१६ अयं पुरो हरिकेश

‘अयं पुरो हरिकेश’ इति पञ्च पर्यायान्,

अ॒यम्पु॒रो हरि॑केशः ...{Loading}...

मूलम् (संयुक्तम्)

अ॒यम्पु॒रो हरि॑केश॒स्सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ यातु॒धाना॑ हे॒ती रख्षाꣳ॑सि॒ प्रहे॑तिर॒यन्द॑ख्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्या चा᳚फ्स॒रसौ॑ द॒ङ्ख्ष्णवᳶ॑ प॒शवो॑ हे॒तिᳶ पौरु॑षेयो व॒धᳶ प्रहे॑तिर॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती च [7] अ॒नु॒म्लोच॑न्ती चाफ्स॒रसौ॑ स॒र्पा हे॒तिर्व्या॒घ्राᳶ प्रहे॑तिर॒यमु॑त्त॒राथ्स॒य्ँयद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसा॒वापो॑ हे॒तिर्वात॒ᳶ प्रहे॑तिर॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाफ्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यम् [8] द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जम्भे॑ दधाम्य्

सायणोक्त-विनियोगः

(अथ चतुर्थकाण्डे चतुर्थप्रपाठके तृतीयोऽनुवाकः) । द्वितीयेऽनुवाके नाकसदाख्या इष्टका उक्ताः।
अथ तृतीयो चोडाख्या इष्टका उच्यन्ते ।
कल्पः—“तासु पुरीषमध्यू (ध्यु) ह्यायं पुरो हरिकेश इति पञ्च चोडाअभ्युपदधाति द्वेष्यं मनसा ध्यानन्पश्चात्प्राचीमुत्तमाम्” इति।
तत्र प्रथमं मन्त्रमाह— अयं पुरो हरिकेश इति ।

एतैर्मन्त्रैः साध्यमुपधानं विधत्ते— “पञ्चचोडा उप दधात्यप्सरस एवैतमेता भूता अमुष्मिल्ँ लोक उप शेरेऽथो तनूपानीरेवैता यजमानस्य” [सं. का. ५ प्र. ३ अ. ७] इति।
चूड संवरण इत्यास्माद्धातोरुत्पन्नश्चोडाशब्दः । नाकसदामुपरि च्छिद्रावरणार्थत्वादेता इष्टकाश्चोडा इत्युच्यन्ते । पञ्चसंख्याकाश्चोडाः पञ्चचाडोस्तासामु पधाने सत्येता इष्टका अप्सरस एव भूताः स्वर्गे लोक एनं यजमानमुपशेरते । अपि च, एता अप्सरसो यजमानस्य तनूपानीरेव शरीरपालनपरा एव ।
उपधानकाले ध्यानविशेषं विधत्ते— “यं द्विष्यात्तमुपदधद्ध्यायेदेताभ्य एवैनं देवताभ्य आ वृश्चाति ताजगार्ति मार्छति” (सं. का. ५ प्र. ३ अ. ७) इति।
यजमानो यं पुरुषं द्विष्यात्तं द्वेष्यमध्वर्युरुपधानं कुर्वन्ध्यायेत् । तेन ध्यानेनैताभ्य एवाग्निसेनान्यादिभ्यो देवताभ्य एनं द्वेष्यमावृश्चति सर्वतो विच्छिन्नं करोति । ताजगार्तिमार्छति तदानीमेव मरणं प्राप्नोति ।

नाकसदामुपरि पञ्चचोडोपधानं विधत्ते— “उत्तरा नाकसद्भ्य उप दधाति यथा जायामनीय गृहेषु निषादयति तादृगेव तत्” [सं. का. ५ प्र. ३ अ. ७] इति।
गृहस्थानीया नाकसदो जायास्थानीयाः पञ्चचोडाः ।
तत्रायं पश्चादिति तृतीयमन्त्रेणोपधेया येयमिष्टका तस्याश्चरमत्वं विधत्ते— “पश्चात्प्राचीमुत्तरामुप दधाति तस्मात्पश्चात्प्राची पत्न्यन्वास्ते” [सं. का. ५ प्र. ३ अ. ७] इति।
यस्मात्पश्चिमायां दिशि प्राङ्मुखत्वेनापेधेया इ (मि) ष्टका (कां) चरमत्वे नोपधत्ते तस्मात्पश्चिमायां दिश्यवस्थाय प्राङ्मुखी पत्नी गार्हपत्यमुपविशति ।

विश्वास-प्रस्तुतिः

अ॒यम्पु॒रो हरि॑केश॒स् सूर्य॑रश्मिः ।

मूलम्

अ॒यम्पु॒रो हरि॑केश॒स्सूर्य॑रश्मिः ।

सायण-टीका

अयमग्निः पुरः पूर्वस्यां दिशि हरिकेशो हिरण्यवर्णकेशसमाना ज्वाला यस्यासौ हरिकेशः सूर्यसमानरश्मिस्

विश्वास-प्रस्तुतिः

तस्य॑ रथगृ॒थ्सश् च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ ।

मूलम्

तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ ।

सायण-टीका

तस्य तादृशस्याग्नेः
२०५४ परिचारकौ द्वौ सेनानिग्रामण्यौ ।
एकः सेनां परराज्येषु नयत्यपरः स्वराज्ये ग्रामं नयति ।
तत्र रथगृत्स इति सेनान्यो नामधेयम् ।
गृत्सो गर्धनवान् ।
यस्य रथे महती तृष्णा सोऽयं रथगृत्सः ।
रथौजा इति ग्रामण्यो नामधेयम् ।
ओजो बलम् ।
यस्य रथारोहणे बलाधिक्यं स रथौजाः ।
यथैतौ मुख्यौ परिचारकौ

विश्वास-प्रस्तुतिः

पु॒ञ्जि॒क॒स्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ ।

मूलम्

पु॒ञ्जि॒क॒स्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ ।

सायण-टीका

तथा द्व अप्सरसौ परिचारिके ।
तत्र पुञ्जिकस्थलेत्येकस्या नामधेयं, कृतस्तले त्यपरस्या नामधेयम् ।
यातुधाना रक्षांसि चेत्यवान्तरजातिभेदोऽवगन्तव्यः ।

विश्वास-प्रस्तुतिः

या॒तु॒धाना॑ हे॒ती, रख्षाꣳ॑सि॒ प्रहे॑तिः।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

या॒तु॒धाना॑ हे॒ती रख्षाꣳ॑सि॒ प्रहे॑तिः

सायण-टीका

हेतिप्रहेती अप्यायुधविशेषौ ।
तत्र यातुधानाः क्रूरास्तीक्ष्णहेतिस्वरूषाः ।
रक्षांस्यतिक्रूराणि अतितीक्ष्णप्रहेतिरूपाणि ।
यस्याग्रेरिदं सर्वं हे इष्टके तदग्निस्वरूपाऽसीत्यभिप्रायः । एवं सर्वत्र योज्यम् ।

विश्वास-प्रस्तुतिः

अ॒यन् द॑ख्षि॒णा वि॒श्वक॑र्मा ।

मूलम्

अ॒यन्द॑ख्षि॒णा वि॒श्वक॑र्मा ।

सायण-टीका

अथ द्वितीयमन्त्रमाह— अयं दक्षिणेति । विश्वानि कर्माण्यग्निहोत्रादीनि यस्याग्नेः सोऽयं विश्वकर्मादक्षिणस्यां दिशि स्थितः ।

विश्वास-प्रस्तुतिः

तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ । मे॒न॒का च॑॑ सहज॒न्या चा᳚फ्स॒रसौ॑ ।

मूलम्

तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ । मे॒न॒का च॑॑ सहज॒न्या चा᳚फ्स॒रसौ॑ ।

सायण-टीका

तस्य रथस्वनः सेनानी रथेचित्रो ग्रामणीः मेनकेति सहजन्येति चाप्सरसोर्नामधेयम् ।

विश्वास-प्रस्तुतिः

द॒ङ्ख्ष्णवᳶ॑ प॒शवो॑ हे॒तिᳶ, पौरु॑षेयो व॒धᳶ प्रहे॑तिः।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

द॒ङ्ख्ष्णवᳶ॑ प॒शवो॑ हे॒तिᳶ पौरु॑षेयो व॒धᳶ प्रहे॑तिः+++( तेभ्यो॒ नम॒स् , ते नो॑ मृडयन्तु॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि )+++ ।

सायण-टीका

दङ्क्ष्णवो दंशनशीला व्याघ्रादयो हेतिः । संग्रामे पुरुषसंबन्धी यो वघः स प्रहेतिः ।

विश्वास-प्रस्तुतिः

अ॒यम्प॒श्चाद्वि॒श्वव्य॑चाः ।
तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ ।
प्र॒म्लोच॑न्ती चा॒नु॒म्लोच॑न्ती चाफ्स॒रसौ॑
स॒र्पा हे॒तिर्, व्या॒घ्राᳶ प्रहे॑तिः।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

अ॒यम्प॒श्चाद्वि॒श्वव्य॑चाः ।
तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ ।
प्र॒म्लोच॑न्ती चा॒नु॒म्लोच॑न्ती चाफ्स॒रसौ॑
स॒र्पा हे॒तिर्व्या॒घ्राᳶ प्रहे॑तिः +++(तेभ्यो॒ नम॒स् , ते नो॑ मृडयन्तु॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि )+++ ।

सायण-टीका

अथ तृतीयमन्त्रमाह— अयं पश्चादिति । विश्वं व्यचति प्राप्नोतीति विश्वव्यचाः । सर्वमन्यत्पूर्ववद्व्याख्येयम् ।

विश्वास-प्रस्तुतिः

अ॒यम् उ॑त्त॒राथ् स॒य्ँयद्-व॑सुः ।
तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ ।
वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसौ ।
आपो॑ हे॒तिर्, वात॒ᳶ प्रहे॑तिः ।
[तेभ्यो॒ नम॒स्, ते नो॑ मृडयन्तु।
ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒, तव्ँ वो॒ जम्भे॑ दधामि]

मूलम्

अ॒यमु॑त्त॒राथ्स॒य्ँयद्व॑सुः ।
तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ ।
वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसौ ।
आपो॑ हे॒तिर्वात॒ᳶ प्रहे॑तिः +++(तेभ्यो॒ नम॒स् , ते नो॑ मृडयन्तु॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि )+++ ।

सायण-टीका

अथ चतुर्थमन्त्रमाह— अयमुत्तरादिति संयत्प्राप्तं वसु धनं यस्याग्नेः सोऽयं संयद्वसुः। सोऽग्निरुत्तरादुत्तरस्यां दिशि वर्तते । शेषं पूर्वेवत् ।

विश्वास-प्रस्तुतिः

अ॒यम् उ॒पर्य् अ॒र्वाग्-व॑सुः ।
तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्यौ॑ ।
उ॒र्वशी॑ च पू॒र्व-चि॑त्तिश् चाफ्स॒रसौ॑ ।
वि॒द्युद्+हे॒तिर्, अ॑व॒स्फूर्ज॒न् प्रहे॑तिः ।

मूलम्

अ॒यमु॒पर्य॒र्वाग्व॑सुः ।
तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्यौ॑ ।
उ॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाफ्स॒रसौ॑ ।
वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न्प्रहे॑तिः ।

सायण-टीका

अथ पञ्चममन्त्रमाह— अयमुत्तर्यर्वादिति । अर्वाग्वसुरधोमुखत्वेन वसुनो मेघाद्भूमौ पतनाद्वैद्युतोऽग्निस्तथोच्यते । स चोपर्यूर्ध्वायां दिशि प्रवर्तते । भयहेतुप्रकाशा विद्युत् । मारकोऽशनिरवस्फूर्जन् ।

विश्वास-प्रस्तुतिः

तेभ्यो॒ नमः॑ ।

मूलम्

तेभ्यो॒ नमः॑ ।

सायण-टीका

एतेषु पञ्चस्वपि मन्त्रेष्वनुषञ्जनीयं शेषमाह— तेभ्यो नमस्त इति । योऽयमग्निर्यौ च सेनानिग्रामण्यौ ये चाप्सरसौ यौ च हेतिप्रहेती तेभ्यः सर्वेभ्यो नमोऽस्तु ।

विश्वास-प्रस्तुतिः

ते नो॑ मृडयन्तु ।

मूलम्

ते नो॑ मृडयन्तु ।

सायण-टीका

ते सर्वे नोऽस्मान्मृडयन्तु सुखयन्तु ।

विश्वास-प्रस्तुतिः

ते यन् द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँ वो॒ जम्भे॑ दधामि ।

मूलम्

ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ , तव्ँवो॒ जम्भे॑ दधामि ।

सायण-टीका

यं वैरिणं ते वयं द्विष्मो यश्च वैरी नोऽस्मान्द्वेष्टि तं वैरिणं युष्माभिरनुगृहितोऽहं वो २०५५ युष्माकं जम्भे विदारितास्ये दधामि स्थापयामि ।