्नेयमष्टाकपालं निर्वपेद्वैश्वानरं द्वादशकपालं वारुणं दशकपालमग्नयेऽप्सुमतेऽष्टाकपालं मैत्रं चरुमग्निमुद्वासयिष्यन् ।

श्री परमेश्वरप्रीत्यर्थं ऋद्धिकामः अग्नीन् पुनराधास्यमानः उत्सर्गेष्ट्या यक्ष्ये । विद्युदसीत्यादि । अस्यां उत्सर्गेष्ट्यामध्वर्युं त्वां वृणीमहे इत्यादि । पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । पञ्चदश सामिधेन्यः । पात्रप्रयोगकाले अष्टात्रिंशत्कपालानि स्थाली स्फ्यश्च द्वंद्वम् । शेषं प्रकृतिवत् । निर्वपणकाले देवस्य त्वा — हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यामग्नये वैश्वानराय जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यां वरुणाय जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यामग्नयेऽप्सुमते जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यां मित्राय जुष्टं निर्वपामि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्ने वैश्वानर हव्यꣳ रक्षस्व वरुण हव्यꣳ रक्षस्वाग्नेऽप्सुमन् हव्यꣳ रक्षस्व मित्र हव्यꣳ रक्षस्व । सशूकयामित्यादि । देवस्य त्वा — हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नये वैश्वानराय वो जुष्टं प्रोक्षामि वरुणाय वो जुष्टं प्रोक्षाम्यग्नयेऽप्सुमते वो जुष्टं प्रोक्षामि मित्रय वो जुष्टं प्रोक्षामि । कृष्णाजिनादानादि उत्करे त्रिर्निनीय । प्रागधिवपनाद्विभजति यथाभागं व्यावर्तध्वं इदमग्नेरग्नेर्वैश्वानरस्य वरुणस्याग्नेरप्सुमतः पुरोडाशार्थान् । इदं मित्रस्य चर्वर्थान् । देवस्य त्वा — हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नये वैश्वानराय जुष्टमधिवपामि वरुणाय जुष्टमधिवपाम्यग्नयेऽप्सुमते जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । कपालानामुपधानकाले आग्नेयस्य अष्टावुपधाय । द्वितीय चतुर्थ षष्ठाष्टमानामावृत्या द्वादश्कपालानि वैश्वानरस्योपधाय । वरुणस्य प्रकृतिवदष्टावुपध्याय तूष्णीं द्वे । अग्नयेऽप्सुमतेऽ-ष्टाकपालान्युपधाय । मित्राय ध्रुवोऽसि इति चरुस्थालीमुपदधाति । अधिवापवत्संवापः । सं वपामीति मन्त्रं सन्नमति । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति अपश्चोत्पूय स्थाल्यामासिञ्चति । अधिश्रयणकाले घर्मोऽसि विश्वायुः स्थाल्यां तण्डुलानावपति । आज्यग्रहणकाले प्रकृतिवदाज्यानि गृह्णाति । सर्वेषां मन्त्रेणाभिघारणम् । आर्द्रो भुवनस्य इति चरोरुद्वासनम् । प्रियेणेत्यासादनम् । यजमानः - यज्ञोऽसि इति पञ्चकृत्वः । अयं यज्ञो, ममाग्ने चतुर्होत्राभिमर्शनम् । अयं वेद इत्यादि प्रकृतिवदाज्यभागाभ्यां प्रचर्य । उपांशु हविषा प्रचरति । आग्नेयेन प्रचर्य, अग्नये वैश्वानराय, अनुब्रूहि अग्न्निं वैश्वानरं, यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानस्याहं देवयज्ययान्नादो भूयासम् । वरुणाय, अनुब्रूहि । वरुणं, यज । वरुणायेदम् । वरुणस्याहं — अन्नादो भूयासम् । अग्नयेऽप्सुमते, अनुब्रूहि अग्निं अप्सुमन्तं, यज । अग्नये अप्सुमत इदम् । अग्नेरप्सुमतो — अन्नादो भूयासम् । मित्राय, अनुब्रूहि । मित्रं, यज । मित्रायेदम् । मित्रस्याहं — अन्नादो भूयासम् । न पार्वणहोमः । नारिष्ठान् हुत्वा । या ते अग्ने उत्सीदतः पवमाना प्रिया तनूः । तया सह पृथिवीमाविश रथन्तरेण साम्ना गायत्रेण च छन्दसा स्वाहा । अग्नये पवमानायेदम् । या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः । तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टुभेन च छन्दसा । ततो न ऊर्जमाकृधि गृहमेधं च वर्धय स्वाहा । अग्नये पावकायेदम् । या ते अग्ने सूर्ये शुचिः प्रिया तनूश्शुक्रेध्यधि सम्भृता । तया सह दिवमाविश बृहता साम्ना जागतेन च छन्दसा ततो नो वृष्ट्यावत स्वाहा । अग्नये शुचय इदम् । यास्ते अग्ने कामदुघा विभक्तीरनुसम्भृताः । ताभिर्नः कामान् धुक्ष्वेह पुष्टिमथो धनꣳस्वाहा ॥ अग्नय इदम् । यास्ते अग्ने सम्भृतीरिन्द्रः सूकर आभरत् । तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत्स्वाहा । अग्नये वैश्वानरायेदम् । ये ते अग्ने वानस्पत्याः सम्भारास्सम्भृतास्सह । तेभिर्गच्छ वनस्पतीन्स्वां योनिं यथायथꣳ स्वाहा । अग्नय इदम् । अगन्नग्निर्यथालोकमसदत्सदने स्वे । अवीरहत्यं देवेषूपागां मनसा सह स्वाहा । अग्नय इदम् । इति पुरस्तात्स्विष्टकृतः सप्ताहुतीरुपजुहोति । स्विष्टकृदादि । सर्वेषां विरुज्यप्राशित्रम् । सर्वेषां चतुर्धाकरणम् । अन्वाहार्यो दक्षिणा । सूक्तवाके । अग्नेरहम् । सोमस्याहम् । अग्नेरहम् । अग्नेर्वैश्वानरस्याहम् । वरुणस्याहम् । अग्नेरप्सुमतोऽहम् । मित्रस्याहम् । देवेभ्य आज्यपेभ्य इत्यादि । यज्ञो बभूव, यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तमिष्टिस्सन्तिष्ठते । ब्राह्मणभोजनान्ते आयतनस्थान् ज्वलतोऽग्नीनुत्सृजति । संवत्सरपरार्ध्यमुत्सृष्टाग्निर्भवति ।

वर्षासु शरदि वा आदधीत । रोहिणी पुनर्वसू अनूराधाः इति नक्षत्राणि । पूर्वेद्युः प्रातरौपासनं कृत्वा । दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य देशकालौ सङ्कीर्त्य । उपात्तसकलदुरितक्षयद्वारा श्री परमेश्वरप्रीत्यर्थं ऋद्धिकामः अग्नीन्पुनराधास्ये । अयज्ञत्वान्न विद्युत् । कृताकृताः संभारा यजूंषि च भवन्ति । अपि वा पञ्च पार्थिवान् सम्भारानाहरत्येवं वानस्पत्यान् । अस्मिन्पुनराधेये अध्वर्युं त्वां वृणीमहे । वृतोऽस्मि करिष्यामीत्यध्वर्युः । एवं ब्रह्मादीन्वृणीते ।

यो अश्वत्थश्शमीगर्भ आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा यज्ञियैः केतुभिस्सह पूर्वकृतावेव अरणी आहरति । अश्वत्थाद्धव्यवाहाद्धि जातामग्नेस्तनूं यज्ञियाꣳ संभरामि । शान्तयोनिꣳ शमीगर्भमग्नये प्रजनयितवे । आयुर्मयि धेह्यायुर्यजमाने युगपदरणी अभिमन्त्र्य ।

पार्थिवसम्भाराणामाहरणम्

सम्भारानाहरति । वैश्वानरस्य रूपं पृथिव्यां परिस्रसा । स्योनमा विशन्तु नः सिकताः । यदिदं दिवो यददः पृथिव्यास्सञ्जज्ञाने रोदसी सं बभूवतुः । ऊषान् कृष्णमवतु कृष्णमूषा इहोभयोर्यज्ञियमागमिष्ठाः ऊषान् । ऊतीः कुर्वाणो यत्पृथिवीमचरो गुहाकारमाखुरूपं प्रतीत्य । तत्ते न्यक्तमिह सं भरन्तश्शतं जीवेम शरदस्सवीराः आखुकरीषम् । ऊर्जं पृथिव्या रसमाभरन्तश्शतं जीवेम शरदः पुरूचीः । वम्रीभिरनुवित्तं गुहासु श्रोत्रं त उर्व्यबधिरा भवामः वल्मीकवपाम् । प्रजापतिसृष्टानां प्रजानां क्षुधोपहत्यै सुवितन्नो अस्तु । उप प्रभिन्नमिषमूर्जं प्रजाभ्यस्सूदं गृहेभ्यो रसमाभरामि सूदम् । यस्य रूपं बिभ्रदिमामविन्दद्गुहा प्रविष्टाꣳ सरिरस्य मध्ये । तस्येदं विहतमाभरन्तोऽछम्बट्कारमस्यां विधेम वराहविहतम् । याभिरदृꣳहज्जगतः प्रतिष्ठामुर्वीमिमां विश्वजनस्य भर्त्रीम् । तानश्शिवाश्शर्करास्सन्तु सर्वाः शर्कराः । अग्ने रेतश्चन्द्रꣳ हिरण्यमद्भ्यस्सम्भूतममृतं प्रजासु । तथ्सम्भरन्नुत्तरतो निधायाति प्रयच्छन्दुरितिं तरेयम् त्रीणि हिरण्यशकलानि । इत्यष्टौ पार्थिवान् । तूष्णीं त्रीणि रजतशकलानि निधाय । यदि पञ्च, औदुम्बराणि लोहशकलानि पञ्चमो भवति ।

वानस्पत्यसम्भाराहरणम्

अश्वो रूपं कृत्वा यदश्वत्थे तिष्ठस्संवथ्सरं देवेभ्यो निलाय । तत्ते न्यक्तमिह सम्भरन्तश्शतं जीवेम शरदस्सवीराः अश्वत्थम् । ऊर्जः पृथिव्या अध्युत्थितोऽसि वनस्पते शतवल्शो वि रोह । त्वया वयमिषमूर्जं मदन्तो रायस्पोषेण समिषा मदेम उदुम्बरम् । गायत्र्या ह्रियमाणस्य यत्ते पर्णमपतत्तृतीयस्यै दिवोऽधि । सोऽयं पर्णस्सोमपर्णाद्धि जातस्ततो हरामि सोमपीथस्यावरुध्यै ॥ देवानां ब्रह्मवादं वदतां यदुपाशृणोस्सुश्रवा वै श्रुतोऽसि । ततो मामाविशतु ब्रह्मवर्चसं तथ्संभरꣳस्तदवरुन्धीय साक्षात् एताभ्यां पर्णम् । यया ते सृष्टस्याग्नेर्हेतिमशमयत्प्रजापतिः । तामिमामप्रदाहाय शमीꣳ शान्त्यै हराम्यहम् शमीमयीम् । यत्ते सृष्टस्य यतो विकङ्कतं भा आर्च्छज्जातवेदः । तया भासा सम्मित उरुन्नो लोकमनु प्रभाहि विकङ्कतम् । यत्ते तान्तस्य हृदयमाच्छिन्दन् जातवेदो मरुतोऽद्भिस्तमयित्वा । एतत्ते तदशनेस्सम्भरामि सात्मा अग्ने सहृदयो भवेह अशनिहतस्य वृक्षस्य शकलम् । यत्पर्यपश्यत्सरिरस्य मध्य उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातं पर्णं पृथिव्याः प्रथनꣳ हरामि पुष्करपर्णमेकम् । तूष्णीं पुराणान् दर्भान् सम्भृत्य ।

आहृतसम्भाराणां एकत्र सम्भरणम्

तूष्णीमेकस्मिन् वेणुपात्रे संभृत्य । यं त्वा समभरन् जातवेदो यथा शरीरं भूतेषु न्यक्तम् । स सम्भृतस्सीद शिवः प्रजाभ्य उरुन्नो लोकमनु नेषि विद्वान् सम्भृत्य निदधाति ।

नांदीश्राद्धम्

ततो नान्दीश्राद्धं यजमानः करोति ।

मातुः श्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।

ततो मातामहानां च नान्दी श्राद्धं प्रचक्षते ॥

आगूररण्याहरणादि यं त्वा श्राद्धं भवेन्नान्दिमुखाभिधानम् ।

उद्धन्यमानं वपनं निधानं ब्रह्मौदनाग्नेरशनं च पत्योः ।

वेदेः निर्माणम्

उद्धन्यमानमस्या अमेध्यमप पाप्मानं यजमानस्य हन्तु । शिवानस्सन्तु प्रदिशश्चतस्रः शन्नो माता पृथिवी तोकसाता प्राचीनप्रवणं देवयजनमुद्धत्य । अप उपस्पृश्य । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः अद्भिरवोक्ष्य । तस्मिन्नुदीचीनवंशं शरणं करोति । तस्याग्रेण मध्यमं वंशं गार्हपत्यायतनं भवति । तस्मात्प्राचीनमष्टसु प्रक्रमेषु ब्राह्मणस्याहवनीयायतनम् । एकादशसु राजन्यस्य । द्वादशसु वैश्यस्य । चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते । दक्षिणतः पुरस्तात् वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेरायतनम् । अन्यदाहवनीयागारमन्यद्गार्हपत्यस्य । अग्रेणाहवनीयं सभायां सभ्यः । तं पूर्वेणावसथ आवसथ्यः ।

प्राचीं निश्चित्य तत्पश्चान्मध्यान्मन्वङ्गुलेन तु ।

सूत्रेण भ्रमयेद्गार्हपत्यायतनमुच्यते ॥

तद्बहिः प्राक्पदान्यष्टौ गत्वा तु चतुरश्रकम् ।

द्विसूर्याङ्गुलिमानेन कुर्यादाहवनीयकम् ॥

प्रत्यग्नेः प्राक्पदं गत्वा दक्षिणेन पदद्वयम् ।

अङ्गुल्येकोनविंशत्या मण्डलार्धं तु दक्षिणा ॥

चतुष्षष्ट्यङ्गुलं तिर्यक्प्रत्यग्नेः पुरतो भवेत् ।

पश्चादाहवनीयस्य चतुस्सूर्याङ्गुलं भवेत् ॥

पार्श्वे सन्नमयेद्रज्जुं द्व्यङ्गुलाधिकसूत्रतः ।

वेद्यायतननिर्माणं द्वित्रिर्मेखलकं क्रमात् ॥

यावत्प्रमाणा रज्जुः स्यात्तावानेवागमो भवेत् ।

आगमार्धे तु शङ्कुस्स्यादन्तरर्धे निरञ्छनम् ॥

वेद्यायामोष्टधा कार्यः पञ्चिका मध्यमेऽक्ष्णया ।

त्रिका तिर्यक्त्रिकार्धेऽंसौ श्रोणी अध्यर्धके परे ॥

आयामं पञ्चधा कृत्वा षोढा वाऽऽगन्तु षष्ठकम् ।

सप्तमं वा समं त्रेधा दक्षिणाग्न्यपरत्रिके ॥

जायापत्योर्वपनम्

ततो यजमानः केशश्श्मश्रु वपते नखानि निकृन्तते स्नाति । एवं पत्नी केशवर्जम् । क्षौमे वसानौ जायापती अग्निमादधीयाताम् । ते दक्षिणाकाले अध्वर्यवे दत्तः ।

ब्रह्मौदनाग्नेः आधानम्

अपराह्णे अधिवृक्षसूर्ये वा औपासनादग्निमाहृत्य अपरेण गार्हपत्यायतनं ब्राह्मौदनिकमादधाति । औपासनं वा सर्वं निर्मन्थ्यं वा । यत्रक्वचेति विधिना ।

प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत् ।

अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत् ॥

अवाक्करोभ्युक्ष्य निधाय वह्निम् उत्सिच्यतेऽवोक्षणतोयशेषम् ।

प्राक्तोयमन्यं निदधात्त्युदग्वा यथा बहिः स्याच्च परिस्तरणाम् ॥

जायापत्योर्भोजनं, ब्रह्मौदनं च

ततो जायापत्योर्भोजनम् । अपरेण ब्राह्मौदनिकं लोहिते चर्मण्यानडुहे प्राचीनग्रीव उत्तरलोम्नि पाजके वा निशायां ब्रह्मौदनं चतुश्शरावं निर्वपति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां ब्रह्मणे प्राणाय जुष्टं निर्वपामि प्रथमम् । देवस्य त्वा — हस्ताभ्यां ब्रह्मणेऽपानाय जुष्टं निर्वपामि द्वितीयम् । देवस्य त्वा — हस्ताभ्यां ब्रह्मणे व्यानाय जुष्टं निर्वपामि तृतीयम् । देवस्य त्वा — हस्ताभ्यां ब्रह्मणे जुष्टं निर्वपामि चतुर्थम् । तूष्णीं वा सर्वाणि । तूष्णीमवहत्य । चतुर्षूदपात्रेषु पचति । न प्रक्षालयति न प्रस्रावयति । क्षीरे भवतीत्येके । जीवतण्डुलमिव श्रपयतीति विज्ञायते । तमभिघार्य अनभिघार्य वोद्वास्य ।

ब्रह्मौदनस्य होमः

औपासनदर्व्या ब्रह्मौदनादुद्धृत्य । प्रवेधसे कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । यतो भयमभयं तन्नो अस्त्वव देवान् यजे हेड्यान्त्स्वाहा । प्रवेधसे ब्रह्मण इदम् । यजमानश्चतुर्धा ब्रह्मौदनं व्युद्धृत्य प्रभूतेन सर्पिषोपसिच्य । कर्षन्ननुच्छिन्दन् चतुर्भ्य आर्षेयेभ्य ऋत्विग्भ्य उपोहति । इदमध्वर्यवे । इदं ब्रह्मणे । इदꣳहोत्रे । इदमग्नीधे । अपात्ताः प्रथमे पिण्डाः भवन्त्यप्रतिहताः पाणयः । अध्वर्युः गृहीतपिण्ड एव । अथ ब्रह्मौदनशेषं सङ्कृष्य, तस्मिन् आज्यशेषमानीय, तस्मिन्श्चित्रियस्याश्वत्थस्य तिस्रस्समिध आर्द्रास्सपालाशाः प्रादेशमात्र्यः स्तिभिगवत्यो विवर्तयति । चित्रियादश्वत्थात्थ्सम्भृता बृहत्यश्शरीरमभि सꣳस्कृतास्स्थ । प्रजापतिना यज्ञमुखेन सम्मितास्तिस्रस्त्रिवृद्भिर्मिथुनाः प्रजात्यै चरुशेषे लोडयति । अथादधाति घृतवतीभिराग्नेयीभि-र्गायत्रीभिर्ब्राह्मणस्य । त्रिष्टुग्भी राजन्यस्य । जगतीभिर्वैश्यस्य । समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन् हव्या जुहोतन । अग्नय इदम् । उप त्वाग्ने हविष्मतीर्घृताचीर्यन्तु हर्यत । जुषस्व समिधो मम । अग्नय इदम् । तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । अग्नय इदम् । यजमानः समित्सु तिस्रो वत्सतरीर्ददाति । अध्वर्यो तिस्रो वत्सतरीस्ते ददामि । प्रतिगृह्णामि । प्राश्नन्ति ब्राह्मणा ओदनम् । प्राशितवद्भ्यः समानं वरं ददाति । प्राशितवन्तो ब्राह्मणाः समानं वरं वो ददामि । सर्वे प्रतिगृह्णामीति ब्रूयुः । प्रजा अग्ने संवासयाशाश्च पशुभिस्सह । राष्ट्राण्यस्मा आधेहि यान्यासन्थ्सवितुस्सवे उत्तरेण गार्हपत्यायतनं कल्माषमजं बध्नाति ।

व्रतग्रहणं, अग्नेः समिन्धनम्

अथ यजमानो व्रतमुपैति वाचं च यच्छति । अनृताथ्सत्यमुपैमि मानुषाद्दैव्यमुपैमि । दैवीं वाचं यच्छामि वाचं यच्छति । वीणातूणवेन एनमेतां रात्रिं जागरयन्त्यपि वा न जागर्ति न वाचं यच्छति । शल्कैरेतां रात्रिमेतमग्निमिन्धान आस्ते शल्कैरग्निमिन्धान उभौ लोकौ सनेमहम् । उभयोर्लोकयोर् ऋध्वाऽति मृत्युं तराम्यहम् आ निष्टपनात् प्रतिशल्कं मन्त्रावृत्तिः । नोद्देशत्यागः ।

ब्रह्मौदनाग्नौ अरण्योः निष्टपनम्

तस्मिन्नुपव्युषमरणी निष्टपति । जातवेदो भुवनस्य रेत इह सिञ्च तपसो यज्जनिष्यते । अग्निमश्वत्थादधि हव्यवाहꣳ शमीगर्भाज्जनयन्, यो मयोभूः ॥ अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्नग्न आ रोहाथा नो वर्धया रयिम् एताभ्यामरणी निष्टप्य । निष्टपने कृते अग्निमनुगमयति । अग्नी रक्षाꣳसि सेधति शुक्रशोचिरमर्त्यः । शुचिः पावक ईड्यः अरणी अभिमन्त्र्य । यजमानः - मही विश्पत्नी सदने ऋतस्यार्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगाम् अरणी अह्रियमाणे प्रतीक्षते ।

यजमानेन अरण्योः ग्रहणम्

अध्वर्युः - दोह्या च ते दुग्धभृच्चोर्वरी ते ते भागधेयं प्रयच्छामि यजमानाय प्रयच्छति । यजमानः - आ रोहतं दशतꣳ शक्वरीर्मम ऋतेनाग्न आयुषा वर्चसा सह । ज्योग्जीवन्त उत्तरामुत्तराꣳ समां दर्शमहं पूर्णमासं यज्ञं यथा यजै हस्तद्वयेन प्रतिगृह्य । ऋत्वियवती स्थो अग्निरेतसौ गर्भं दधाथां ते वामहं दधे । तत्सत्यं यद्वीरं बिभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्र जनिष्येथे ते मा प्रजाते प्र जनयिष्यथः । प्रजया पशुभिर्बह्मवर्चसेन सुवर्गे लोके प्रतिगृह्याभिमन्त्रयते । मयि गृह्णाम्यग्रे अग्निꣳ रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय । मयि प्रजां मयि वर्चो दधाम्यरिष्टास्स्याम तनुवा सुवीराः ॥ यो नो अग्निः पितरो हृत्स्वन्तरमर्त्यो मर्त्याꣳ आविवेश । तमात्मन् परि गृह्णीमहे वयं मा सो अस्माꣳ अवहाय परागात् उभौ जपतः ।

वेदिसंस्कारः

अध्वर्युः - अपेत वीत वि च सर्पताऽतो येऽत्र स्थ पुराणा ये च नूतनाः । अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै गार्हपत्यायतनमुद्धत्य । अप उपस्पृश्य । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः अद्भिरवोक्ष्य । एवं दक्षिणाग्नेरावहवनीयस्य सभ्यावसथ्ययोश्च । एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ।

आयतनेषु पार्थिवसम्भाराणां निवपनम्

सिकतानामर्धं द्वैधं विभज्य अर्धं गार्हपत्यायतने निवपत्यर्धं दक्षिणाग्नेः शिष्टार्धमाहवनीयस्य । एतेनैव कल्पेन सर्वान् पार्थिवान् सम्भारान्निवपति । अग्नेर्भस्मास्यग्नेः पुरीषमसि सिकता निवपति । संज्ञानमसि कामधरणं मयि ते कामधरणं भूयात् ऊषान् । तान्निवपन् यददश्चन्द्रमसि कृष्णं तदिहास्तु मनसा ध्यायति । उदेह्यग्ने अधि मातुः पृथिव्या विश आविश महतस्सधस्थात् । आखुन्त्वा ये दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपाम् आखुकरीषम् । यत्पृथिव्या अनामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् गार्हपत्यायतने वल्मीकवपां निवपति । यदन्तरिक्षस्यानामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् दक्षिणाग्नेः । यद्दिवोऽनामृतꣳ सं बभूव त्वे सचा । तदग्निरग्नये ददात्तस्मिन्नाधीयतामयम् आहवनीयस्य । उत्समुद्रान्मधुमाꣳ ऊर्मिरागात्साम्राज्याय प्रतरान्दधानाः । अमी च ये मघवानो वयं चेषमूर्जं मधुमत्संभरेम सूदम् । इयत्यग्र आसीः वराहविहतम् । अदो देवी प्रथमाना पृथग्यद्देवैर्न्युप्ता व्यसर्पो महित्वा । अदृꣳहथाश्शर्कराभिस्त्रिविष्टप्यजयो लोकान्प्रदिशश्चतस्रः पाप्मन् शर्कराः । द्वेष्यं मनसा ध्यायति । ऋतꣳ स्तृणामि पुरीषं पृथिव्यामृतेध्यग्निमा दधे । सत्येध्यग्निमादधे निवपनक्रमेणायतनेषु संभाराननु व्यूहति ।

वानस्पत्यसंभाराणां निवपनम्

सं या वः प्रियास्तनुवस्सं प्रिया हृदयानि वः । आत्मा वो अस्तु सं प्रियस्सं प्रिया स्तनुवो मम ॥ सं वस्सृजामि हृदयानि सꣳ सृष्टं मनो अस्तु वः । सꣳ सृष्टः प्राणो अस्तु वः द्वाभ्यां वानस्पत्यान् संसृज्य । सिकतावद्विभ्यज्य निवपति इतः प्रथमं जज्ञे अग्निस्स्वाद्योनेरधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन् इत्येतया ।

हिरण्यनिवपनम्

यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्षे दिवि या पृथिव्याम् । ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने गार्हपत्यायतने सौवर्णं हिरण्यशकलमुत्तरतः संभारेषूपास्यति । चन्द्रमग्निं चन्द्ररथꣳ हरित्वचं वैश्वानरमप्सुषदꣳ सुवर्विदम् । विगाहन्तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्श्रियं दधुः उपास्तमभिमन्त्रयते । द्वेष्याय रजतं प्रयच्छति । पाप्मने रजतं निरस्याप उपस्पृश्य । यदि द्वेष्यं नाधिगच्छेद्यां दिशं द्वेष्यः स्यात्तां दिशं निरस्येत् । एवं सर्वेषूपास्य करोति । ततः आयतनेषु पुराणान् दर्भान् संस्तीर्य ।

अग्निमन्थनम्

ब्राह्मौदनिकात् भस्मापोह्य, तस्मिञ्छमीगर्भादग्निं मन्थति । उद्यत्सु रश्मिषु दशहोत्रारणी समवदधाति । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः ॥ सहाग्नेऽग्निना जायस्व सह रय्या सह पुष्ट्या सह प्रजया सह पशुभिस्सह ब्रह्मवर्चसेन । उपतिष्ठत्यश्वेऽग्निं मन्थति । मथ्यमाने शक्तेस्साङ्कृतेस्साम गायति । धूमे जाते गाथिनः कौशिकस्य । अरण्योर्निहितो जातवेदा इति च । बलवति जाते उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाꣳ रयिमस्मासु धेह्यजस्रो दीदिहि नो दुरोणे निर्वर्त्यमानमभिमन्त्रयते यजमानः । अत्र चतुर्होतॄन् यजमानं वाचयति । चित्तिः पृथिव्यग्निः सूर्यं ते चक्षुर्महाहविर्होता ।

चित्ति स्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाध्वर्युः ।

पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता ।

अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता ।

सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः ।

महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाऽप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता ।

अजन्नग्निः पूर्वः पूर्वेभ्यः पवमानश्शुचिः पावक ईड्यः जातमभिमन्त्र्य । जाते यजमानो वरं ददाति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि इति प्रतिवचनम् । जातं यजमानोऽभिप्राणिति । प्रजापतेस्त्वा प्राणेनाभि प्राणिमि पूष्णः पोषेण मह्यं दीर्घायुत्वाय शतशारदाय शतꣳ शरद्भ्य आयुषे वर्चसे जीवात्वै पुण्याय उपर्यग्नेरुच्छ्वसिति । अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवस्समीचीः पुमाꣳसं जातमभि सꣳ रभन्ताम् जातमध्वर्यु-रङ्जलिनाऽऽभिगृह्य । सम्राडसि विराडसि सारस्वतौ त्वोत्सौ समिन्धातामन्नादं त्वाऽन्नपत्याय उपसमिध्य ।

गार्हपत्याधानम्

अथैनं प्राञ्चमुद्धृत्य आसीनस्सर्वेषां मन्त्राणामन्तेन रथन्तरे गीयमाने यज्ञायज्ञिये च, यथर्ष्याधानेन प्रथमया व्याहृत्या द्वाभ्यां वा, प्रथमाभ्यां च सर्पराज्ञीभ्यां, प्रथमेन च घर्मशिरसा । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भूर्भुवः । भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्थ्सुवः ॥ घर्मः शिरस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ । न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्सम्भूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने । प्राणं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्वपशुमादधे । अग्ने गृहपतेऽहे बुध्निय परिषद्य दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्थ्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि । भूमिर्भूम्ना — आदधे ॥ आयं गौः — सुवः ॥ त्रिꣳशद्धाम — द्युभिः ॥ अस्यप्राणादपानती — सुवः ॥ संभारेषु निदधाति । सुगार्हपत्यो विदहन्नरातीरुषसः श्रेयसीश्श्रेयसीर्दधत् । अग्ने सपत्नाꣳ अप बाधमानो रायस्पोषमिषमूर्जमस्मासु धेहि आधीयमानमभिमन्त्रयते यजमानः । घर्मशिरांसि चैनमध्वर्युर्वाचयति । घर्मश्शिरस्तदयमग्निः । सम्प्र्रियः पशुभिर्भुवत् । छर्दिस्तोकाय तनयाय यच्छ ॥ वातः प्राणस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । स्वदितं तोकाय तनयाय पितुं पच ॥ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चश्शुक्रा तनूः । शुक्रं ज्योतिरजस्रम् । तेन मे दीदिहि तेन त्वा दधे । अग्निनाग्ने ब्रह्मणा ॥ नाहितमनभिहुतमग्निमुपस्पृशति ।

ओषधिहोमः

आज्येनौषधीभिश्च शमयितव्यः । सर्वौषधीराज्यमिश्राः कृत्वा जुह्वामवधाय । या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा । अग्नेः पवमानायै प्रियायै तन्वा इदम् । या ते अग्नेऽप्सु पावका प्रिया तनूर्या अन्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा । अग्नेः पावकायै प्रियायै तन्वा इदम् । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि याऽदित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहा । अग्नेश्शुच्यै प्रियायै तन्वा इदम् । मनो ज्योतिर्जुषतां — मादयन्ताम् यजमानः बृहस्पतिवत्यर्चोपतिष्ठते । मध्यन्दिने इतरानादधाति । गार्हपत्यात् उपोलवैर्दभैः परुत्कैः संवत्सरप्रवतैः आहवनीयं ज्वलन्तमुद्धरति, तथोपायः क्रियते यथा अननुगच्छत्यग्निः । सिकताभिश्चोपयमनीरुपकल्पयते । तमुद्यच्छति ।

आहवनीयार्थं अग्नेः उद्यमनम्

ओजसे बलाय त्वोद्यच्छे वृषणे शुष्मायायुषे वर्चसे । सपत्नतूरसि वृत्रतूः ॥ यस्ते देवेषु महिमा सुवर्गो यस्त आत्मा पशुषु प्रविष्टः । पुष्टिर्या ते मनुष्येषु पप्रथे तया नो अग्ने जुषमाण एहि ॥ दिवः पृथिव्याः पर्यन्तरिक्षाद्वातात्पशुभ्यो अध्योषधीभ्यः । यत्र यत्र जातवेदस्सम्बभूथ ततो नो अग्ने जुषमाण एहि ॥ उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥ एताभिश्चतसृभिरुपरीवाग्निमुद्यच्छति । उद्यतमुपयतं धारयति । अथाश्वस्य दक्षिणे कर्णे निहितमुखं यजमानमग्नितनूर्वाचयति । या वाजिन्नग्नेः पशुषु पवमाना प्रिया तनूस्तामावह । या वाजिन्नग्नेरप्सु पावका प्रिया तनूस्तामावह । या वाजिन्नग्नेः सूर्ये शुचिः प्रिया तनूस्तामावह । धारयत्येवाग्निम् ।

दक्षिणाग्नेः आधानम्

अथाग्नीध्रो लौकिकमग्निमाहृत्य मथित्वा गार्हपत्याद्वा ऊर्ध्वज्ञुरासीनो दक्षिणमग्निमादधाति । यज्ञायज्ञिये गीयमाने यथर्ष्याधानेन द्वितीयया व्याहृत्या तिसृभिः सर्पराज्ञीभिर्द्वितीयेन च घर्मशिरसा यत्त्वा कृद्धः परोवपेति च । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भुवः । भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन्थ्सुवः ॥ त्रिꣳशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः ॥ वातः प्राणस्तदयमग्निः । सम्प्रियः पशुभिर्भुवत् । स्वदितन्तोकाय तनयाय पितुं पच । न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्संभूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने । व्यानं त्वामृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्व पशुमादधे । अग्नेऽन्नपा मयो भुव सुशेव दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्थ्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि । यत्त्वा कृद्धः परोवप मन्युना यदवर्त्या । सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि । संभारेषु निदधाति । पूर्ववच्छमनहोमः । यजमानः मनोज्योतिरिति बृहस्पतिवत्यर्चोपतिष्ठते ।

आहवनीयाग्नेः उद्धरणम्

वामदेव्यमभिगायत आहवनीय उद्ध्रियमाणे । प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरो अग्निर्भवेह । विश्वा आशा दीद्यानो विभाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥ वि क्रमस्व महाꣳ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि । प्रजया च धनेन च ॥ इमा उ मामुप तिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेदः ॥ प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति । दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति । यावच्चक्रं त्रिः परिवर्तते । षट्कृत्वो द्वेष्यस्य । जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति । नाभिदघ्ने द्वितीयमास्यदघ्ने तृतीयम् । न कर्णदघ्नमत्युद्गृह्णाति । यद्युद्गृह्य निगृह्णीयात् मुखेन समं दध्यात् । नाग्निमादित्यं च व्यवेयात् । दक्षिणतः परिगृह्य हरति । अर्धाध्वे यजमानो वरं ददाति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि । अर्धाध्वे हिरण्यं निधाय । नाकोऽसि ब्रध्नः प्रतिष्ठा सङ्क्रमणः अतिक्रामति ।

अश्वेनाक्रमणम्

आहवनीयं प्राप्य । प्राञ्चमश्वम् । अभ्यस्थाद्विश्वाः पृतना अरातीस्तदग्निराह तदु सोम आह । बृहस्पतिस्सविता तन्म आह पूषा माऽधात् सुकृतस्य लोके दक्षिणेन पदोत्तरतः संभारानाक्रमयति । यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन् । प्रदक्षिणमावर्तयित्वा । यदक्रन्दः प्रथमं जायमान उद्यन्थ्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत्ते अर्वन् पुनरेवाक्रमयति । पुरस्तात्प्रत्यञ्चमश्वं धारयति । पूर्ववाडश्वो भवति । तदभावे अनड्वान् पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति । अथ यजमानः शिवा जपति ।

ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ । विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् ॥ ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् ॥ यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वाऽदधे । यास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ ॥

यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतस्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ ॥ योऽस्मान् द्वेष्टि । यं च वयन्द्विष्मः ॥ स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यञ्च वयन्द्विष्मः ॥

ताभिरेवैनं पराभावयत्यरण्येऽनुवाक्या भवन्ति । यदिदं दिवो यददः पृथिव्याः संविदाने रोदसी संबभूवतुः । तयोः पृष्ठे सीदतु जातवेदाश्शंभूः प्रजाभ्यस्तनुवे स्योनः अग्निमभिमन्त्र्य ।

आहवनीयाधानम्

पुरस्तात् प्रत्यङ्तिष्ठन्नाहवनीयमादधाति । बृहति गीयमाने श्यैत वारवन्तीययोर्यज्ञायज्ञिये च यथर्ष्याधानेन सर्वाभिर्व्याहृतीभिस्सर्वाभिः सर्पराज्ञीभिस्तृतीयेन च घर्म शिरसा यत्ते मन्युपरोप्तस्येत्येतया । अङ्गिरसान्त्वा देवानां व्रतपते व्रतेनादधामि । भूर्भुवस्सुवः । भूमिर्भूम्ना द्यौर्वरिणान्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नाद्यायादधे ॥ आयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरं च प्रयन् सुवः ॥ त्रिꣳशद्धाम विराजति वाक्पतङ्गाय शिश्रिये । प्रत्यस्य वह द्युभिः ॥ अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिषस्सुवः ॥ अर्कश्चक्षुस्तदसौ सूर्यस्तदयमग्निस्सम्प्रियः पशुभिर्भुवत् । यत्ते शुक्र शुक्रं वर्चश्शुक्रा तनूः शुक्रं ज्योतिरजस्रं तेन मे दीदिहि तेन त्वा दधे अग्निनाग्ने ब्रह्मणा ॥ न यजमानः । यास्ते शिवास्तनुवो जातवेदो या अन्तरिक्ष उत पार्थिवीर्याः । ताभिस्सम्भूय सगणस्सजोषा हिरण्ययोनिर्वह हव्यमग्ने ॥ अपानं त्वाऽमृत आदधाम्यन्नादमन्नाद्याय गोप्तारं गुप्त्यै । दिवस्त्वा वीर्येण पृथिव्यै महिम्नान्तरिक्षस्य पोषेण पशूनां तेजसा सर्व पशुमादधे । अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय पृथिव्यास्त्वा मूर्धन्थ्सादयामि यज्ञिये लोके यो नो अग्ने निष्ट्यो यो निष्ट्योऽभिदासतीदमहं तं त्वयाभि निदधामि । यत्ते मन्युपरोप्तस्य पृथिवीमनु दध्वसे । आदित्या विश्वे तद्देवा वसवश्च समाभरन् सम्भारेषु निदधाति । आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः आधीयमानमभिमन्त्रयते यजमानः । पूर्ववच्छमनहोमः । यजमानः मनोज्योतिरिति बृहस्पतिवत्यर्चोपतिष्ठते । ब्रह्माग्न्याधेये सामानि गायति । प्रतिषिद्धान्येकेषाम् । व्याहृतीभिरेवोद्गीथं भवतीति वाजसनेयकम् ।

समिदाधानम्

तिस्र आश्वत्थ्यस्समिध एकैकस्मिन्नादधात्याहवनीये वा तिस्रः । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्नये पवमानायेदम् । अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधद्रयिं मयि पोषम् ॥ अग्नये पवमानायेदम् । अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महा गयम् ॥ अग्नये पवमानायेदम् ।

शमीमय्यो घृतान्वक्तास्तिसृभिः तिस्र एकैकस्मिन्नादधात्याहवनीये वा तिस्रः । समुद्रादूर्मिर्मधुमाꣳ उदारदुपाꣳशुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । आदित्यात्मने ब्रह्मण इदम् । वयन्नाम प्रब्रवामा घृतेनास्मिन्, यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुश्शृङ्गोऽवमीद्गौर एतत् ॥ यज्ञात्मने ब्रह्मण इदम् । चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याꣳ आविवेश ॥ यज्ञात्मने ब्रह्मण इदम् । एवं नानावृक्षीयाः । प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । ताꣳ शश्वन्त उपयन्ति वाजाः औदुम्बरीम् । अग्नय इदम् । विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे । यस्माद्योनेरुदारिथा यजे तं प्रत्वे हवीꣳषि जुहुरे समिद्धे वैकङ्कतीम् । अग्नय इदम् । ताꣳ सवितुर्वरेण्यस्य चित्रामाहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीनाꣳ सहस्रधारां पयसा महीं गाम् शमीमयीम् । सवित्र इदम् ।

अग्निहोत्रम्

ततः सप्त ते अग्ने इत्यग्निहोत्रं जुहोति । विश्वदानीमाभरन्त इत्यारभ्य आयुर्मे यच्छ इति कूर्चे सादयतीत्यन्ते कृते । विद्युदसि । एषा ते अग्ने । ओं भूर्भुवस्सुवः सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन स्वाहा पूर्वाहुतिं जुहोति । अग्नये सप्तवत इदम् । गर्भेभ्यस्त्वेत्यत्र आग्नेयꣳहविरिति विशेषः । अन्नादास्स्थेत्यन्तं समानम् ।

अथ यजमानो घोरा जपति । यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यञ्च वयन्द्विष्मः ॥

स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिः पाप्मानं गच्छ । योऽस्मान् द्वेष्टि । यञ्च वयन्द्विष्मः ॥

पूर्णाहुतिः, शिवा जपश्च

द्वादशगृहीतेन स्रुचं पूरयित्वा । सप्तवत्या पूर्णाहुतिं जुहोति । सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्त ऋषयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । हुतायां यजमानो वरं दत्त्वा शिवा जपति । अध्वर्यो वरं ते ददामि । प्रतिगृह्णामि । [अग्न्याधाने पूर्णाहुतिं हुत्वा कूश्माण्डैर्जुहोति ।]

अथ यजमानः शिवा जपति । ये ते अग्ने शिवे तनुवौ । विराट्च स्वराट्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । सम्राट्चाभिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । विभूश्च परिभूश्च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश्च । ते मा विशतां ते मा जिन्वताम् । यास्ते अग्ने शिवास्तनुवः । ताभिस्त्वाऽदधे ॥ शिवा जपान्तमग्न्याधेयम् ।

शिवा जपान्ते अविज्ञात प्रायश्चित्तानि । अन्तरिकं प्रायश्चित्तं च । यद्यग्नाधेये सूर्योऽनाविः स्यात् । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमꣳ स्वाहा ॥ उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यꣳ स्वाहा ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा इत्याहुतीर्जुहुयात् । अग्न्याधेये यजुर्भ्रेषप्रायश्चित्तं करिष्ये । भुवस्स्वाहा इति दक्षिणाग्नौ । वायव इदम् । जुह्वां सकृद्गृहीत्वा । ये अग्नयो दिवो ये पृथिव्यास्समागच्छन्तीषमूर्जं दुहानाः । ते अस्मा अग्नयो द्रविणं दत्त्वेष्टाः प्रीता आहुतिभाजो भूत्वा यथालोकं पुनरस्तं परेत स्वाहा । अग्निभ्य इदम् ।

अग्नीनां उपस्थानम्

अथ विराट्क्रमैरग्नीन् यजमान उपतिष्ठते । अथर्व पितुं मे गोपायान्नं प्राणेन सम्मितम् । त्वया गुप्ता इषमूर्जं मदन्तो रायस्पोषेण समिषा मदेम अन्वाहार्य पचनम् । नर्य प्रजां मे गोपाय मूलं लोकस्य सन्ततिम् । आत्मनो हृदयान्निर्मितां तां ते परिददाम्यहम् गार्हपत्यम् । शꣳस्य पशून्मे गोपाय विश्वरूपं धनं वसु । गृहाणां पुष्टिमानन्दम् ताꣳस्ते परिददाम्यहम् आहवनीयम् । पञ्चधाग्नीन्व्यक्रामद्विराट् सृष्टा प्रजापतेः । ऊर्ध्वा रोहद्रोहिणी योनिरग्नेः प्रतिष्ठितिः सर्वानग्नीन् । अग्नित्रित्वेऽपि पञ्चधा ॥ सन्तिष्ठते अग्न्याधानम् ।

॥ पुनराधानेष्टिः ॥

आद्या वा, इति पक्षमाश्रित्य आग्निवारुणं आग्नेयेन सह समानं तन्त्रं कुर्वन्निष्ट्या यक्ष्ये । विद्युदसि । अद्य यज्ञाय । इमा मूर्जम् । ऐष्टꣳ हविः । पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । सप्तदश सामिधेन्यः । अलङ्कृत्य परिस्तरणम् । देवा देवेषु । कर्मणे वामित्यादि । पात्रप्रयोगकाले नवदशकपालानि स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थाली वर्जमितराणि प्रकृतिवत् । पवित्रे कृत्वा । यजमान वाचं यच्छ । संविशन्तामित्यादि ।

निर्वापकाले देवस्य त्वा — हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यामग्नीवरुणाभ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्नीवरुणौ हव्यꣳरक्षेथाम् ।

सशूकायामित्यादि । प्रोक्षिताः स्थेत्यन्तं कृत्वा । क्ऌप्तसामनसीभ्यामग्नीन् यजमान उपतिष्ठते । कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधीः । कल्पन्तामग्नयः पृथङ्मम ज्यैष्ठ्याय सव्रताः ॥ येऽग्नयस्समनसोऽन्तरा द्यावापृथिवी वासन्तिकावृतू १ अभि कल्पमाना इन्द्रमिव देवा अभि सं विशंतु ॥ ब्रह्मन् प्रोक्षिष्यामि । ब्रह्मा - प्रोक्ष यज्ञं - ओं ३ प्रोक्ष । देवस्य त्वाट्ठ—हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नीवरुणाभ्यां वो जुष्टं प्रोक्षामि प्रोक्ष्य । कृष्णजिनादानादि । उत्करे त्रिर्निनीय । कृष्णाजिनादानादि । देवस्य त्वा — हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नीवरुणाभ्यां जुष्टमधिवपामि धान्यमसि । कपालानामुपधानकाले आग्नेयस्याष्टावुपधाय । आग्निवारुणमेकादशकपालं अष्टाभ्य ऊर्ध्वं तूष्णीं त्रीणि । अन्तरितम् । अविदहन्त श्रपयत ।

आज्यग्रहणकाले प्रकृतिवदाज्यानि गृह्णाति । आग्निवारुणं तूष्णीमभिघारणम् प्रियेण इत्यासादनम् । यज्ञोऽसि, अयं यज्ञो, ममाग्ने चतुर्होता इत्यासन्नाभिमर्शनम् । अयं वेद इत्यादि । सामिधेनी प्रभृति उपांशु यजति आ उत्तमादनूयाजात् । उच्चैः स्विष्टकृतम् । प्रचरणकाले । पुनरूर्जा सह रय्येति अभितः पुरोडाशमाहुती जुहोति । अपि वा पुनरूर्जेति पुरस्तात्प्रयाजानां सहरय्येत्युपरिष्टादनूयाजानाम् । पुनरुर्जा निवर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतस्स्वाहा ॥ अग्नय इदम् । उपांशु प्रचारः । आ प्यायतां मा भेरा प्यायतां यदवदानानि ते । अग्नये अनुब्रूहि । अग्निं यज । अग्नय इदम् । अग्नेरहमन्नादः । प्रत्याक्रम्य सह रय्या निवर्तस्वाग्ने पिवस्व धारया । विश्वप्स्निया विश्वतस्परि स्वाहा ॥ अग्नय इदम् । आ प्यायतां मा भेरा प्यायतां यदवदानानि ते । अग्नीवरुणाभ्यामनुब्रूहि । अग्नीवरुणौ यज । अग्नीवरुणाभ्यामिदम् । अग्नीवरुणयोरहं वृत्रहा । प्रत्याक्रम्य न पार्वण होमः । नारिष्ठान् हुत्वा । स्विष्टकृदादि ।

दक्षिणाकाले । उभयीर्दक्षिणा ददाति । आग्न्याधेयिकीः पौनराधेयिकीश्च । पुनर्निष्कृत इत्येताः शतमानं च हिरण्यम् । यदीतराणि न विद्येरन् अप्यनड्वाहमेव दद्यात् । अनडुहि वा एते च कामाः अतश्च भूयांस इति पैङ्गायनि ब्राह्मणम् । अग्नीत् अजं पूर्णपात्रमुपबर्हणं सार्वसूत्रं ते ददामि । ब्रह्मन् वहीनमश्वं ते ददामि । होतर्धेनुं ते ददामि । अध्वर्यो अनड्वाहं ते ददामि । ब्राह्मणाः वासो मिथुनौ गावौ नवं च रथं गां च वो ददामि । पुनर्निष्कृतं रथं, पुनरुत्स्यूतं वासः, पुनरुत्सृष्टमनड्वाहं, शतमानं च हिरण्यं वो ददामि । अपि वा ब्राह्मणा अनड्वाहं वो ददामि । यथाभागं प्रतिगृह्णीध्वम् । अयज्ञत्वान्न प्रतिग्रह मन्त्रः । उपांशु द्वौ प्रयाजौ इष्ट्वा उच्चैरुत्तमं सम्प्रेष्यति । सूक्तवाके । अग्नय इदम् । अग्नेरहमुज्जितिम् । अग्नीवरुणभ्यामिदम् । अग्नीवरुणयोरहमुज्जितिम् । देवेभ्य आज्यपेभ्य इत्यादि । यज्ञो बभूव । यज्ञ शं च म वर्जम् । ब्राह्मण तर्पणान्तं इष्टिस्सन्तिष्ठते ।

आधानानन्तरं द्वादशाहमजस्रं, अग्निहोत्रर्थं दशहोतृहोमः, अग्निहोत्रस्य व्याहृतीभिरुपसादनं, सारस्वतहोमौ, अन्वारम्भणीया, दर्शपूर्णमासार्थं चतुर्होतृहोमः इत्येतानि न विद्यन्ते ॥

॥ इति पुनराधेयप्रयोगः ॥



दर्शपूर्णमासयोर्याजमानम्

॥ दर्शपूर्णमासयोर्याजमानम् ॥

अथातो दर्शपूर्णमासौ व्याख्यास्याम: । प्रातरग्निहोत्रं हुत्वा । दर्भेष्वासीनो दर्भान्धारयमाण: पवित्रपाणि: पत्न्या सह प्राणानायम्य । ममोपात्त सकल दुरितक्षयद्वारा श्री परमेश्वर प्रीत्यर्थं दर्शेन यक्ष्ये । अनुनिर्वाप्यैन्द्रवैमृधेन सह पूर्णमासेन यक्ष्ये इति वा संकल्प्य । ततो वपनम् । अप्यल्पशो लोमानि वापयते इति वाजसनेयकम् । विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि यक्ष्यमाणोऽप उपस्पृशति । अस्यां दर्शेष्ट्यां अध्वर्युं त्वां वृणीमहे अध्वर्युं वृणोति । एवं ब्रह्माणं होतारं आग्नीध्रं च ।

अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमꣳ श्वो यज्ञाय रमतां देवताभ्यः ॥ वसून्रुद्रानादित्यानिंद्रेण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । पौर्णमासꣳ हविरिदमेषां मयि इति पौर्णमास्याम् । इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु । आमावास्यꣳ — हविरिदमेषां मयि इत्यमावास्यायाम् । यथालिङ्गमाहवनीयेऽन्वाधीयमाने जपति । अन्तराग्नी पशवो देवसꣳसदमागमन् । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया अन्तराग्नी तिष्ठन् जपति ।

इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसनाः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥ इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसनाः । तान्पूर्वः परिगृह्णामि स्व आयतने मनीषया गार्हपत्ये अन्वाधीयमाने जपति ।

अयं पितृणामग्निरवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णाम्यविषं नः पितुं करत् अन्वाहार्यपचने अन्वाधीयमाने जपति । विहारस्योत्तरत उपविश्य । इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रबवीमीदमहमिन्द्रज्येष्ठेभ्यो रुद्रेभ्यो यज्ञं प्रबवीमीदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमि अन्वाहितेषु जपति ।

पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सꣳसृज अप आचामति अप उपस्पृशति च । एवं पत्नी च ।

अपरेणाहवनीयं दक्षिणातिक्रामति । एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति । दक्षिणेनाहवनीयमुपस्थाय । व्रतꣳ समुद्रस्तदुपैष्यामि समुद्रं मनसा ध्यात्वा । अग्नीन् देवानभिसन्धाय । अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् इति जपित्वा । संराडसि व्रतपा असि व्रतपतिरसि तत्ते प्रब्रवीमि तच्छकेयं तेन शकेयं तेन राध्यासम् आदित्यमुपतिष्ठते । यद्यस्तमिते व्रतमुपेयादाहवनीयमुपतिष्ठन् एतद्यजुर्जपेत् ।

त्रिवृत्पलाशे दर्भ इयान्प्रादेशसम्मित: । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे ॥ इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वश: । आप्याययन्तौ सञ्चरतां पवित्रे हव्यशोधने पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारम् । उपलिम्पन्त्यायतनानि । अलङ्कुर्वाते यजमान: पत्नी च । नवे सान्नाय्यकुम्भ्यौ यावच्छर्करं गोमयेनानुलिप्ते भवत: । पयस्वतीरोषधय इति जायापती अश्नीतः । अमाषममांसमाज्येन दध्ना पयसा वा । अमावास्यायां रात्र्यां स्वयं यजमानो यवाग्वा अग्निहोत्रं जुहोति । अग्निहोत्रोच्छेषणमातञ्चनार्थं निदधाति ।

आपो देवीश्शुद्धास्स्थेमा पात्राणि शुन्धत । उपातङ्क्याय देवानां पर्णवल्कमुत शुन्धत । देवेन सवित्रोत्पूता वसोस्सूर्यस्य रश्मिभिः । गां दोह पवित्रे रज्जुꣳ सर्वा पात्राणि शुन्धत प्रोक्ष्यमाणान्यभिमन्त्र्य । एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुप जायमाना इह व इन्द्रो रमयतु गावः गा आयतीः प्रतीक्षते ।

त्रयस्त्रिꣳशोऽसि तन्तूनां पवित्रेण सहागहि । शिवेयꣳ रज्जुरभिधान्यघ्निया-मुपसेवताम् आदीयमानामनुमन्त्रयते ।

अयक्ष्मा वः प्रजया सꣳसृजामि रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च जीवो जीवन्तीरुपवस्सदेयम् ॥ द्यौश्चेमं यज्ञं पृथिवी च सन्दुहातां धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ॥ उत्सं दुहन्ति कलशं चतुर्बिलमिडां देवीम्मधुमतीꣳ सुवर्विदम् । तदिन्द्राग्नी जिन्वतꣳ सूनृतावत्तद्यजमानममृतत्वे दधातु उपसृष्टां दुह्यमानां धाराघोषं चानुमन्त्रयते । अग्नये बृहते नाकायेदम् । द्यावापृथिवीभ्यामिदम् ।

अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारयमातिगुः पिधीयमानमनुमन्त्रयते ।

उभावग्नी उपस्तृणते देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् सायं परिस्तीर्यमाणेषु जपति । देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदꣳ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । सद्यस्कालायामपि देवा देवेषु जपः नोभावग्नी । एतत्कृत्वोपवसति । आहवनीयागारे गार्हपत्यागारे वा शेते ।

अध्वर्युर्यजमानश्च ब्रह्माणं वृणीते । भूपते भुवन पते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे इति

तूष्णीं निरसनोपवेशने करोति ।

भूश्च कश्च वाक्चर्क्च गौश्च वट्च खं च धूꣳश्च नूꣳश्च पूꣳश्चैकाक्षरा: । पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुस्तानो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीर्ब्रह्मपूताः स्थ । को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्यायै । याः पुरस्तात् प्रस्रवन्त्युपरिष्टाथ्सर्वतश्च याः । ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे प्रणीता: प्रणीयमाना अनुमन्त्रयते ।

ओं निर्वप इत्यनुजानाति ।

अग्निꣳ होतारमिह तꣳ हुवे देवान् यज्ञियानिह यान् हवामहे । आयन्तु देवास्सुमनस्यमाना वियन्तु देवा हविषो मे अस्य हविर्निरुप्यमाणमनुमन्त्रयते ।

कस्त्वा युनक्ति स त्वा युनक्तु सर्वं विहारमनु वीक्षते ।

पत्नी - अव रक्षो दिवः सपत्नं वध्यासम् अवहन्ति ।

पत्नी - देवेभ्यश्शुन्धध्वम् । देवेभ्यश्शुन्ध्यध्वम् । देवेभ्यश्शुम्भध्वम् सुफलीकृतान्करोति तूष्णीं वा ।

॥ द्वितीयोध्यायः ॥

चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् वेदिं सम्मृज्यमानामनुमन्त्रयते ।

यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यश्श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मि स्तम्बयजुर्ह्रियमाणामनुमन्त्रयते ।

इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीषु उत्करमभिगृह्यमाणम् ।

यज्ञस्य त्वा प्रमयाऽभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।

यदुद्घ्नन्तो जिहिग्ꣳसम पृथिवीमोषधीरपः । अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पात तस्मात् ॥ यदुद्घ्नन्तो जिहिꣳसिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः । मा तेन हेड उपगाम भूम्याश्शिवा नो विश्वैर्भुवनेभिरस्तु उद्धन्यमानामनुमन्त्रयते ।

भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्च वेदिं क्रियमाणाम् ।

यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामि वेदिं परिगृह्यमाणाम् ।

ईडेन्य क्रतूरहमपो देवीरुपब्रुवे दिवा नक्तं च सस्रुषीरपस्वरीः प्रोक्षणीरासाद्यमाना अनुमन्त्रयते ।

ऊर्णामृदु प्रथमानꣳ स्योनं देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् बर्हिरासाद्यामानमनुमन्त्रयते ।

युक्ता मे यज्ञमन्वासातै३ इति सम्प्रेष्यति ।

अद्भिराज्यमाज्येनापस्सम्यक्पुनीत सवितुः पवित्रैः । ता देवीश्शक्वरीश्शा-क्वरेणेमं यज्ञमवत संविदानाः आज्यं प्रोक्षणीरुत्पूयमानाः । उभावाज्यग्रहं जपतः ।

चतुर्जुह्वाम् । शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । ज्योतिस्त्वा ज्योतिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । अर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि । पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि ॥ पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि इति पञ्चावत्तिनः । मध्यदेशे उपभृत्यष्टावल्पीयः । पञ्चानां त्वा दिशां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि । पञ्चानां त्वा सलिलानां धर्त्राय गृह्णामि । पञ्चानां त्वा पृष्ठानां धर्त्राय गृह्णामि । धामासि प्रियं देवानामनाधृष्टं देवयजनं देववीतये त्वा गृह्णामि इति पञ्चावत्तिनः । चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि । ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि । क्षत्रस्य त्वौजसे यन्त्राय धर्त्राय गृह्णामि । विशे त्वा यन्त्राय धर्त्राय गृह्णामि । सुवीर्याय त्वा गृह्णामि इति पञ्चावत्तिनः । भूमौ प्रतिष्ठितायां ध्रुवायां भूयिष्ठम् । सुप्रजास्त्वाय त्वा गृह्णामि । रायस्पोषाय त्वा गृह्णामि । ब्रह्मवर्चसाय त्वा गृह्णामि । भूरस्माकꣳ हविर्देवानामाशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि । कामाय त्वा गृह्णामि इति पञ्चावत्तिनः । नोत्करे आज्यानि सादयति । नान्तर्वेदि गृहीतस्य प्रतीचीनं हरति ।

अशिश्रेम बर्हिरन्तः पृथिव्यास्सꣳ रोहयन्त ओषधीर्विवृक्णाः । यासां मूलमुदवधीः स्फ्येन शिवानस्तास्सुहवा भवन्तु ॥ सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च । वृष्टि द्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाश्शतवल्शा अदब्धाः अन्तर्वेदि बर्हिरासाद्यमानम् ।

चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका वयुनानि वस्ते । साऽऽस्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् ॥ शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि ॥ इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून्मे पिन्वस्व बर्हिरास्तीर्यमाणां वेदिमनुमन्त्रयते ।

ध्रुवोऽसि ध्रुवोहꣳ सजातेषु भूयासं धीरश्चेत्ता वसुवित् मध्यमं परिधीयमानं यजमानोऽनुमन्त्रयते ।

उग्रोऽस्युग्रोहꣳ सजातेषु भूयासमुग्रश्चेत्ता वसुवित् अनुमन्त्रयते ।

अभिभूरस्यभिभूरहꣳ सजातेषु भूयासमभिभूश्चेत्ता वसुवित् अनुमन्त्रयते । अस्मिन् यज्ञ उप भूय इन्नु मे अविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयानग्निर्द्वेषाꣳसि निरितोनुदातै परिधीनेवानुमन्त्रयते ।

युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास्त्वा सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं ते । यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो । तेन हन्मि सपत्नन् दुर्मरायुमैनं दधामि निर्ऋत्या उपस्थे । तेजिष्ठा ते तपना या च रोचना प्रत्योषन्तीस्तनुवो यास्ते अग्ने । ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन्, यज्ञहनः पिशाचाः आहवनीयमभिमन्त्रयते ।

विच्छिनद्मि विधृतीभ्याꣳ सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । विशो यन्त्राभ्यां विधमाम्येनानहꣳ स्वानामुत्तमोऽसानि देवाः ॥ विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् । सीदन्ती देवी सुकृतस्य लोके धृती स्थो विधृती स्वधृती । प्राणान्मयि धारयतं प्रजां मयि धारयतं पशून्मयि धारयतम् विधृती आसाद्यमाने अनुमन्त्रयते ।

अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपास्तस्मिन् स्रुचो अध्यासादयामि प्रस्तरमासाद्यमानम् ।

आरोह पथो जुहु देवयानान् यत्र ऋषयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा सम्भृताङ्गा वहासि मा सुकृतां यत्र लोकाः । जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दैव्येन जुहूमासाद्यमानाम्

अवाहं बाध उपभृता सपत्नान्जातान्भ्रातृव्यान् ये च जनिष्यमाणाः । दोहै यज्ञꣳ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः । सुभृदस्युपभृद्घृताची त्रैष्टुभेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रेण शर्मणा दैव्येन उपभृतमासाद्यमानाम् ।

यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने । इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदाः । अव्यथमाना यज्ञमनु यच्छस्व सुनीती यज्ञं नयास्युप देवान् वैश्वदेवेन शर्मणा दैव्येन ध्रुवामासाद्यमानाम् ।

स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिस्सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः ॥ अयꣳ स्रुवो अभि जिहर्ति होमाञ्छतक्षरश्छन्दसानुष्टुभेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येन स्रुवमासाद्यमानम् ।

इयꣳ स्थाली घृतस्य पूर्णा अच्छिन्नपयाश्शतधार उत्सः । मारुतेन शर्मणा दैव्येन आज्यस्थालीमासाद्यमानाम् ।

तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन । तृप्तिरसि त्रैष्टुभं छन्दस्तर्पयमौजसा वीर्येण । तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः पुरोडाशानभ्यज्यमानान् । प्रतिपुरोडाशं मन्त्रावृत्तिः।

यज्ञोऽसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषस्सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः प्रजापतिरसि सर्वतश्श्रितस्सर्वतो मां भूतं भविष्यच्छ्रयताꣳ शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः आग्नेयं पुरोडाशमासन्नमभिमृशति । अयं यज्ञस्समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः । तेन लोकान्सूर्यवतो जयेमेन्द्रस्य सख्यममृतत्वमश्याम् सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्रो वैमृधो भुवनान्नुदतामहं प्रजां वीरवतीं विदेय ऐन्द्रं वैमृधम् ।

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तनुवं पुषेम । मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृताना जयेम ॥ मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुरग्निः । ममान्तरिक्षमुरुगोपमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥ मयि देवा द्रविणमायजन्तां मय्याशीरस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त पूर्वेऽरिष्टास्स्याम तनुवा सुवीराः ॥ मह्यं यजन्तु मम यानि हव्याऽऽकूतिस्सत्या मनसो मे अस्तु । एनो मा निगां कतमच्चनाहं विश्वे देवासो अधि वोचता मे ॥ देवीष्षडुर्वीरुरुणः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥ अग्निर्मन्युं प्रतिनुदन् पुरस्ताददब्धो गोपाः परि पाहि नस्त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधा वि नेशत् ॥ धाता धातृणां भुवनस्य यस्पतिर्देवꣳ सवितारमभिमातिषाम् । इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥ उरुव्यचा नो महिषश्शर्म यꣳसदस्मिन्, हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा नो रीरिषो मा परा दाः ॥ ये नस्सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥ अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥ पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति पौर्णमास्यां सर्वाणि हवींष्यासन्नान्यभिमृशति ।

दर्शे तु = यज्ञोऽसि इति आग्नेयमभिमृशति । इदमिन्द्रियममृतं वीर्यमनेनेन्द्राय पशवो चिकित्सन् । तेन देवा अवतोपमामिहेषमूर्जं यशस्सह ओजस्सनेयꣳ शृतं मयि श्रयताम् प्रातर्दोहमभिमृशति । यत्पृथिवीमचरत्तत्प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्रं दधि मां धिनोतु सायं दोहम् । अयं यज्ञः सर्वाणि हवींषि । यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् । अपतमिन्द्राग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय ऐन्द्राग्नम् । ममाग्ने वर्च इत्यनुवाकेन । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोत्रा च अमावास्यायाम्

दशहोतारं वदेत्पुरस्तात्सामिधेनीनाम् । चित्तिस्स्रुक् । चित्तमाज्यम् । वाग्वेदिः । आधीतं बर्हिः । केतो अग्निः । विज्ञातमग्निः । वाक्पतिर्होता । मन उपवक्ता । प्राणो हविः । सामाऽध्वर्युः । अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्तु सामिधेनीनां प्रतिपदि जपति । अनूच्यमानासु दशहोतारं व्याख्याय । चित्तिः स्रुक् ट्ठ सामाऽध्वर्युः । उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते । अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर्मूर्धन्नाजिघर्मि रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय समिध्यमानमनुमन्त्रयते । समिद्धो अग्न आहुतेत्यभिज्ञाय । समिद्धो अग्निराहुतस्स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नमः समिद्धम् ।

मनोऽसि प्राजापत्यं मनसा मा भूतेनाविश स्रौवमाघार्यमाणमनुमन्त्रयते । प्रजापतय इदम् । देवाः पितरः पितरो देवा योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि । स्वं म इष्टꣳ स्वं दत्तम् । स्वं पूर्तꣳ स्वꣳ श्रान्तम् । स्वꣳ हुतम् । तस्य मेऽग्निरुपद्रष्टा वायुरुपश्रोतादित्यो-नुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुर्य एवास्मि स सन् यजे होतृप्रवरे अध्वर्युप्रवरे च प्रव्रियमाणे ।

वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाविश स्रुच्यमाघार्यमाणमनुमन्त्रयते । इन्द्रायेदम्

पूर्ववत् देवाः पितर — स सन् यजे इत्यनुमन्त्रयते ।

पृथिवी होता । द्यौरध्वर्युः । रुद्रोऽग्नीत् । बृहस्पतिरुपवक्ता इति चतुर्होतारं वदेत् पुरस्तात्प्रयाजानाम् । अग्नय इदम् । वसन्तमृतूनां प्रीणामि स मा प्रीतः प्रीणातु । एको ममैका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अग्नय इदम् । ग्रीष्ममृतूनां प्रीणामि स मा प्रीतः प्रीणातु । द्वौ मम द्वे तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अग्नय इदम् । वर्षा ऋतूनां प्रीणामि ता मा प्रीताः प्रीणन्तु । त्रयो मम तिस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अग्नय इदम् । शरदमृतूनां प्रीणामि सा मा प्रीता प्रीणातु । चत्वारो मम चतस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

अग्नय इदम् । हेमन्तशिशिरावृतूनां प्रीणामि तौ मा प्रीतौ प्रीणिताम् । पञ्च मम न तस्य किञ्चन योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।

सोमायेदम् । अग्नीषोमयोरहं देवयज्यया चक्षुष्मान् भूयासम् । विहृतौ वा । व्रत्येऽहनि व्रतलोप प्रायत्तार्थं व्रातपतीष्टिस्थाने (आपस्तम्बानां) स्रुवाहुतिं होष्यामि । (आश्वलायनां तु) पूर्णाहुतिं होष्यामि ।

अग्नये व्रतपतय इदम् । अन्वाधानप्रभृति एतावत्काल पर्यन्तमृत्विक्षु मयि च संभावितसमस्तदोषनिर्हरणार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।

प्रजापतय इदम् । दर्शे तु = पिण्डपितृयज्ञलोपप्रायश्चित्तार्थं महाहविर्होतेति सप्तहोतृमन्त्रेण होष्यामि ।

वाचस्पतये ब्रह्मण इदम् । साङ्गतार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि ।

प्रजापतय इदम् । अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता इति पञ्चहोतारं वदेत्पुरस्ताद्धविरवदानस्य ।

अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् हुत्वा तमनुमन्त्रयते ।

प्रजापतय इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् ।

विष्णव इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् ।

अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् ।

इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहं देवयज्ययाऽसपत्नो वीर्यवान् भूयासम्

इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् ।

महेन्द्रायेदम् । महेन्द्रस्याहं देवयज्यया जेमानं महिमानं गमेयम् ।

अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम्

॥ तृतीयोध्यायः ॥

अग्निर्मा दुरिष्टात्पातु सविताघशꣳ साद्यो मेन्ति दूरेऽरातीयति तमेतेन जेषम् प्राशित्रमवदीयमानम् ।

सुरूपवर्षवर्ण एहीमान्भद्रां दुर्याꣳ अभ्येहि मामनुव्रता न्यु शीर्षाणि मृढ्वमिड एह्यदित एहि सरस्वत्येहि रन्तिरसि रमतिरसि सूनर्यसि जुष्टे जुष्टिं तेऽशीयोपहूत उपहवं तेऽशीय इडामवदीयमानाम् ।

उत्तरातिक्रम्य । भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहि इडामन्वारभ्य उपांशूपहवे सप्त देवगवीर्जपति । चिदसि मनासि धीरसि रन्ती रमतिस्सूनुस्सूनरी उच्चैरुपहवे सप्त मनुष्यगवीः । देवीर्देवैरभि मा निवर्तध्वꣳ स्योना स्योनेन घृतेन मा समुक्षत । नम इदमुपदं भिषगृषिर्ब्रह्मा यद्ददे समुद्रादुदचन्निव । स्रुचावागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् । वायविडा ते माता होतारमीक्षमाणो वायुं मनसा ध्यायेत् वायो । उपहूतः पशुमानसानि । सा मे सत्याशीरस्य यज्ञस्य भूयादरेडता मनसा तच्छकेयं यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास्तेन यज्ञो देवाꣳ अप्येत्वस्मास्विन्द्र इन्द्रियं दधात्वस्मान्राय उत यज्ञास्सचन्तामस्मासु सन्त्वाशिषस्सा नः प्रिया सुप्रतूर्तिर्मघोनी जुष्टिरसि जुषस्व नो जुष्टानोऽसि जुष्टिं ते गमेयम् । आशीर्म ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणꣳ सवर्चसम् । सञ्जयन् क्षेत्राणि सहसाहमिन्द्र कृण्वानो अन्याꣳ अधरान्त्सपत्नान् । इडाया अहं देवयज्यया पशुमान्भूयासम् । इडा धेनुस्सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना । सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माꣳ आगात् भक्षायाह्रियमाणामनुमन्त्रयते ।

ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसद्दिशां क्लृप्तिरसि दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्चाहोरात्रे मे कल्पेतामर्धमासा मे कल्पन्तां मासा मे कल्पन्तामृतवो मे कल्पन्ताꣳ संवत्सरो मे कल्पतां क्लृप्तिरसि कल्पतां मे बर्हिषि पुरोडाशमासन्नमभिमृशति । अथैनं प्रतिदिशं व्यूहति । आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् । ब्रध्न पाहि भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व द्विपात्पाहि चतुष्पादव दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविस्सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तो ब्राह्मणो नेहा ब्राह्मणस्यास्ति । अथैनमन्वादिशति । इदं ब्रह्मणः । इदꣳ होतुः । इदमध्वर्योः । इदमग्नीधः ।

उपहूतो द्यौः पिता उप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी माता उप मां माता पृथिवी ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इदमग्नीधः ।

ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोपदसत्प्रजापतेर्भागोऽस्यूर्जस्वा-न्पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्युदानव्यानौ मे पाह्यक्षितोऽस्यक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिन् लोके । इयꣳ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः । स दाधार पृथिवीमन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युम् अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ।

दक्षिणत एत, ब्राह्मणा अयं व ओदनो यथाभागं प्रतिगृह्णीध्वम् ।

उत्तरतः परीता३ इति सम्प्रेष्यति ।

एषा ते अग्ने समित्तया वर्धस्व चाचप्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा आग्नीध्रः अनूयाजसमिधमादधाति ।

एतेनैव आधीयमानमनुमन्त्रयते । अग्नय इदम् । यं ते अग्न आ वृश्चाम्यहं वा क्षिपितश्चरन्न् । प्रजां च तस्य मूलं च नीचैर्देवा नि वृश्चत । अग्ने यो नोऽभिधासति समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किं चन । यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳस्तानग्ने सं दह याꣳश्चाहं द्वेष्मि ये च माम् आहितायामनुमन्त्रयते ।

भूतानामधिपतये रुद्राय तन्तिचराय वृष्ण इदम् । उभावप उपस्पृशतः । वेदिर्बर्हिः शृतꣳ हविरिध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः सं मे सन्नतयो नमन्तामिध्मसन्नहने हुते संमार्गान् हुतान् यजमानोऽनुमन्त्रयते । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता इति सप्तहोतारं वदेत्पुरस्तादनूयाजानाम् ।

अग्नय इदम् । बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् ।

अग्नय इदम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् ।

अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम्

वसून्देवान् यज्ञेनापिप्रेम् अज्यमानमनुमन्त्रयते । वसुभ्य इदम् ।

रुद्रान्देवान् यज्ञेनापिप्रेम् । रुद्रेभ्य इदम् ।

आदित्यान्देवान् यज्ञेनापिप्रेम् । आदित्येभ्य इदम् ।

समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिस्सं मरुद्भिः । समिन्द्रेण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा प्रस्तरमज्यमानम् ।

सूक्तवाकदेवता अनुमन्त्रयते । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । सोमायेदम् । सोमस्याहमुज्जितिमनूज्जेषम् । अग्नय इदम् । अग्नेरहमुज्जितिमनूज्जेषम् । प्रजापतय इदम् । प्रजापतेरहमुज्जितिमनूज्जेषम् । विष्णव इदम् । विष्णोरहमुज्जितिमनूज्जेषम् । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहमुज्जितिमनूज्जेषम् । इन्द्राय वैमृधायेदम् । इन्द्रस्य वैमृधस्याहमुज्जितिमनूज्जेषम् । इति पौर्णमास्याम् ।

दर्शे तु = असन्नयतः, इन्द्राग्निभ्यामिदम् । इन्द्राग्नियोरहमुज्जितिमनूज्जेषम् । सन्नयतः इन्द्रायेदम् । इन्द्रस्याहमुज्जितिमनूज्जेषम् । महेन्द्रायेदम् । महेन्द्रस्याहमुज्जितिमनूज्जेषम् । देवेभ्य आज्यपेभ्य इदम् । अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहमुज्जितिमनूज्जेषम् । स्व नाम ग्रहण काले एमा अग्मन्नाशिषो दोहकामा इन्द्रवन्तो वनामहे धुक्षीमहि प्रजामिषम् । सूक्तवाकस्य आशिष्षु सा मे सत्याशीर्देवान्गम्याज्जुष्टाज्जुष्टतरात्पण्यात्पण्यतरारेडता मनसा देवान् गम्याद्यज्ञो देवान्गच्छतु यज्ञो म आगच्छतु इति यत्कामयते तस्य नाम गृह्णाति ।

आग्नीध्रः - त्रिरञ्जलिनाऽविष्वञ्चं प्रस्तरं ऊर्ध्वमुद्यौति । रोहितेन त्वाग्निर्देवतां गमयतु । हरिभ्यां त्वेन्द्रो देवतां गमयतु । एतशेन त्वा सूर्यो देवतां गमयतु ।

प्रस्तरं प्रह्रियमाणमेतैरेवानुमन्त्रयते ।

तनुभ्य इदम् । दिवः खीलोऽवततः पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन द्विषन्तꣳ शोचयामसि । द्विषन्मे बहु शोचत्वोषधे मो अहꣳ शुचम् । प्रस्तरतृणे प्रह्रियमाणे ।

वि ते मुञ्चामि रशना वि रश्मीन् वि योक्त्रा यानि परिचर्तनानि धत्तादस्मासु द्रविणं यच्छ भद्रं प्र णो ब्रूताद्भागधां देवतासु परिधिषु विमुच्यमानेषु । अग्नय इदम् । विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् । यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवेन मे सन्तिष्ठस्व स्योनेन मे सन्तिष्ठस्व सुभूतेन मे सन्तिष्ठस्व ब्रह्मवर्चसेन मे सन्तिष्ठस्व यज्ञस्यर्धिमनु सन्तिष्ठस्वोप ते यज्ञ नम उप ते नम उप ते नमः इत्यभिमन्त्रयते ।

वसुभ्यो रुद्रेभ्य आदित्येभ्यस्सꣳस्रावभागेभ्य इदम् । इष्टो यज्ञो भृगुभिर्द्रविणोदा यतिभिराशीर्दा वसुभिराशीर्वानथर्वभिस्तस्य मेष्टस्य वीतस्य द्रविणेहा गमेः संस्रावं हुतम् । अत्रैवर्त्विजो हविश्शेषान्भक्षयन्ति

सोमायेदम् । सोमस्याहं देवयज्यया सुरेता रेतो धिषीय ।

त्वष्ट्र इदम् । त्वष्टुरहं देवयज्यया पशूनाꣳ रूपं पुषेयम् ।

राकाया इदम् । राकाया अहं देवयज्यया प्रजावान्भूयासम् ।

पत्नी - राकाया अहं देवयज्यया प्रजावती भूयासम् ।

सिनीवाल्या इदम् । सिनीवाल्या अहं देवयज्यया पशुमान्भूयासम् ।

पत्नी - सिनीवाल्या अहं देवयज्यया पशुमती भूयासम् ।

कुह्वा इदम् । कुह्वा अहं देवयज्यया पुष्टिमान्पशुमान्भूयासम्

पत्नी - कुह्वा अहं देवयज्यया पुष्टिमती पशुमती भूयासम् ।

अग्नये गृहपतय इदम् । देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्रभूयासम् ।

इडास्माननुवस्तां घृतेन यस्याः पदे पुनते देवयन्तः । वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी आज्येडामनुमन्त्रयते ।

वेदोऽसि वित्तिरसि पाप्मनो व्यावृत्तिं विदेय कर्मासि करुणमसि क्रियासꣳ सनिरसि सनितासि सनेयं घृतवन्तं कुलायिनꣳरायस्पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् अन्तर्वेदि वेदमभिमृशति ।

अग्नये अदब्धायवे अशीततनव इदम् । या सरस्वती विशो भगीना तस्यां मे रास्व तस्यास्ते भक्तिवानो भूयास्म फलीकरणे हुते यजमानो मुखं विमृष्टे ।

पत्नी - इमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमि योक्त्रं विमुञ्चति ।

पत्नी - समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गच्छे समात्मा तनुवा मम अग्निहोत्रहवण्योदकं निनीयमाने पत्नी जपति । मुखं विमृज्य उत्तिष्ठति । पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् ।

देवेभ्यो गातुविद्भ्यो यज्ञाय परमात्मन इदम् । वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छतु यज्ञो म आगच्छतु यज्ञेश्वरप्रसादो म आगच्छातु यत्कामयते तस्य नाम गृह्णाति । समिष्टयजुर्हुतमनुमन्त्रयते । सं यज्ञपतिराशिषा यजमानः स्वभागं प्राश्नाति । दधिक्राव्ण्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्र ण आयूꣳषि तारिषत् सायंदोहं प्राश्नाति । इदꣳ हविः प्रजननं मे अस्तु दशवीरꣳ सर्वगणꣳ स्वस्तये । आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि । अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त । रायस्पोषमिषमूर्जमस्मासु दीधरत्स्वाहा प्रातर्दोहम् ।

सदसि सन्मे भूयास्सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठाः उदकमानीयमानमनुमन्त्रयते । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् । दक्षिणायां दिशि मासाः पितरो मार्जयन्ताम् । प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् । उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम् । ऊर्ध्वायां दिशि यज्ञस्संवत्सरो यज्ञपतिर्मार्जयन्ताम् इति यथालिङ्गं प्रतिदिशं व्युत्सिच्य । समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परा सेचि मत्पयः अन्तर्वेदि शेषं निनीय । यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वति । या सरस्वती वैशम्भल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्म मुखं विमृष्टे । अवभृथस्स्यैव रूपं कृत्वोत्तिष्ठति । एष वै दर्शपूर्णमासयोरवभृथः ।

अध्वर्युयजमानौ - यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम् उभौ कपालविमोचनीयं जपतः । संख्यायोद्वासयति यजमानस्य गोपीथाय । प्रतिकपालयोगं मन्त्रावृत्तिः ।

दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान् प्राचः क्रामति । उत्तरमुत्तरं ज्यायांसम् । अनतिहरन्थ्सव्यम् । नाहवनीयमतिक्रामति । विष्णोः क्रमोऽस्यभिमातिहा गायत्रेण छन्दसा पृथिवीमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । विष्णोः क्रमोऽस्यरातीयतो हन्ता जागतेन छन्दसा दिवमनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अवस्थाय चतुर्थञ्जपति विष्णोः क्रमोऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशोऽनु वि क्रमे निर्भक्तस्स यं द्विष्मः । अन्त्ये विष्णुक्रमदेशे एव स्थित्वा विष्ण्वतिक्रमातिमोक्षाणां जपः । अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतिमोक्षाः । अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथन्तरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण सहजान्भ्रातृव्यानधरान्पादयाम्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि । विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्भ्रातृव्यानधरान्पादया-म्यवैनान्बाधे प्रत्येनान्नुदेऽस्मिन् क्षयेऽस्मिन्भूमिलोके योऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्येनान्क्रामामि ॥ ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाꣳस्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाꣳ श्रैष्ठ्य आ धेह्येनम् अतिमोक्षान्जपति । अगन्म सुवस्सुवरगन्मेत्यादित्यमुपतिष्ठते अगन्म सुवस्सुवरगन्म सन्दृशस्ते मा छित्सि यत्ते तपस्तस्मै ते माऽऽवृक्षि सुभूरसि श्रेष्ठो रश्मीनामायुर्धा अस्यायुर्मे धेहि वर्चोधा असि वर्चो मयि धेहीदमहं पाप्मानं भ्रातृव्यमाभ्यो दिग्भ्योऽस्यै दिवोऽस्मादन्तरिक्षादस्यै पृथिव्या अस्मादन्नाद्यान्निर्भजामि निर्भक्तस्स यं द्विष्मः ॥ सं ज्योतिषा भूवम् ॥ उद्यन्नद्य मित्रमहस्सपत्नान्मे अनीनशः । दिवैनान् विद्युता जहि निम्रोचन्नधरान्कृधि ॥ उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य ॥ उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् । हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ शुकेषु मे हरिमाणꣳ रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥ उदगादयमादित्यो विश्वेन सहसा सह । द्विषन्तं मम रन्धयन्मो अहं द्विषतो रधम् ॥ यो नश्शपादशपतो यश्च नश्शपतश्शपात् । उषाश्च तस्मै निम्रुक्च सर्वं पापꣳ समूहताम् आदित्यमु-पतिष्ठते । ऐन्द्रीमावृतमन्वावर्ते इति प्रदक्षिणमावर्तते । पुण्या भवन्तु या लक्ष्मीः परा भवन्तु या पापीः । समहं प्रजया सं मया प्रजा समहꣳ रायस्पोषेण सं मया रायस्पोषः पुनरुपावर्तते । समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासं आहवनीयमुपसमिन्धे । वसुमान् यज्ञो वसीयन् भूयासम् । यो नस्सपत्नो यो रणो मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किञ्चन आहवनीयमुपतिष्ठते । अपरेण गार्हपत्यमुपविश्य तूष्णीं गार्हपत्ये समिधमादधाति । तिष्ठन् जपति । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्ने पवस्व स्वपा अस्मे वर्चस्सुवीर्यम् । दधत्पोषꣳ रयिं मयि आग्निपावमानीभ्यां गार्हपत्यमुपतिष्ठते । अग्ने गृहपते सुगृहपतिरहं त्वया गृहपतिना भूयसꣳ सुगृहपतिर्मया त्वं गृहपतिना भूयाश्शतꣳ हिमास्तामाशिषमाशासे तन्तवे ज्योतिष्मतीं तामाशिषमाशासे यज्ञेश्वर शर्मणे ज्योतिष्मतीम् । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि मा मानुषात् इति च । प्रतिपुत्रं मन्त्रावृत्तिः । तूष्णीं दक्षिणाग्नौ समिधमादधाति । अग्ने वह्ने स्वदितं नस्तनये पितुं पच । शं तोकाय तनुवे स्योनः दक्षिणाग्निमुपतिष्ठते । ज्योतिषे तन्तवे त्वा यज्ञेश्वरशर्मन्ननु मा तन्वच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेधि दिव्याद्धाम्नो मा छित्सि मा मानुषात् अन्तर्वेद्युपविश्य । ज्योतिरसि तन्तवे उपविश्य जपति । प्रतिपुत्रं मन्त्रावृत्तिः । वेदमुपस्थ आधायान्तर्वेद्यासीनोऽतिमोक्षान्जपति ये देवा यज्ञहनः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषः पृथिव्यामध्यासते । अग्निर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ आगन्म मित्रावरुणा वरेण्या रात्रीणां भागो युवयोर्यो अस्ति । नाकं गृह्णानास्सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥ ये देवा यज्ञहनोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषोऽन्तरिक्षेऽध्यासते । वायुर्मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ यास्ते रात्रीस्सवितर्देवयानीरन्तरा द्यावापृथिवी वियन्ति । गृहैश्च सर्वैः प्रजयाऽन्वग्रे सुवो रुहाणास्तरता रजाꣳसि ॥ ये देवा यज्ञहनो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ ये देवा यज्ञमुषो दिव्यध्यासते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥ येनेन्द्राय समभरः पयाꣳस्युत्तमेन हविषा जातवेदः । तेनाग्ने त्वमुत वर्धयेमꣳ सजातानाꣳ श्रैष्ठ्य आ धेह्येनम् ॥

व्रतोत्सर्जनम्

कस्त्वा युनक्ति स त्वा विमुञ्चतु यज्ञं विमुञ्चति । दक्षिणातिक्रम्य अग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेराधि । वायो व्रतपते व्रतमचारिषं तदशकं तन्मेराधि । आदित्य व्रतपते व्रतमचारिषं तदशकं तन्मेराधि । व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मेराधि व्रतं विसृजते । यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणां यज्ञस्य पुनरालम्भं जपति । गोमाꣳ अग्नेऽविमाꣳ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इडावाꣳ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् प्राङुदेत्य गोमतीं जपति । यज्ञ शं च म उप च म आयुश्च मे बलं च मे । यज्ञ शिवो मे सन्तिष्ठस्व यज्ञ स्विष्टो मे सन्तिष्ठस्व यज्ञारिष्टो मे सन्तिष्ठस्व दर्शपूर्णमासाभ्यां सोमेन पशुना वेष्ट्वा जपति ।

यज्ञसमापनम्

यजमानः पत्नी च :- वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागाम् इत्यप उपस्पृशतः । ब्राह्मणाꣳस्तर्पयितवै३ इति सम्प्रेष्यति ॥

अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमउक्तिं विधेम । प्र वश्शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् । यो दैव्यानि मानुषा जनूꣳषि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्रविणं भिख्षमाणाः । सुसंदृशꣳ सुप्रतीकꣳ स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र । अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी । भवा तोकाय तनयाय शं योः । प्रकारवो मनना वच्यमानाः । देवद्रीचीन्नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची ॥ सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमः । दशकृत्वस्ते नमः । शतकृत्वस्ते नमः । आ सहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते नमः । नमस्ते अस्तु मा मा हिꣳसीः ।

नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।

नम आहवनीयाय महावेद्यै नमो नमः ॥

काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे ।

स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः ।

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।

कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥

अनृणा अस्मिन्ननृणाः परस्मिꣳस्तृतीये लोके अनृणास्स्याम । ये देवयाना उत पितृयाणास्सर्वान्पथो अनृणा आक्षीयेम ॥ अहं परस्तादहमवस्तादहं ज्योतिषा वि तमो ववार । यदन्तरिक्षं तदु मे पिताऽभूदहꣳ सूर्यमुभयतो ददर्शाहं भूयासमुत्तमस्समानाम् ॥ प्रवसन्काले विहाराभिमुखो याजमानं जपति । प्राचो विष्णुक्रमान्क्रामति । प्राङुदेत्य गोमतीं जपति जपति ॥

प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु च ।

स्मरणादेव तद्विष्णोस्संपूर्णं स्यादिति ( स्मृतिः? )श्रुतिः ॥

प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।

यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥

स्वरेण वर्णेन च यद्विहीनं तथापि हीनं क्रिययापि यच्च ।

तथातिरिक्तं मम तत् क्षमस्व तदस्तु चाग्नेः परिपूर्णमेतत् ॥

मन्त्रमध्ये क्रियामध्ये विष्णोस्स्मरण पूर्वकम् ।

यत्किञ्चित् क्रियते कर्म तत्कर्म सफलं भवेत् ॥

॥ इति दर्शपूर्णमासयोः याजमानम् ॥



मृगारेष्टि

॥ अथ मृगारेष्टि प्रयोगः ॥

श्री परमेश्वर प्रीत्यर्थं [ ज्ञाताऽज्ञातसमस्तपापप्रायश्चित्तार्थं ] मृगारेष्ट्या यक्ष्ये । विद्युदसि । अग्निं गृह्णामि — अद्य यज्ञाय रमतां देवताभ्यः । ऐष्टꣳ हविः । आमावास्यं तन्त्रम् । इषे त्वेत्यादि । शाखामाहृत्य व्रतप्रवेशः । त्रयोविंशति दारुरिध्मः । ततस्त्वां त्रयोविꣳशतिधा संभरामि । वेदं कृत्वा वेदिः । प्रागुत्तरात् परिग्राहात् कृत्वा । अन्तर्वेदिशाखाया इत्यादि । उपवेषं करोति । न तृतीयस्यै । त्रिवृद्दर्भमयं पवित्रं कृत्वेत्यादि । यजमानः - त्रिवृत्पलाशे दर्भः — पयस्यां हव्यं करोतु मे । इमौ प्राणापानौ पवित्रे क्रियमाणे यजमानोऽनुमन्त्रयते । समूहन्त्यग्न्यगारमित्यादि । इमौ पर्णं च प्रज्ञातं शाखापवित्रं निदधाति । ततो वत्सापाकरणम् । परिस्तृणीत । देवा देवेषु ।

कर्मणे वां इत्यादि । पात्रप्रयोगकाले द्विपञ्चाशत् पुरोडाशकपालानि धानार्थं एकं भर्जनकपालं स्थालीद्वयं स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्या सह शूर्पद्वयम् । अपरतः वेदं पात्रीद्वयम् । अन्वाहार्यस्थाली वर्जम् । प्रातर्दोहपात्रैस्सह वाजिनपात्रम् । पवित्रे कृत्वा । ब्रह्माणं वृत्वा । गार्हपत्ये आज्यं विलाप्य उत्पूय स्रुचि चतुर्गृहीतं गृहित्वा आहवनीये जुहोति । अन्वारब्धे यजमाने ।

येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहा । पावमानीभ्य इदम् ।

अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यं पवित्रꣳ शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्मपुनीमहे स्वाहा । पावमानीभ्य इदम् ।

अपरं चतुर्गृहीतं गृहीत्वा इन्द्रस्सुनीती सह मा पुनातु सोमस्स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु स्वाहा । पावमानीभ्य इदम् ।

अथ अपः प्रणयति । निर्वपणकाले वानस्पत्योऽसि इत्यग्निहोत्रहवणीं वेषाय वां इति शूर्पे गृहित्वा इत्यादि । पात्र्यां व्रीहीन् यवान् निधायाभिमन्त्रयते ।

देवस्य त्वा इत्यादि । अग्नयेऽꣳहोमुचे जुष्टं निर्वपामि । इन्द्रायाꣳहोमुचे जुष्टं निर्वपामि । वायुसवितृभ्यामागोमुग्भ्यां जुष्टं निर्वपामि । अन्यस्मिन् शूर्पे पवित्रे निधाय । अश्विभ्या-मागोमुग्भ्यां जुष्टं निर्वपामि । धानार्थं यवान्निर्वपति । पूर्वस्मिन् शूर्पे पवित्रं निधाय । मरुद्भ्य एनोमुग्भ्यो जुष्टं निर्वपामि । विश्वेभ्यो देवेभ्य एनोमुग्भ्यो जुष्टं निर्वपामि । अनुमत्यै जुष्टं निर्वपामि । अग्नये वैश्वानराय जुष्टं निर्वपामि । द्यावापृथिवीभ्यामꣳहोमुग्भ्यां जुष्टं निर्वपामि । इदं देवानामित्यादि । अग्नेऽꣳहोमुक् हव्यꣳ रक्षस्वेन्द्राꣳहोमुक् हव्य रक्षस्व वायुसवितारावꣳहोमुचौ हव्यꣳ रक्षेथामश्विनावꣳहोमुचौ हव्यꣳ रक्षेथां मरुत एनोमुचो हव्यꣳ रक्षध्वं विश्वे देवा एनोमुचो हव्यꣳ रक्षध्वमनुमते हव्यꣳ रक्षस्वाग्ने वैश्वानर हव्यꣳ रक्षस्व द्यावापृथिवी अꣳहोमुचौ हव्यꣳ रक्षेथां अपरेणाहवनीयं सादयति ।

प्रोक्षणकाले अग्नयेऽꣳहोमुचे वो जुष्टं प्रोक्षामीन्द्रायाꣳहोमुचे वो जुष्टं प्रोक्षामि वायुसवितृभ्यामागोमुग्भ्यां वो जुष्टं प्रोक्षाम्यश्विभ्यामागोमुग्भ्यां वो जुष्टं प्रोक्षामि मरुद्भ्य एनोमुग्भ्यो वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्य एनोमुग्भ्यो वो जुष्टं प्रोक्षाम्यनुमत्यै वो जुष्टं प्रोक्षाम्यग्नये वैश्वानराय वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यामꣳहोमुग्भ्यां वो जुष्टं प्रोक्षामि । कृष्णाजिनादानादि । तुषान् प्रस्कन्दतोऽनुमन्त्रयते इति कृत्वा । वायुर्वो विविनक्तु इत्यादि पात्र्यां तण्डुलान् प्रस्कन्दयित्वा इत्यन्ते । उलूखलं प्रक्षाल्य । अग्नेस्तनूरसि इत्यादि । आग्नीध्रप्रैषवर्जं तुषाननुमन्त्र्य इत्यन्ते । सर्वान् तुषान् मध्यमपुरोडाशकपाले ओप्य निरस्य । पात्र्यां धानानां प्रस्कन्दनान्तं कृत्वा । अदब्धेन वः इत्यादि । क्रमेण सुफलीकृतान् कृत्वा । फलीकरणं निधाय । तण्डुलान् धानान् क्रमेण पार्थक्येन प्रक्षाल्य प्रक्षालितमुदकमेकीकृत्य निनयनमन्त्रेण उत्करे तन्त्रेण निनीय । यथाभागं व्यावर्तध्वं इति तण्डुलान् विभज्य इदमग्नेरꣳहोमुच इन्द्रस्याꣳहोमुच मरुतामेनोमुचां विश्वेषां देवानामेनोमुचामग्नेर्वैश्वानरस्य द्यावापृथिव्योरꣳहोमुचोः पुरोडाशार्थान् । इदं वायुसवित्रोरा-गोमुचोरश्विनोरागोमुचोरनुमतेः चर्वर्थानभिमृश्य । कृष्णाजिनादानादि । अग्नयेऽꣳहोमुचे जुष्टमधिवपामीन्द्रायाꣳ होमुचे जुष्टमधिवपामि मरुद्भ्य एनोमुग्भ्यो जुष्टमधिवपामि विश्वेभ्यो देवेभ्य एनोमुग्भ्यो जुष्टमधिवपाम्यग्नये वैश्वानराय जुष्टमधिवपामि द्यावापृथिवीभ्यामꣳहोमुग्भ्यां जुष्टमधिवपामि । अणूनि कुरुतात् इत्यन्तं पुरोडाशार्थान् कृत्वा । पिष्टलेपं प्रज्ञातं निदध्यात् । अथ कपालोपधानकाले आग्नेयस्य ऐन्द्रस्य प्रकृतिवन्निधाय । वायुसवित्रोः चरुस्थालीं निधाय । धानार्थं प्रथमेन कपालमन्त्रेण भर्जनकपालं निधाय । मारुतानां सप्तकपालानि । विश्वेषां देवानां द्वादशकपालानि । अनुमतेः चरुस्थालीं । अग्नेर्वैश्वानरस्य द्वादशकपालानि द्वितीयचतुर्थषष्ठाष्टमानामावृत्या निधाय । द्यावापृथिव्योः द्वे कपाले निदध्यात् ।

अत्र सायं दोहवत् प्रातर्दोहं दोहयति । एता आचरन्तीत्यादि सङ्क्षाळन निनयनान्तम् । एता आचरन्ति — इह व इद्रो रमयतु गावः । अध्वर्युः - निष्टप्तमित्यादि । कामधुक्षः प्रणोब्रूहि मित्रावरुणाभ्यामागोमुग्भ्यां हविरिन्द्रियं इत्यादि । बहुदुग्धि मित्रावरुणाभ्यामागोमुग्भ्यां देवेभ्यो हव्यमाप्यायतां पुनः — कल्पताम् । सङ्क्षाळननिनयनान्ते । भृगूणामङ्गिरसामित्यादि । भृगूणामङ्गिरसां तपसा तप्यस्व इति धानार्थे कपाले अङ्गारानध्यूह्य । मदन्तीरधिश्रयति । अधिवापवत्संवापः । संवपामीति मन्त्रं सन्नमति । पिष्टान्युत्पूय तण्डुलानुत्पूय धाना उत्पुनाति । अपश्चोत्पूय स्थाल्यामासिञ्चति । समापो अद्भिरित्यादि । पिण्डं कृत्वा । यथाभागं व्यावर्तध्वं आग्नेयं विभज्य । पुनः यथाभागं व्यावर्तध्वं ऐंद्रं विभज्य । यथाभागं व्यावर्तेथां तण्डुलान् विभज्य । यथाभागं व्यावर्तध्वं मारुतान् । यथाभागं व्यावर्तध्वं वैश्वदेवम् । यथाभागं व्यावर्तेथां वैश्वानरं द्यावापृथिवी च विभज्य । इदं वायुसवित्रोरागोमुचोः । इदमनुमतेः चर्वर्थान् । इदमग्नेर्वैश्वानरस्य । इदं द्यावापृथिव्योरꣳहोमुचोः । अन्त्ययोरेवनिर्देशः ।

घर्मोऽसि विश्वायुः इति क्रमेण आग्नेय ऐन्द्र पुरोडाशानधिश्रित्य । तप्ते प्रातर्दोहे लौकिकं दध्यानयति । घर्मोऽसि इति चर्वर्थं तण्डुलानोप्य । घर्मास्थ विश्वायुषः इति (यवान्) तण्डुलानोप्य धानाः करोति । ततः क्रमेण पुरोडाशचरूणामधिश्रयणम् । प्रथनादि पुरोडाशानाम् । अन्तरितं सर्वेषाम् । आप्यलेपं निनीय । तूष्णीं स्फ्यमादाय उत्तरपरिग्राहः । प्रकृतिवत्सम्प्रैषः ।

इदमहꣳ सेनाया इत्यादि । सूर्यज्योतिः इति सर्वेषां हविषाम् । न सूर्यज्योतिरित्यामिक्षायाः । सूर्यज्योतिषो विभात महत इन्द्रियाय धाना अभिमन्त्र्य । अभिघारणे आ प्यायतां घृतयोनिः — अग्नयेऽꣳहोमुचे जुष्टमभिघारयामि । तूष्णीमैंद्रम् । यस्त आत्मा इत्यामिक्षाम् । तूष्णीं वायुसवित्रोः, अश्विनोः, मारुतं, वैश्वदेवं च । आ प्यायतां — अनुमत्यै जुष्टमभिघारयामि । आ प्यायतां — अग्नये वैश्वानराय जुष्टमभिघारयामि । स्योनं त इत्यादि पुरोडाशानाम् । दृꣳहेति आमिक्षामुद्वास्य संहत्य द्वयोः पात्रयोरुद्धृत्य । वाजिना एकदेशेन उपसिञ्चति । आर्द्रो भुवनस्य गोपा इति चरोरुद्वासनम् । स्योनं वस्सदनं करोमि घृतस्य धारया सुषेवं कल्पयामि वः पात्र्यामुपस्तीर्य । भुवनस्य गोपाश्शृता उत्स्नान्ति जनित्र्यो मतीनां धाना उद्वास्य । आज्येन धानास्संयुत्य । पात्र्यां तूष्णीं प्रतिष्ठापयति । इरा भूतिः इति प्रकृतिवत् । अलङ्करणकाले आमिक्षावर्जं सर्वेषामलङ्करणम् । आग्नेयादीनां प्रकृतिवत् । देवो वस्सविता मध्वानक्तु इति धाना अनक्ति । यजमानः - तृप्तयस्स्थ गायत्रं छन्दस्तर्पयत मा तेजसा ब्रह्मवर्चसेन । तृप्तयस्स्थ त्रैष्टुभं छन्दस्तर्पयत मौजसा वीर्येण । तृप्तयस्स्थ जागतं छंदस्तर्पयत मा प्रजया पशुभिः । प्रियेण नाम्ना प्रियꣳ सद आसीद इत्यासादनम् । उत्करे वाजिनम् । यजमानः - यज्ञोसीत्याग्नेयं । आनुमतं वैश्वानरं च अभिमृशति । इदमिन्द्रियं — शृतं मयिश्रयतां । यत्पृथिवीमचरत् — येनोपरिष्टादधिनोन्महेन्द्रं पयस्या मां धिनोतु इत्यामिक्षाम् । अयं यज्ञः सर्वाणिहवींषि । यो नः कनीयः —ट्ठ अपतमिन्द्रोꣳहोमुग्भुवनां नुदतामहं प्रजां वीरवतीं विदेय इत्यैन्द्रस्य । ममाग्ने, पञ्चहोता ।

अयं वेद इत्यादि । आज्यभागाभ्यां प्रचर्य । अग्नयेऽꣳहोमुचेनुब्रू३हि । अग्निमꣳहोमुचं यज । अग्नेयेꣳहोमुच इदम् । अग्नेरꣳहोमुचोऽहं देवयज्ययान्नादो भूयासम् ।

इन्द्रायाꣳहोमुचेनुब्रू३हि । इन्द्रमꣳहोमुचं यज । इन्द्रायाꣳ होमुच इदम् । इन्द्रस्याꣳ होमुचोऽहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् ।

मित्रावरुणाभ्यामागोमुग्भ्यामनुब्रू३हि । मित्रावरुणावागोमुचौ यज । मित्रावरुणाभ्यामागोमुग्भ्यामिदम् । मित्रावरुणयोरागोमुचोऽहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा ।

वायुसवितृभ्यामागोमुग्भ्यामनु ब्रू३हि । वायुसवितारावागोमुचौ यज । वायुसवितृभ्यामागोमुग्भ्या-मिदम् । वायुसवित्रोरागोमुचोऽहं देवयज्यया वृत्रहा भूयासम् ।

अश्विभ्यामागोमुग्भ्यामनुब्रूहि । मा भैष्ट मा संविग्ध्वं मा वो हिꣳसिषं मा वस्तेजोपक्रमीत् । भरतमुद्धर ते मनुषिञ्चतावदानानि वः प्रत्यवदास्यामि नमो वो अस्तु मा मा हिꣳसिष्ट इति धानानां अवदानम् । यदवदानानि वोऽवद्यन् विलो मा कार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तद्व आ प्यायतां पुनः इति प्रत्यभिघारः । अश्विनावागोमुचौ यज । अश्विभ्यामागोमुग्भ्यामिदम् । अश्विनोरागोमुचोऽहं देवयज्यया वृत्रहा भूयसम् ।

मरुद्भ्य एनो मुग्भ्योनुब्रूहि । मरुत एनोमुचो यज । मरुद्भ्य एनोमुग्भ्य इदम् । मरुतामेनो-मुचामहं देवयज्यया वृत्रहा भूयासम् ।

विश्वेभ्यो देवेभ्य एनोमुग्भ्योऽनुब्रूहि । विश्वान्देवानेनोमुचो यज । विश्वेभ्यो देवेभ्य एनोमुग्भ्य इदम् । विश्वेषां देवानामेनोमुचामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् ।

अनुमत्या अनुब्रूहि । अनुमतिं यज । अनुमत्या इदम् । अनुमत्या अहं देवयज्ययान्नादो भूयासम् ।

अग्नये वैश्वानरायानुब्रूहि । अग्निं वैश्वानरं यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्यया वृत्रहा भूयासम् ।

द्यावापृथिवीभ्यामꣳहोमुग्भ्यामनुब्रूहि । द्यावापृथिवी अꣳहोमुचौ यज । द्यावापृथिवीभ्यामꣳ-होमुग्भ्यामिदम् । द्यावापृथिव्योरꣳहोमुचोरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् ।

प्रत्याक्रम्य । न पार्वण होमः । नारिष्ठान् हुत्वा । पवमानस्सुवर्जन इत्यनुवाकेन प्रत्यृचं जुहोति । सर्वत्र पावमानीभ्य इदं इति त्यागः । पवमानस्सुवर्जनः । पवित्रेण वि चर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः स्वाहा ॥ पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् स्वाहा ॥ पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूꣳरनु स्वाहा ॥ यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे स्वाहा ॥ उभाभ्यां देवसवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे स्वाहा ॥ वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयꣳ स्याम पतयो रयीणाꣳ स्वाहा ॥ वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताꣳ स्वाहा ॥ बृहद्भिस्सवितस्तृभिः । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा स्वाहा ॥ येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे स्वाहा ॥ यः पावमानीरध्येति । ऋषिभिस्संभृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितं मातरिश्वना स्वाहा ॥ पावमानीर्यो अध्येति । ऋषिभिस्संभृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर्मधूदकꣳ स्वाहा ॥ पावमानी-स्स्वस्त्ययनीः । सुदुघा हि पयस्वतीः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितꣳ स्वाहा ॥ पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान् समर्धयन्तु नः । देवीर्देवैस्समाभृताः स्वाहा ॥ पावमानीस्स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितꣳ स्वाहा ॥ येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्र धारेण । पावमान्यः पुनन्तु मा स्वाहा ॥ प्राजापत्यं पवित्रम् । शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे स्वाहा ।

अत्र जयाभ्यातान् राष्ट्रभृतः इत्युपजुहोति । अथ स्विष्टकृदादि प्रकृतिवत् । चतुर्धा करणकाले आग्नेयस्य अग्नेर्वैश्वानरस्य च बर्हिषदं करोति । दक्षिणाकाले हिरण्यं ददाति । ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वा हुताद्य मा मा हिꣳसीरहुतं मह्यꣳ शिवं भव । यजमानः - ब्रध्न पिन्वस्वेतादि । सहस्रधार — । तद्दाधारपृथिवीमन्तरिक्षं दिवं च तेन हिरण्येनातितराणि मृत्युम् । अग्नये हिरण्यमिति प्रतिग्रहः । हविःशेषानुद्वास्येत्यादि । यजमानः - सूक्तवाके अनूच्यमाने अग्नेरꣳहोमुचोऽहमुज्जितिम् । इन्द्रस्याꣳहोमुचोऽहमुज्जितिम् । मित्रावरुणयोरागोमुचोरहमुज्जितिम् । वायुसवित्रो-रागोमुचोरहमुज्जितिम् । अश्विनोरागोमुचोरहमुज्जितिम् । मरुतामेनोमुचामहमुज्जितिम् । विश्वेषान्देवानामेनोमुचामहमुज्जितिम् । अनुमतेरहमुज्जितिम् । अग्नेर्वैश्वानरस्याहमुज्जितिम् । द्यावापृथिव्योरꣳहो मुचोरहमुज्जितिम् । देवेभ्य आज्यपेभ्य इत्यादि ।

संस्रावान्ते वाजिनपात्र उपस्तीर्य । अन्तर्वेदि बर्हिरनुविषिञ्चन् वाजिनं गृह्णाति । वाजिभ्योऽनुब्रूहि इति ग्रहीष्यन् संप्रेष्यति । नाभिघारयति । वाजिनो यज । वषट्कृतानुवषट्कृते चमसेन जुहोति । प्रत्याक्रम्य । शेषेण दिग्यागः । दिशस्स्वाहा । प्रदिशस्स्वाहा । आदिशस्स्वाहा । विदिशस्स्वाहा प्रतिदिशं जुहोति । उद्दिशस्स्वाहा इति मध्यम् । स्वाहा दिग्भ्यः पश्चादारभ्य पूर्वपर्यन्तम् । नमो दिग्भ्यः इत्युपस्थाय शेषं होत्रे प्रयच्छति । सर्वे समुपहूयभक्षयन्ति । होताऽध्वर्युर्ब्रह्माग्नीद्यजमानश्च । वाजिनां भक्षो अवतु वाजो अस्मान्रेतस्सिक्तममृतं बलाय । स न इन्द्रियं द्रविणं दधातु मारिषाम वाजिनं भक्षयन्तः । तस्य ते वाजिभिर्भक्षङ्कृतस्य वाजिभिस्सुतस्य वाजिपीतस्य वाजिनस्योपहोतस्योपहूतो भक्षयामि । समानं कर्म आपत्नीसंयाजेभ्यः । देवानां पत्नीरिष्ट्वा । पुरस्ताद्गृहपतेरुपजुहोति ।

यद्देवा देव हेडनं देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामुत स्वाहा । देवेभ्य इदम् ।

देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसꣳ स्वाहा । अग्नये गार्हपत्यायेदम् ।

ऋतेन द्यावापृथिवी ऋतेन त्वꣳ सरस्वति । ऋतान्मा मुञ्चताꣳहसो यदन्यकृतमारिम स्वाहा । द्यावापृथिवीभ्यां सरस्वत्या इदम् ।

सजातशꣳसादुत वा जामि शꣳसाज्जायसश्शꣳसादुत वा कनीयसः । अनाज्ञातं देवकृतं यदेनस्तस्मात्वमस्माञ्जातवेदो मुमुग्धि स्वाहा । जातवेदस इदम् ।

यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्याꣳ शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसꣳ स्वाहा । अग्नये गार्हपत्यायेदम् ।

यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । दूरेपश्या च राष्ट्रभृच्च तान्यफ्सरसावनुदत्तामृणानि स्वाहा । दूरेपश्याराष्ट्रभृद्भ्यामप्सरोभ्यामिदम् ।

अदीव्यन्नृणं यदहं चकार यद्वादास्यन्थ्सञ्जगारा जनेभ्यः । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसꣳ स्वाहा । अग्नये गार्हपत्यायेदम् ।

यन्मयि माता गर्भे सत्येनश्चकार यत्पिता । अग्निर्मा तस्मादेनसः — स्वाहा । अग्नये गार्हपत्यायेदम् ।

यदापिपेष मातरं पितरं पुत्रः प्रमुदितो धयन्न् । अहिꣳसितौ पितरौ मया तत्तदग्ने अनृणो भवामि स्वाहा । अग्नय इदम् ।

यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो —ट्ठअनेनसꣳ स्वाहा । अग्नये गार्हपत्यायेदम् ।

यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा तस्मादेनसो — अनेनसꣳ स्वाहा । अग्नये गार्हपत्यायेदम् ।

अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि दुष्कृतस्तमारोहामि सुकृतान्नु लोकꣳ स्वाहा ॥ अग्नय इदम् ।

त्रिते देवा अमृजतैतदेनस्त्रित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चिदानशेऽग्निर्मा तस्मादेनसो — अनेनसꣳ स्वाहा । अग्नये गार्हपत्यायेदम् ।

दिवि जाता अप्सु जाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्तानश्शुन्धन्तु शुन्धनीस्स्वाहा । अद्भ्य इदम् ।

यदापो नक्तं दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीतनस्स्वाहा । अद्भ्य इदम् ।

इमम्मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके स्वाहा । वरुणायेदम् ।

तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीस्स्वाहा । वरुणायेदम् ।

त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्रमुमुग्ध्यस्मत् स्वाहा । अग्नीवरुणाभ्यामिदम् ।

स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उशसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि स्वाहा । अग्नीवरुणाभ्यामिदम् ।

त्वमग्ने अयास्ययासन्मनसा हितः । अयासन्, हव्यमूहिषेऽया नो धेहि भेषजꣳ स्वाहा । अग्नये अयस इदम् ।

सपूर्णपात्र विष्णुक्रमाः । यज्ञो बभूव, यज्ञ शं च म वर्जम् । इतराणि प्रकृतिवत् । सन्तिष्ठते मृगारेष्टिः ॥

॥ इति मृगारेष्टिप्रयोगः ॥



आग्रयण-प्रयोगः

॥ आग्रयण-प्रयोगः ॥

यजमानः - शरद्यमावास्यायां पौर्णमास्यां वा प्रातरग्निहोत्रं हुत्वा । दर्भेष्वासीनो दर्भान् धारयमाणः । पवित्रपाणिः पत्न्या सह प्राणानायम्य । श्यामाकाग्रयणं समानतन्त्रेण कुर्वन् व्रीह्याग्रयणेन यक्ष्ये१ इति । विद्युदसि । ऋत्विग्वरणम् । अद्य यज्ञाय । इमामूर्जम् । आग्रयणीयꣳ हविः । आमावास्यं तन्त्रम् । अन्वाधाय व्रतप्रवेशः । सप्तदश सामिधेन्यः । ततस्त्वां त्रयो विꣳशतिधा । वेदं कृत्वा वेदिः । यस्य कस्यचिद्यज्ञियकाष्ठस्योपवेषः । अलङ्कृत्य । परिस्तीर्य । देवा देवेषु । कर्मणे वामित्यादि । पात्रप्रयोगकाले एकविंशति कपालानि द्वे स्थाल्यौ स्फ्यश्च द्वन्द्वम् । शूर्पत्रयं अग्निहोत्रहवण्या सह द्वन्द्वम् । पात्री त्रयं वेदेन सह । आज्यस्थाल्या सह आशयपात्रम् । प्रणीताप्रणयनेन सह उत्पवन पात्रम् । आन्वाहार्यस्थाली वर्जमितराणि प्रकृतिवत् । वानस्पत्यासि दक्षाय त्वा अग्निहोत्रहवणीमादत्ते । वेषाय वः इति शूर्पत्रयम् । गृहत्रययुक्तायामेकस्यां पात्र्यामसंस्पृष्टानि बीजानि स्थापयित्वा धूरसीत्यादि । निरस्तमिति तन्त्रेण निरसनम् ।

निर्वपणकाले देवस्य त्वा — हस्ताभ्यामग्नये जुष्टं निर्वपामि इति पुराणानां व्रीहीणाम् । पवित्रे प्रक्षाल्य । अन्यस्मिन् शूर्पे निधाय । देवस्य त्वा — हस्ताभ्यामिन्द्राग्निभ्यां जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यां विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामि इति नवानां व्रीहीणाम् । पवित्रे प्रक्षाल्य । अन्यस्मिन् शूर्पे निधाय । देवस्य त्वा — हस्ताभ्याꣳ सोमाय जुष्टं निर्वपामि इति नवानां श्यामाकानाम् । पवित्रे प्रक्षाल्य । ऐन्द्राग्नवैश्वेदेवनिरुप्तशूर्पे निधाय । देवस्य त्वा — हस्ताभ्यां द्यावापृथिवीभ्यां जुष्टं निर्वपामि इति नवानां व्रीहीणां । इदं देवानामित्यादि । आसादनकाले अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथां विश्वेदेवा हव्यꣳ रक्षध्वं सोम हव्यꣳ रक्षस्व द्यावापृथिवी हव्यꣳ रक्षेथाम् । अथ लौकिकमाज्यं पञ्चगृहीतं गृहीत्वा पञ्च अज्यानीर्जुहोति ।

शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे । शतं यो नश्शरदो अजीतानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा । इन्द्रायेदम् ।

ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहा-त्तस्मै नो देवाः परिदत्तेह सर्वे स्वाहा । देवेभ्य इदम् ।

ग्रीष्मो हेमन्त उत नो वसन्तश्शरद्वर्षास्सुवितं नो अस्तु । तेषामृतूनाꣳ शतशारदानां निवात एषामभये स्याम स्वाहा । ऋतुभ्य इदम् ।

इदुवत्सराय परिवत्सराय संवत्सराय कृणुता बृहन्नमः । तेषां वयꣳ सुमतौ यज्ञियानां ज्योगजीता अहतास्स्याम स्वाहा । वत्सरेभ्य इदम् ।

भद्रान्नश्श्रेयस्समनैष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योनस्स्वाहा । देवेभ्य इदम् ।

सशूकायामित्यादि । प्रोक्षण काले देवस्य त्वा — हस्ताभ्यामग्नये वो जुष्टं प्रोक्षामीन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि विश्वेभ्यो देवेभ्यो वो जुष्टं प्रोक्षामि सोमाय वो जुष्टं प्रोक्षामि द्यावापृथिवीभ्यां वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । देवस्य त्वा —कृष्णाजिनादानादि । पुराणव्रीहीनोप्य । पात्र्यां तण्डुलप्रस्कन्दनान्तं कृत्वा । नवव्रीह्यवहननार्थमुलूखलं प्रक्षाल्य अग्नेस्तनूरसीत्यादि । प्रतिबीजं हविष्कृदेहीत्यावृत्तिः । आग्नीध्रप्रैषवर्जम् । पात्र्यां नवतण्डुलप्रस्कन्दनान्तं करोति । श्यामाकावहननार्थमुलूखलं प्रक्षाल्य । अग्नेस्तनूरसीत्यादि । आग्नीध्रप्रैषवर्जम् । समाहतान् सर्वान्तुषान् मध्यमपुरोडाशकपाले ओप्य रक्षसां भागोसि इति निरसनं कृत्वा । वायुर्वो विविनक्तु इति विविच्य । देवोवस्सविता इति पात्र्यां श्यामाकान्प्रस्कन्दयित्वा । अदब्धेन व इति मन्त्रेण पुराणनवतण्डुलान् श्यामाकांश्च तन्त्रेणावेक्ष्य त्रिष्फलीकर्तवा इति पत्नीं संप्रेष्यति । पत्नी - पुराणनवव्रीहीन् श्यामाकान् क्रमेण सुफलीकृतान् कुर्यात् । अध्वर्युः - फलीकरणं प्रज्ञातं निधाय । सर्वतण्डुलान् क्रमेण पार्थक्येण प्रक्षाल्य । प्रक्षालितमुदकमेकीकृत्य । त्रिष्फलीक्रियमाणानामिति निनयनमन्त्रेण उत्करे तन्त्रेण निनीय । यथाभागं व्यावर्तध्वं इति नवान् तण्डुलान् विभज्य । इदमिन्द्राग्न्योर्द्यावापृथिव्योः पेषणार्थान् । इदं विश्वेषां देवानाम् चर्वर्थानभिमृश्य । आग्नेयस्य कृष्णाजिनादानादि अणूनि कुरुतादित्यन्तं कृत्वा । पुनर्नवानां कृष्णाजिनादानादि कृत्वा । देवस्य त्वा — हस्ताभ्यामिन्द्राग्निभ्यां जुष्टमधिवपामि द्यावापृथिवीभ्यां जुष्टमधिवपामि धान्यामसि धिनुहि देवान् इत्यादि अणूनिकुरुतादित्यन्तम् । पिष्टलेपं प्रज्ञातं निदधाति । आग्नेयस्य अष्टाकपालानि निधाय ऐन्द्राग्नस्य अष्टावुपधाय तूष्णीं चत्वारि । ध्रुवोऽसीति वैश्वदेवसौम्ययोः स्थालीमुपदधाति । द्यावापृथिव्यमेककपालमुपधाय । भृगूणामङ्गिरसां तपसा तप्यस्व इति वेदेन एककपाले अङ्गारानध्यूह्य । मदन्तीरधिश्रयति ।

संवपनकाले देवस्य त्वा — हस्ताभ्यामग्नये जुष्टꣳ संवपामि इति पुराणपिष्टं समोप्य । अन्यस्मिन् पात्रे देवस्य त्वा — हस्ताभ्यामिन्द्राग्निभ्यां जुष्टꣳ संवपामि द्यावापृथिवीभ्यां जुष्टꣳ संवपामि इति नवानि पिष्टानि समोप्य प्रोक्षणीवत्पिष्टानि क्रमेण उत्पूय श्यामाकतण्डुलांश्चोत्पूय देवस्त्वा सविता पुनातु इति पय उत्पूय तूष्णीं वैश्वदेवस्थाल्यामासिच्य अपश्चोत्पूय सौम्यस्थाल्या-मासिञ्चति । चरोर्न जनयत्यै त्वा । मखस्य शिरोऽसि इत्याग्नेयं पिण्डं कृत्वा । पुनः मखस्य शिरोऽसि इति नवानां पिण्डं कृत्वा । यथाभागं व्यावर्तेथां विभज्य । इदमिन्द्राग्न्योः इदं द्यावापृथिव्योः इति निर्दिश्य । घर्मोसि इत्याग्नेयमधिश्रित्य । तेनैव मन्त्रेणैन्द्राग्नमधिश्रित्य तेनैव मन्त्रेण वैश्वदेवस्थाल्यां तण्डुलानोप्य । तेनैव मन्त्रेण सौम्यस्थाल्यां श्यामाकतण्डुलानोप्य तेनैव मन्त्रेणैककपालमधिश्रयति । क्रमेण पुरोडाशानां प्रथनादि कृत्वा । चरोर्न प्रथनं, नापि श्लक्ष्णीकरणं, नोल्मुकैः प्रतितपनं, न दर्भैरभिज्वलनं, न साङ्गारभस्माध्यूहनमिति । सर्वाणि हवींषि त्रिः पर्यग्निकृत्वा । सं ब्रह्मणा पृच्यस्व इत्यादि । आप्यलेपं निनीय । तूष्णीं स्फ्यमादाय ब्रह्मन्नुत्तरं परिग्राहमित्यादि ।

आग्नेयं मन्त्रेणाभिघार्य तूष्णीमितराण्यभिघार्य आग्नेयमैन्द्राग्नं च पात्र्यां प्रतिष्ठाप्य । आर्द्रो भुवनस्य इति वैश्वदेवं चरुं सौम्यं चरुं च उद्वास्य । आशयपात्र उपस्तीर्य एककपालप्रतिष्ठापनान्तं करोति अलंकरणकाले आज्येनैककपालमभिपूरयत्याविःपृष्ठं वा कृत्वा । प्रियेण नाम्ना प्रियꣳ सद आसीद इति मन्त्रेण सर्वाणि हवींषि अपरेण स्रुच आसादयति । यजमानः - यज्ञोऽस्ययं यज्ञो यो नः कनीयो ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनं करोति । अध्वर्युः - प्रचरण काले आग्नेयं ऐन्द्राग्नञ्च प्रकृतिवत्कृत्वा । विश्वेभ्यो देवेभ्योऽनु ब्रू३हि । आश्राव्यप्रत्याश्राविते विश्वान् देवान् यज । वषट्कृते जुहोति । यजमानः - विश्वेभ्यो देवेभ्य इदम् । विश्वेषां देवानामहं देवयज्यया प्राणैस्सायुज्यं गमेयम् । अध्वर्युः - सोमायानुब्रू३हि । आश्राव्यप्रत्याश्राविते सोमं यज । वषट्कृते जुहोति । यजमानः - सोमायेदम् । सोमस्याहं देवयज्यया वृत्रहा भूयासम् । अध्वर्युः - एककपालप्रचरण काले घृतादेककपालमुद्धृत्य बर्हिषि सन्नं कृत्वा जुह्वामुपस्तीर्य तत्र कृत्स्नं पुरोडाशमवदाय । आशयाज्यं पश्चादानीय सकृदभिघार्य । द्यावापृथिवीभ्यां [उपांशु] अनुब्रू३हि [उच्चैः] । आश्राव्य प्रत्याश्राविते द्यावापृथिवी [उपांशु] यज [उच्चैः] । वषट्कृते जुहोति । यजमानः - द्यावापृथिवीभ्यामिदम् । द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोर् ऋध्यासम् । अध्वर्युः - न पार्वण होमः । नारिष्ठान् हुत्वा । स्विष्टकृतमिष्ट्वा ।

आग्नेयं पुरोडाशं विरुज्य । इतरद्धविरविरुज्य प्रत्येकं प्राशित्रमवदाय ब्रह्मणे परिहरति । ब्रह्मा प्रकृतिवत् आग्नेयं प्राश्य आचम्य तथा ऐन्द्राग्नं प्राशित्रं भद्रान्नः श्रेयस्समनैष्ट देवास्त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योनः इति प्राश्य आचम्य । श्यामाकं गृहीत्वा अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः इति श्यामाकं प्राश्य आचम्य । या अप्स्वन्तर्देवता इत्यादि प्रकृतिवत् । अध्वर्युः - इडावदाने पुराण नूतन हविषः पृथक्पृथगिडामवद्यति । इडा भक्षण काले इडे भागमिति पुराणं प्राश्य ऐन्द्राग्नं वैश्वदेवं च भद्रान्नः श्रेय इति प्राश्य आचम्य, श्यामाकं अग्निः प्रथमः प्राश्नातु इति प्राश्नाति । एवं ब्रह्माग्नीध्रो यजमानश्च । यजमानः - दक्षिणा काले वत्सं वासश्च अन्तर्वेदि संस्थापयति । ब्रह्मा - ब्रह्मणी ब्रह्मणी स्थो ब्रह्मणे वां मा मा हिꣳसिष्टमहुते मह्यꣳ शिवे भवतम् इत्यभिमृशति । यजमानः - ब्रध्न पिन्वस्वेत्यादि सहस्रधारे उत्से अक्षीयमाणे ते दध्रतुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां वत्सवासोभ्यामतितराणि मृत्युम् । इत्यभिमृश्य इमे वो वत्सवाससी प्रतिगृह्णीध्वम् । ऋत्विजः - देवस्य त्वा — रुद्राय गां । तेनामृतत्त्वं — प्रतिगृह्णातु । देवस्य त्वा — देवि दक्षिणे ग्नास्त्वा कृन्तन्नतपसस्स्त्वा तन्वत वरूत्रयस्त्वा वयन्त्सोमाय वासः । तेनामृतत्त्वं — प्रतिगृह्णातु । इति प्रतिग्रहः । यजमानभागप्राशनकाले सं यज्ञपतिराशिषा इति पुराणभागं प्राश्य भद्रान्नः श्रेयः इति ऐन्द्राग्नं वैश्वदेवं च एकीकृत्य प्राश्य अग्निः प्रथमः इति श्यामाकं प्राश्नाति । एककपालोद्वासनकाले यद्घर्मे कपालमुपचिन्वन्ति वेधसः । पूष्णस्तदपिव्रत इन्द्रवायू विमुञ्चताम् । यजमानः - विष्णुक्रमादि । यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तं कुर्यात् । सिद्धमिष्टिः सन्तिष्ठते ॥

॥ इति आग्रयणप्रयोगः ॥



पवित्रेष्टिप्रयोगः

॥ अथ पवित्रेष्टिप्रयोगः ॥

श्री परमेश्वरप्रीत्यर्थं शुद्धिकामः पवित्रेष्ट्या यक्ष्ये । विद्युदसीत्यादि । पौर्णमासं तन्त्रम् । अग्नीनन्वाधाय वैश्वदेववत् इध्माबर्हिराहरति । प्रसूमयं बर्हिः प्रस्तरश्च । त्रयोविंशति दारुरिध्मः । पात्रप्रयोगकाले चतुश्चत्वारिंशत्कपालानि स्फ्यश्च द्वन्द्वम् । इतराणि प्रकृतिवत् । प्रणीताः प्रणीय चतुर्गृहीतं जुहोति ।

येन देवाः पवित्रेणात्मानं पुनते सदा । तेन सहस्रधारेण पावमान्यः पुनन्तु मा स्वाहा । पावमानीभ्य इदम् ।

अपरं चतुर्गृहीतं गृहीत्वा प्राजापत्यं पवित्रꣳ शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयं पूतं ब्रह्म पुनीमहे स्वाहा ॥ पावमानीभ्य इदम् ।

अपरं चतुर्गृहीतं गृहीत्वा इन्द्रस्सुनीती सह मा पुनातु सोमस्स्वस्त्या वरुणस्समीच्या । यमो राजा प्रमृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु स्वाहा । पावमानीभ्य इदम् ।

अभ्यातानान् हुत्वा अग्निर्भूतानामित्यनुवाकम् । सं विशन्तामित्यादि । निर्वपणकाले देवस्य त्वा — हस्ताभ्यामग्नये जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यामग्नये पवमानाय जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यामग्नये पावकाय जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यामग्नये शुचये जुष्टं निर्वपामि । देवस्य त्वा — हस्ताभ्यामग्नये वैश्वानराय जुष्टं निर्वपामि । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यꣳ रक्षस्वाग्ने पवमान हव्यꣳ रक्षस्वाग्ने पावक हव्यꣳ रक्षस्वाग्ने शुचे हव्यꣳ रक्षस्वाग्ने वैश्वानर हव्यꣳ रक्षस्व । सशूकायामित्यादि । देवस्य त्वा — हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नये पवमानाय वो जुष्टं प्रोक्षाम्यग्नये पावकाय वो जुष्टं प्रोक्षाम्यग्नये शुचये वो जुष्टं प्रोक्षाम्यग्नये वैश्वानराय वो जुष्टं प्रोक्षामि । अधिवपने देवस्य त्वा — हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नये पवमानाय जुष्टमधिवपाम्यग्नये पावकाय जुष्टमधिवपाम्यग्नये शुचये जुष्टमधिवपाम्यग्नये वैश्वानराय जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । कपालानामुपधानकाले आग्नेयादीनां प्रकृतिवत् । वैश्वानरस्य द्वितीय चतुर्थ षष्ठाष्टमानामावृत्तिः । अधिवापवत्संवापः । सं वपामीति मन्त्रं सन्नमति । समानमा पुरोडाशानामुद्वासनात् । सर्वेषां मन्त्रेणाभिघारणम् । प्रियेणेत्यासादनम् । यजमानः - यज्ञोऽसि इति पंचकृत्वः । ममाग्ने चतुर्होत्राभिमर्शनम् । आज्यभागाभ्यां प्रचर्य आग्नेयमिष्ट्वा उपांशु व्यत्यासं पञ्चभिराज्यहविर्भि-र्यजति । अग्नयेऽनुब्रूहि । अग्निं यज । अग्नय इदम् । अग्नेरहं देवयज्ययान्नादो भूयासम् । सरस्वत्या प्रियायाः [उपांशु] अनुब्रूहि [उच्चैः] । सरस्वतीं प्रियां [उपांशु] यज [उच्चैः] सरस्वत्यै प्रियया इदम् । दब्धिरसि । अग्नये पवमानायानुब्रूहि । अग्निं पवमानं यज । अग्नये पवमानायेदम् । अग्नेः पवमानस्याहं देवयज्ययान्नादो भूयासम् । विष्णवे उरुक्रमाय [उपांशु] अनुब्रूहि [उच्चैः] । विष्णुमुरुक्रमं [उपांशु] यज [उच्चैः] । विष्णव उरुक्रमायेदम् । दब्धिरसि । अग्नये पावकायानुब्रूहि । अग्निं पावकं यज । अग्नये पावकायेदम् । अग्नेः पावकस्याहं देवयज्ययान्नादो भूयासम् । देवाय सवित्रे [उपांशु] अनुब्रूहि [उच्चैः] । देवं सवितारं [उपांशु] यज [उच्चैः] । देवाय सवित्र इदम् । दब्धिरसि । अग्नये शुचयेऽनुब्रूहि । अग्निं शुचिं यज । अग्नये शुचय इदम् । अग्नेश्शुचेरहं देवयज्ययान्नादो भूयासम् । वायवे नियुत्वते [उपांशु] अनुब्रूहि [उच्चैः] । वायुं नियुत्वन्तं [उपांशु] यज [उच्चैः] । वायवे नियुत्वत इदम् । दब्धिरसि । अग्नये वैश्वानरायानुब्रूहि । अग्निं वैश्वानरं यज । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं देवयज्ययान्नादो भूयासम् । दधिक्राव्णे [उपांशु] अनुब्रूहि [उच्चैः] । दधिक्राव्णं [उपांशु] यज [उच्चैः] । दधिक्राव्ण इदम् । दब्धिरसि । नारिष्ठान् हुत्वा ।

उभाभ्यां देवसवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे स्वाहा ॥ पावमानीभ्य इदम्

वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयꣳ स्याम पतयो रयीणाꣳ स्वाहा ॥ पावमानीभ्य इदम् ।

येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे स्वाहा ॥ पावमानीभ्य इदम् ।

यः पावमानीरध्येति । ऋषिभिस्संभृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितं मातरिश्वना स्वाहा ॥ पावमानीभ्य इदम् ।

पावमानीर्यो अध्येति । ऋषिभिस्संभृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर्मधूदकꣳ स्वाहा ॥ पावमानीभ्य इदम् ।

पावमानीस्स्वस्त्ययनीः । सुदुघा हि पयस्वतीः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितꣳ स्वाहा ॥ पावमानीभ्य इदम् ।

पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान् समर्धयन्तु नः । देवीर्देवैस्समाभृताः स्वाहा ॥ पावमानीभ्य इदम् ।

पावमानीस्स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिस्संभृतो रसः । ब्राह्मणेष्वमृतꣳ हितꣳ स्वाहा ॥ पावमानीभ्य इदम् ।

स्विष्टकृदादि प्रतिपद्यते । सर्वेषां चतुर्धाकरणम् । अन्वाहार्यो दक्षिणा । देवानां पत्नीरिष्ट्वा पुरस्ताद्गृहपतेः यद्देवा देवहेडनं इत्यनुवाकेन स्रुवाहुतीरुपजुहोति । उपरिष्टाद्वा गृहपतेः । सपूर्णपात्रविष्णुक्रमाः । यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तं सन्तिष्ठते पवित्रेष्टिः ॥

॥ इति पवित्रेष्टिः ॥