०७ फलीकरणहोमः

अग्निं प्रतिष्ठाप्य, परिस्तीर्य, दर्वीवदञ्जलिं संस्कृत्य, परिषिच्य, फलीकरणमिश्रान् गौरसर्षपान् “अयं कलिम्” इत्यादिभिः मन्त्रैः प्रतिमन्त्रं स्वाहाकारत्रयसहितं प्रतिस्वाहाकारमञ्जलिना चतुर्विंशतिवारं हुत्वा तत्प्रकारः -

अयं कलिं पतयन्तँ श्वानमिवोद्वृद्धम् ।
अजां वाशितामिव मरुतः पर्याध्वँ स्वाहा स्वाहा स्वाहा

  • मरुद्भ्य इदम् ।

शण्डेरथश्शण्डिकेर उलूखलः ।
च्यवनो नश्यतादितः स्वाहा स्वाहा स्वाहा

  • अग्नय इदम् ।

अयश्शण्डो मर्क उपवीर उलूखलः ।
च्यवनो नश्यतादितः स्वाहा स्वाहा स्वाहा

  • अग्नय इदम् ।

केशिनी श्वलोमिनीः खजापोजोपकाशिनीः ।
अपेत नश्यतादितः स्वाहा स्वाहा स्वाहा

  • अग्नय इदम् ।

मिश्रवाससः कौबेरकारक्षोराजेन प्रेषिताः ।
ग्रामँसजानयो गच्छन्तीच्छन्तोऽपरिदाकृतान्थ्स्वाहा स्वाहा स्वाहा

  • अग्नय इदम् ।

[[69]]

एतान् घ्नतैतान् गृह्णीतेत्ययं ब्रह्मणस्पुत्रः ।
तानग्निः पर्यसरत्तानिन्द्रस्तान् बृहस्पतिः ।
तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान् विकेशान् लम्बनस्तनान्थ्स्वाहा स्वाहा स्वाहा

  • अग्नीन्द्राबृहस्पतिभ्य इदम् ।

नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान् कपालपान् ।
पूर्वएषां पितेत्युच्चैः श्राव्यकर्णकः ।
माता जघन्या सर्पति ग्रामे विधुरमिच्छन्ती स्वाहा स्वाहा स्वाहा

  • अग्नय इदम् ।

निशीथचारिणी स्वसा सन्धिना प्रेक्षते कुलम् ।
या स्वपन्तं बोधयति यस्यै विजातायां मनः ।
तासां त्वं कृष्णवर्त्मने क्लोमानँहृदयं यकृत् ।
अग्ने अक्षीणि निर्दहथ्स्वाहा स्वाहा स्वाहा

  • अग्नय इदम् । परिषिच्य, अग्निमुपस्थाय, तमग्निं दशरात्रं सुरक्षितं कृत्वा, सूतिकागृहस्य प्रवेशे तस्मिन्नग्नौ फलीकरणमिश्रान् सर्षपानञ्जलिना प्रक्षिपतेति सूतिकागृहपालकान् जनान् सम्प्रेषयेत् । कालातिक्रमे नेदं सम्प्रेषणं नाग्निसंरक्षणं च । जातकर्माङ्गम् अभ्युदयं पुण्याहं च कुर्यात् ॥