नक्षत्रेष्टिप्रयोगः

॥नक्षत्रेष्टिप्रयोगः॥

श्री गणेशाय नमः । ज्योतिषामयनेनेष्ट्वा पापं निर्णुद्य ज्योतिष्ट्वमुपपद्यते । एतेन मृत्युं जयतीति ह स्माह भगवान् बौधायनः । इत्येवं बौधायनेन काम्येष्टिप्रकरणे खण्डद्वयेनोक्तस्य प्रयोगस्य आपस्तम्बसूत्रोक्त मार्गेण प्रयोगवृत्तिः क्रियते । बौधायनाचार्येण नक्षत्रेष्टि प्रयोगः खण्डद्वयेनोक्तः । आपस्तम्बेनानुक्ता अपि नक्षत्रेष्टयः इच्छायां सत्यां कर्तर्व्या आपस्तम्बैः । अनुक्तमन्यतो ग्राह्यमिति वचनात् । कपर्दि स्वामिनोपि नक्षत्रेष्टीनां कर्तव्यत्वेनोक्तत्वाच्च । नक्षत्रेण द्युतिरानन्त्याय ज्योतिष्टोमायनेनेष्ट्वा पापं निर्णुद्य ज्योतिष्ट्वमुपपद्यतेऽपपुनर्मृत्युञ्जयतीति ह स्माह भगवान् बौधायन इति । आयुष्काम स्वजन्मनक्षत्रे इष्ट्वा यावज्जीवम् यजेत । त्र्यवरार्ध्यं वा यजेत ।

अथ नक्षत्रेष्ट्यारम्भः कालः । तत्र बौधयनः । सा या वैशाख्याः पौर्णमास्याः पुरस्तादमावास्या भवति सा सकृत्संवत्सरस्यापभरणीभिः सम्पद्यते तस्यामारभेत । अस्यायं संक्षेपार्थः- नक्षत्रेष्टिः करिष्यन् चैत्रमासस्य वा वैशाखमासस्य वामावास्यायां अपभरणीनक्षत्रयोगे सति तस्यामौपवसथ्यं कृत्वापरेद्युः प्रकृतीष्ट्यनन्तरं नक्षत्रेष्ट्यारम्भं कुर्यात् । अथ कालान्तरं - अपि वा पौर्णमासीमुपवसेद्यास्यां तल्लक्ष्म सम्पद्यत इति । अस्यार्थः - आश्वयुजमासस्य कार्तिकमासस्य वा पौर्णमास्यामपभरणी नक्षत्रयोगे सति तस्यामौपवसथ्यं परेद्युः प्रकृतीष्ट्यनन्तरमारम्भः इति । चैत्रवैशाखयोरारम्भपक्षे आमावास्येन हविषेष्ट्वा प्रतिपदि कृत्तिकानक्षत्र आरम्भः । आश्वयुजकार्तिकयोरारम्भपक्षे पौर्णमासेन हविषेष्ट्वा कृत्तिकानक्षत्र आरम्भः । ननु अमावास्यायामपभरणीनक्षत्रयोगे सति तस्यामारभेतेति तस्याममावास्यायामेवान्यस्मिन् पक्षे कृत्तिकानक्षत्रेष्टिमारभ्यैव नक्षत्रेष्टीनां कर्तव्यत्वात्पर्वणोरपभरणी नक्षत्रविधानाच्च । पर्वणोरारम्भयोगात् प्रकृतिं कृत्वा प्रतिपदि कृत्तिका नक्षत्रेष्ट्यारम्भः कर्तव्यः । कपर्दिस्वामिनोऽपि आमावास्येन वा हविषेष्ट्वा युक्तत्वाच्च तस्यामारभेतेत्यारम्भवचनं नियमस्वीकरणार्थं नियमः । पूर्वेद्युरेव नक्षत्रेष्टीनामासमाप्तेः ।

ऋत्विगाज्यपुरोडाशार्थसमित्कुशादीनि दक्षिणाश्च सम्पाद्य श्वःप्रभृति कृत्तिकानक्षत्रेष्टिमारभ्य सर्वा नक्षत्रेष्टीः करिष्यामीति नियमः कर्तव्य इत्यभिप्रायः । अत्र केचित् यस्मिन्नहनि यन्नक्षत्रमावर्तनात् प्रागेव समाप्यते तस्मिन्नहनि तन्नक्षत्रेष्टिः कर्तव्या । यस्मिन्नहन्यपराह्णे रात्रौ नक्षत्रसन्धिस्ततः परेद्युस्तन्नक्षत्रेष्टिः कर्तव्या । तत्र नक्षत्रं पर्वस्थानीयं । नक्षत्रप्राधान्यादिति वदन्ति । तदयुक्तं, नक्षत्रेष्टीनां विकृतित्वात्सन्धिमत्येवाहनि विकृत्यनुष्ठाननियमाच्च । विकृतीरधिकृत्य भारद्वाजोप्याह । सन्धिमत्येवाहनि साङ्गप्रधानं सन्तिष्ठत इति । तस्माद्यस्मिन्नहोरात्रे यन्नक्षत्रसन्धिस्तस्मिन्नहनि नक्षत्रेष्ट्यनुष्ठानम् । एवं सर्वासां नक्षत्रेष्टीनाम् । नक्षत्राणां क्षयवृद्धिगामितया नूनाधिकभावे सति क्षयप्रक्रमे यस्मिन्नहोरात्रे नक्षत्रसन्धिद्वयमस्ति तस्मिन्नहनीष्टिद्वयं कर्तव्यं । वृद्धिप्रक्रमे तु यस्मिन्नहोरात्रे नक्षत्रसन्धिर्नास्ति तदहर्विरम्यापरेद्युः सन्धिमत्येवाहनि तन्न्क्षत्रेष्टिं कुर्यात् । एतत्सर्वमुपरिष्ठादनालम्भुकाप्रसङ्गे स्पष्टतमं प्रतिपादयिष्यामः ।

नक्षत्रेष्टिषु वर्तमानासु प्रकृतिकाले प्रकृतिं कृत्वैकालावधिनक्षत्रेष्टयः कर्तव्या इति न्यायविदः । तथापि नक्षत्रेष्ट्यनुष्ठानात् परमतिपन्नानां दर्शपूर्णमासानां पथिकृद्वैश्वानरेष्टिं कृत्वा दर्शपूर्णमासाः कर्तव्या इति बौधायनेनोक्तं । कपर्दिस्वामिनोपि नक्षत्रेष्टिषु वक्तव्यांशमुक्त्वा प्रसिद्धं पशुं यजेत । पाथिकृत्येष्ट्येष्ट्वा दर्शपूणमासाभ्यां यजेत इत्युक्तत्वाच्च । तस्मान्नक्षत्रेष्टीनां मध्ये दर्शपूर्णामासौ न कर्तव्यौ । तथा सोमयागे दीक्षणीयाया ऊर्ध्वमासमाप्तेर्दर्शपूर्णमासयोर्निवृत्तिः । तत्रैवमेवाभिप्रायः इमास्सर्वा अपीष्टयः एकंकर्म । इष्टीनां फलभेदेपि नक्षत्रसत्रेणेति वचनात्कृत्तिकेष्ट्यादि वैष्णवीष्ट्यन्तं सप्तत्रिंशत् इष्टयोप्येकंकर्म । तस्मान्नक्षत्रेष्टीनां सङ्कल्पप्रभृत्या समाप्तेर्यजमानस्य ऋत्विजां वाशौचादिकमपि न भवति । नक्षत्रेष्टिभिर्यक्ष्य इति समुच्चयेन सर्वासामिष्टीनां एकोपक्रमत्वात् । अग्निहोत्रं तु स्वेस्वे काले हूयत एव । सोमे तु नाग्निहोत्रं जुहोतीति अग्निहोत्र निषेधवचनस्य अयं हेतुः । दीक्षितस्य व्रतप्रदानेनाग्निहोत्रस्याविच्छेदायेति । अप्यग्निहोत्रहविषामेवैकं व्रतयेत् ।याग्निहोत्रस्य स्कन्नस्य प्रायश्चित्तिः सा व्रतस्येत्येवमादिभिः कारणैः । एवमन्यत्र विप्रक्रान्ते तन्त्रे इत्यादायाप्यवश्यं कर्तव्यम् ।

तदुक्तभरणियुक्तदीनानामन्यतरस्मात् पूर्वदिने अरण्योस्समारोप्याजस्रैः सह वोदवसाया शौल्बमानेन विहारं कल्पयित्वा मथित्वोपावरोह्य आश्वलायनस्तु प्रत्यवरोहमिति मथित्वा आयतनादुद्धृत्यावोक्ष्य गार्हपत्यायतने गार्हपत्यं निधाय आयतनयोर्विहृत्याजस्रान्वा विहृत्य । गणेशपूजनस्वस्तिवाचनं कुर्यात् । श्वो नक्षत्रसत्रमारप्स्यमाण इति सङ्कल्पनिर्देशः । पुण्याहवाचने अग्निकृत्तिकादयः प्रियन्तामिति विशेषः । भरणि दिने प्रातरग्निहोत्रं हुत्वा जघनेन गार्हपत्यं पत्न्या सदर्भेष्वासीनः पवित्रपाणिः । देशकालौ सङ्किर्त्य । नक्षत्रेष्टिभिर्यक्षे । नक्षत्रसत्रेण यक्षे इति वा सङ्कल्पः । पापं निर्णुद्य ज्योतिष्षु वाप्यापमृत्यजयभाग्भूयासमिति वा । यज्ञेश्वरं प्रीणयानीति ब्रूयात् । तत ऋत्विग्वरणं पूजनं च । आश्वलायनस्तु चन्द्रमा मे…. अग्निर्मे होता स….. । आदित्यो मेऽध्वर्युः स…. । अस्मिन् नक्षत्रेष्टिकर्मणि आग्नीध्रं त्वामहं वृणे । इत्याग्नीध्रम् । ततो मधुपर्कः । नक्षत्रसत्रेण यक्ष्यमाणोऽन्वारम्भणीयेष्ट्या यक्ष्ये इति सङ्कल्प्य । विद्युदसि । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । बर्हिराहॄत्य व्रतप्रवेशः । पात्रसादने । एकत्रिंशत्कपालानि स्थाली स्फ्यश्च द्वन्द्वम् । प्रणीतपात्रेण सह उत्पवनपात्रम् । अन्वाहार्यस्थाली वर्ज्यमितराणि प्रकृतिवत् । निर्वापकाले । देवस्य….. ।अग्नाविष्णुभ्यां जुष्टं निर्वपामि । पुरोडाशम् ।देवस्य त्वा ….हस्ताभ्यां सरस्वत्यै जुष्टं निर्वपामि । तण्डुलान् । देवस्य त्वा…. हस्ताभ्यां सरस्वते जुष्टं निर्वपामि । पुरोडाशम् । देवस्य त्वा …….हस्ताभ्यां अग्नये भगिने जुष्टं निर्वपामि । पुरोडाशान् । उपसादनकाले आदित्या…..भ्यामग्नाविष्णू हव्यं रक्षेथां सरस्वति हव्यं रक्षस्व सरस्वन् हव्यं रक्षस्व अग्ने भगिन् हव्यं रक्षस्व । अथ वहनादीत्यन्ते । यथा भागं व्यावर्तध्वम् । इदङ्ग्नाविष्णोः सरस्वतोऽग्नेर्भगिनः । पेषणार्थान् । इदं सरस्वत्याः चरुनिर्वापवत् । कृष्णाजिनादानादि । देवस्य त्वा…हस्ताभ्यामग्नाविष्णुभ्यां जुष्टमधिवपामि सरस्वते जुष्टमधिवपाम्यग्नेर्भगिने जुष्टमधिवपामि धान्य…….कपालोपधानकाले । अग्नाविष्णोः मन्त्रेण*** तूष्णी त्रीणि । ध्रुवोऽसीति स्थालीमुपधाय ।सरस्वतः द्वादशकपालानि द्वितीयचतुर्थषष्ठाष्टमानामावृत्तिः । अग्नेर्भगिनः प्रकृतिवत् । अभिघारणे प्रथमवर्ज्यम् । त्रयाणां मन्त्रेणाभिघारणम् । आर्द्रो भुवनस्येति चरोरुद्वासनम् । प्रियेणात्यासादनम् । यज्ञोऽसीति त्रिः । अयं यज्ञो… ममाग्ने… चतुर्होता….। प्रचरणकाले । अग्नाविष्णुभ्यामनुब्रू३हि । अग्नाविष्णुभ्यां यज । अग्नाविष्णुभ्यामिदम् । अग्नाविष्णोरहं….. वृत्रहा भूयासम् । सरस्वत्या अहं देवयज्यया……. । वाचमन्नाद्यं पुषेयम् । सरस्वतोऽहमन्नादः । अग्नेर्भगिनोऽहमन्नादः । नारिष्ठान्ते । चित्तं स्वाहेत्यादि त्रयोदशाहुतिः । चित्तं स्वाहा । चित्तायेदम् । चित्तिश्च स्वाहा । चित्या इदम् । आकूतं च स्वाहा । आकूत्या इदम् । विज्ञातं च स्वाहा । विज्ञातयेदम् । विज्ञानं च स्वाहा । विज्ञानयेदम् । मनश्च स्वाहा । मनस इदम् । शक्वरीश्व स्वाहा । शक्वरीभ्य इदम् । दर्शश्च स्वाहा । दर्शायेदम् । पूर्णमासश्च स्वाहा । पूर्णामासयेदम् । बृहच्च स्वाहा । बृहत इदम् । रथन्तरं च स्वाहा । रथन्तरायेदम् । प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रः पृतनाज्येषु तस्मै विशस्समनमन्त सर्वाः स उग्र स हि हव्यो बभूव स्वाहा । प्रजापतय इदम् ।

चतुर्धा करणं च । दक्षिणकाले । मिथुनौ गावौ अन्तर्वेदिस्थापयित्वा । सहस्रधारावुत्सावक्षीयमाणौ तौ दध्रुतुः पृथिवीमन्तरिक्षं दिवं च ताभ्यां गोमिथुनाभ्यामतितराणि मृत्युम् । ब्राह्माणाः । इमौ गोमिथुनौ गवौ यथाभागं अहींसन्तः प्रतिगृह्णीध्वम् । रुद्राय गां इति प्रतिग्रहः । अगन्म नक्षत्रसत्रारम्भं नक्षत्रसत्रारम्भमगन्म सन्दृशस्त इत्यादि । यज्ञो बभूव यज्ञ शं च म वर्जम् । सन्तिष्ठतेऽन्वारम्भणीया । पुनरालम्भवर्जम् । समापयेत् । तत्रागन्मसूवरिति मन्त्रेण अगन्म नक्षत्रसत्रारम्भमगन्मेत्यूहः । आश्वलायनश्चैतद्वृत्तिकृन्मतेन तान् कुर्यातद्वा य इष्ट्येत्यनेन साङ्गप्रधानस्य पर्वणीव कृत्तिकादि नक्षत्रेष्वपि तत्तत्विधिना साङ्गप्रधानस्यैवोपदेशा न द्व्यहकालत्वम् । अतो भरणी द्वितीयदिने देशकालादि । कृत्तिका नक्षत्रेष्ट्या यक्ष्ये । अन्नादो भूयासम् । साधारणसङ्कल्प्य मध्यमपक्ष एतत् । पक्षान्तरे तु तथैवात्रापि फलनिर्देशः । एवं सर्वत्र । विद्युत् । अद्य यज्ञाय । इमा मूर्जं यथातिथि । एष्टं हविः । पौर्णमासतन्त्रम् । सप्तदश सामिधेन्यः । त्रयोविंशतिधेत्युहः । पात्रप्रयोगकाले । षोडशकपालानि स्थाली स्फ्यश्च द्वन्द्वम् । अन्वाहार्यस्थाली वर्जम् । उत्पवनपात्रं च । निर्वपनकाले । आग्नेयं निरुप्य । देवस्य त्वा….अग्नये कृत्तिकाभ्यो जुष्टं निर्वपामि देवस्या त्वा… अनुमत्यै जुष्टं निर्वपामि । तण्डुलान् । उपसादनकाले । अदित्यास्त्वोपस्थे सादयाम्यग्ने हव्यं रक्षस्वाग्ने कृत्तिका हव्यं रक्षध्वमनुमते हव्यं रक्षस्व । इहेत्यूहः सर्वत्र । रक्षस्वेति वा केचित् । सशूकायामित्यादि । देवस्य त्वा…. अग्नये वो जुष्टं प्रोक्षाम्यग्नये कृत्तिकाभ्यो जुष्टं प्रोक्षाम्यनुमत्यै वो जुष्टं प्रोक्षामि । निर्वापवत् प्रोक्षाणाधिवापसंवापादि ज्ञेयम् । शुन्धध्वमित्यादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेरग्नेः कृत्तिकानाम् । इति पुरोडशार्थान् । इदमनुमत्याः चर्वर्थान् । इत्यभिमर्शनम् । अनुमति वर्जम् । अधिवपसंवपौ । कृष्णाजिनदानादि । देवस्य त्वा….. हस्ताभ्यामग्नये जुष्टमधिवपम्यग्नये कृत्तिकाभ्यो जुष्टमधिवपामि धान्यमसीत्यादि । कपालानामुधानकाले । प्रकृतिवदष्टावुपधाय । ध्रुवोऽसीति स्थालीमुदधाति । भ्रूगूणामित्यादि । अधिवापवत् संवापः । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति । अपश्चोत्पूयस्थाल्यामासिञ्चति । समापोऽद्भिरग्मतेत्यादि पिण्डकरणान्तं कृत्वा । यथाभागं व्यावर्तेथाम् । इदमग्नेः इदमग्नेः कृत्तिकानाम् । पुरोडाशावधिश्रित्य । घर्मोऽसीति तण्डुलानधिश्रित्य । प्रथानादि पुरोडाशयोः । अन्तरितं सर्वेषाम् । आप्यलेपनं निनीय । वेदीकरणादि । वेदपरिवासनान्युत्करेत्यागः । उद्वासनकाले । आप्यायतां….. साग्नये जुष्टमभिघारयामि । अग्नये कृत्तिकाभ्यो जुष्टमभिघारयामि । अनुमत्यै जुष्टमभिघारयामि । त्रयाणां मन्त्राणाभिघारणम् । आर्द्रो भुवनस्येति चरोरुद्वासनम् । प्रियेणेत्यासादनम् ।यज्ञोऽसीति त्रिः । अयं यज्ञो ममाग्ने चतुर्होता । अयं वेद इत्यादि । अथ हौत्रम् । प्रधानानाम् । अग्निं प्रकृतिवत् । अग्नये कृत्तिकाभ्योऽनुब्रू३हि । अग्निं कृत्तिका यज ।अग्नये कृत्तिकाभ्य इदम् । अग्नेः कृत्तिकानामहमन्नादः । अनुमत्या अनुब्रू३हि । अनुमतिं यज । अनुमत्या इदम् । अनुमत्याऽहमन्नादः । न पार्वणहोमः । नारिष्ठान्ते । स्रुवेण नवाज्यहुतीर्जुहुयात् । उपहोमाधिकारे चन्द्रिकायम् । स्रुवेण जुहोतीत्येवोक्तेः । अग्नये स्वाहा । अग्नय इदम् । कृत्तिकाभ्य स्वाहा । कृत्तिकाभ्य इदम् । अम्बायै स्वाहा । अम्बाय इदम् । दुलायै स्वाहा । दुलाय इदम् । नितत्न्यै स्वाहा । नितत्न्या इदम् । अभ्रतन्त्यै स्वाहा । अभ्रयन्त्या इदम् । मेघयन्तै स्वाहा । मेघयन्त्या इदम् । वर्षयन्तै स्वाहा । वर्षन्त्या इदम् । चुपुणिकायै स्वाहा । चुपुणिकाया इदम् । यद्यपि ब्राह्मणभाष्ये प्रधानहोमादूर्ध्वमुपहोमादिष्वन्त इत्युक्तम् । तथाप्यानन्तर्यविधानादूर्ध्वं ताः सम्भवात् न विरोधः । अत्र जयान् अभ्यातानान् राष्ट्रभृत इत्युपजुहोति । अग्नये स्विष्टकृतेऽनुब्रू३हि । अग्निं स्विष्टकृतं यज । सर्वेषां विरुज्य प्राशित्रं चतुर्धाकरणं च । दक्षिणा काले । वरो दक्षिणा गौर्वै वरः । अन्तर्वेद्यां स्थापयेत् । ब्रह्मन् ब्रह्मासि । ब्रध्न पिन्वस्वेत्यादि सहस्रधारा उत्सो…… । तेन वरेणातितराणि मृत्युम् । ब्राह्माणाः । अयं वो वरोऽहींसन्तो यथाभागं प्रतिगृह्णीध्वम् । रुद्राया गां तेनामृतत्वमश्यामित्यादि । सूक्तवाके । प्रथमसङ्कल्पपक्षे । अगन्मेत्याविकृतः पाठः । मध्ये सङ्कल्पपõक्षे । अगन्मान्नादत्वमन्नादत्वमगन्म संदृशस्त इत्यादि । प्रतीष्टि यथाफलमूहः । तितीयसङ्कल्पपक्षे । अगन्म्यज्ञेश्वरप्रितिं यज्ञेश्वरप्रितिमगन्मेति । सर्वेष्टिषूहः । यज्ञो बभूव यज्ञ शं च म वर्जम् । ब्राह्माणतर्पणान्ते इष्टिः सन्तिष्ठते । आयुष्कामः स्वजन्मनक्षत्रे तद्दैवतमिष्टिं कुर्यात् । यावज्जीवमिति गोपालोक्तपक्षवर्जम् । अथ वात्र्यवरार्ध्यः प्रयोग इति । तदुक्तपक्षान्तरे प्रयोगवर्ज्यं च नक्षत्रेष्टिषु पुनरालम्भः । यज्ञ शं च म वर्जं सन्तिष्ठते । आ समाप्तेर्दम्पती सत्यवदनादिव्रतचारिणौ अधःशायिनौ ब्रह्मचारिणौ स्याताम् । यजमानो हविरुच्छिष्टमेव भुञ्जीत । हविश्च पत्नी । प्रदोभावपि हविष्यमेवाश्नीयातामिति प्रदीपे । इति कृत्तिकानक्षत्रेष्टिः । श्वो भूते रोहिणी नक्षत्रेण यक्षे । पक्षे प्रियसङ्गममवाप्नवानिति । विद्युदादि सर्वं पूर्ववत् । अष्टौ कपालानि स्थाली स्फ्यश्च द्वन्द्वम् ।आग्नेयं निरूप्य । प्रजापतये रोहिण्यै जुष्टं निर्वपामि । ततोऽनुमत्यै । अग्ने हव्यं रक्षस्व प्रजापते रोहिणि हव्यं रक्षेथामनुमते हव्यं रक्षस्व । उत्करे त्रिर्निनीय । यथाभागं व्यवर्तध्वम् । इदमग्नेरिति पुरोडाशान् । प्रजापते रोहिण्या अनुमत्या इति चर्वर्थान् । अग्नये जुष्टमित्येवाधिवपनसंवपने । आग्नेय पुरोडाशाधिश्रपणान्ते । यथाभागमावर्तेथाम् । तण्डुलान्विभज्य । इदं प्रजापते रोहिण्या अनुमत्याः । त्रयाणां मन्त्रेणाभिघारणादि पूर्ववत् । यज्ञोऽसीति त्रिः । अयं यज्ञो ममाग्ने चतुर्होता । आवाहने । प्रजापतिमित्युपांशु रोहिणीमावहेत्युच्छैः । उत्तमे प्रयाजे । रोहिण्यानुब्रू३हि । प्रजापतये रोहिण्या इदम् । प्रजापतिना रोहोण्या अहमन्नादः । नारिष्ठान् हुत्वा । स्रुवेण जुहोति । प्रजापतये स्वाहा । प्रजापतय इदम्। रोहिण्यै स्वाहा । रोहिण्या इदम् । रोचमानायै स्वाहा । रोचमानाय इदम् । प्रजाभ्यः स्वाहा । प्रजाभ्य इदम् । स्विष्टकृतं प्रजापतेरित्युपांशुः रोहिण्या इत्युच्छैः । सर्वेषां विरुज्य*** । चतुर्धाकरणं च । सूक्तवाके । अगन्म प्रियसङ्गमं प्रियसङ्गममगन्मेति विशेषः । इति रोहिणीष्टि ः ।

अथ मृगशीर्षनक्षत्रेष्ट्या यक्षे । पक्षे । समानानां राज्यमभिजयवाप्नवामि । विद्युदादि रोहिणीष्टिवत् । अग्निहोत्रहवण्या सह शूर्पद्वयमिति विशेषः । वेषवपामिति शूर्पद्वयोरासादनम् । **** व्रीहीन् । श्यामाकां च भेद*** धूरसीत्यादि । मित्रस्य त्वेत्यावृतिः । निरस्तमित्यूर्जा यवमिति च तन्त्रेण । अग्नये जुष्टं… देवस्य…..सोमाय मृगशीर्षाय जुष्टं निर्वपामि । इति श्यामाक निर्वापः । अदित्या… अग्ने हव्यं रक्षस्व सोममृगशीर्ष हव्यं रक्षेथामनुमते हव्यं रक्षस्व । इत्यादि पूर्ववत् । प्रोक्षणे । देवस्य त्वा … अग्नये जुष्टं प्रोक्षामि सोमाय मृगशीर्षाय वो जुष्टं प्रोक्षाम्यनुमत्यै जुष्टं निर्वपामि । पूर्वोत्तरसाहित्येवोहबोध्यः । व्रीहीणां कृष्णाजिनादानादि । तण्डुलप्रस्कन्दनान्तं कृत्वा उलूखलं संशोध्य । श्यामाकानामग्नेश्तनूरसीत्यादि । हविष्कृदेहीत्यावृत्तिः । अनावृत्तिर्वा । उच्चैः समाहन्तवा इति सकृत् । अदब्धेन व इति तन्त्रेण फलीकरणं प्रक्षालनं च । उत्करे तन्त्रेण निनयनं च । यथाभागं व्यवर्तेथाम् । इदमग्नेः । इदमनुमत्याः । आग्नेयस्याधिवापसंवापौ । पिष्टान्युत्पूय श्यामाकतण्डुलानुत्पूयव्रीहि तण्डुलानुत्पूयैतानि । देवस्त्वा सवितोत्पुनात्विति पय उत्पूय । अपश्चोत्पूय सौम्यस्थाल्यां पय आनीयानुमतिस्थाल्यामप आनयति । पुरोडाशमधिश्रित्य । घर्मोऽसीति श्यामाकतण्डुलानामितरेषां च स्थाल्योः प्रक्षेपः । श्यामाकचरोःतूष्णीमभिघारणम् । आग्नेयान्ते । सोमायमृगशीर्षायानुब्रूहि । अथ हौत्रम् । सोमाय मृगशीर्षायेदम् । सोमस्य मृगशीर्षस्याहं देवयज्यया वृत्रहा भूयासम् । नारिष्ठान्ते उपहोमः । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहा । औषधीभ्यः स्वाहा । राज्याय स्वाहा । अभिजित्यै स्वाहा । तथालिङ्गं त्यागः । स्विष्टकृदादि । अत्रत्य श्यामाकभक्षणे अग्निः प्रथमः प्राश्नातु इति मन्त्रो न भवति । अगन्म समानानां राज्याभिजयं समानानां राज्याभिजयमगन्मेति । इति मृगर्शीषनक्षत्रेष्टिः । श्वो भूते आर्द्रानक्षत्रेष्ट्या यक्षे । पक्षे । पशुमान् भूयासमिति सङ्कल्पः । श्यामाकनिर्वापस्थाने । प्रियङ्गू निर्वापः ।विद्युदसि । निर्वापकाले रुद्रायार्द्रायै जुष्टं निर्वपामि रौद्रत्वात् प्रतिपदमपां स्पर्शनं केचित् । केवलरुद्रदेवत्यत्वाभावान्नेत्यन्ये । प्रथमपक्ष एवादर उचितः । रुद्रार्द्रे हव्यं रक्षेथाम्। अवघातावृत्यादि पूर्ववत् । रौद्रस्थाल्यामुत्पूतपयसः प्रक्षेपश्च । त्रयाणां मन्त्रेणाभिघारणम्। रुद्रायार्द्रायै जुष्टमभिघारयामि । रुद्रायार्द्रायानुब्रू३हि । रुद्रमार्द्रां यज । रुद्रायार्द्राया इदम् । र्य्द्रस्यार्द्राया अहमन्नादः । नारिष्ठान्ते उपहोमः । रुद्राय स्वाहा । आर्द्रायै स्वाहा । पिन्वमानायै स्वाहा । पशुभ्यः स्वाहा । यथालिङ्गं त्यागः । अगन्म पशून् पशूनगन्मेति । इत्यार्द्रानक्षत्रेष्टिः ।

श्वो भूते पुनर्वसूनक्षत्रेष्ट्या यक्षे । पक्षे । प्रजापशुमान् भूयासमिति सङ्कल्पः । विद्युदादि पर्णमासं तन्त्रम् । निर्वापकाले । अदित्यै पुनर्वसूभ्यां जुष्टं निर्वपामि । चरु । अदिते पुनर्वसू हव्यं रक्षध्वम् । अदित्यै पुनर्वसूभ्यां वो जुष्टं प्रोक्षामि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेः । पुरोडाशान् । इदमदित्याः पुनर्वस्वोरनुमत्याः । चर्वर्थान् । कृष्णाजिनादानादि । पिष्टानामुत्पवनकाले तण्डुलानुत्पुनाति । अपश्चोत्पूय स्थाल्यां सिञ्चति । समापोऽद्भिरग्मतेत्यादि पिण्डं कृत्वा । यथाभागं व्यावर्थेताम् । करणान्तं तण्डुलान्विभज्य । इदमदित्याः पुनर्वस्वोः । इदमनुमत्याः । अदित्यै पुनर्वसूभ्यां जुष्टमभिघारयामि । त्रयाणां मन्त्रेणाभिघारणम् । अदित्यै पुनर्वसूभ्यामनुब्रूहि । अदितिं पुनर्वसू यज । अदित्यै पुनर्वसूभ्याम् इदम् । अदित्याः पुनर्वस्वोरहं…….. । प्रप्रजया च पशुभिश्च जनिषीय । नारिष्ठान्ते । अदित्यै स्वाहा । पुनर्वसूभां स्वाहा । आभुत्यै स्वाहा । प्रजायै स्वाहा । सूक्तवाके । अगन्म प्रजां पशून् प्रजां पशूनग्नमेति । इति पुनर्वसू नक्षत्रेष्टिः ।

श्वो भूते तिष्यनक्षत्रेष्ट्या यक्षे । पक्षे । ब्रह्मवर्चसी भूयासमिति सङ्कल्पः । पौर्णमासं तन्त्रम् । बृहस्पतये तिष्याय जुष्टं निर्वपामि । नीवाराणां निर्वापः । बृहस्पते तिष्य हव्यं रक्षेथाम् । बृहस्पतये तिष्याय वो जुष्टं प्रोक्षामि । नानाबीजधर्माः । मृगशीर्षेष्टिवत् । पयसि निर्वारं च श्रपणम् । त्रयाणां मन्त्रेणाभुघारणम् । बृहस्पतये तिष्याय जुष्टमभिघारयामि । बृहस्पतये तिष्यायानुब्रूहि । बृहस्पतिं तिष्यं यज । बृहस्पतये तिष्यायेदम् । बृहस्पतेः तिष्यस्याहमन्नादः । नारीष्ठान्ते । बृहस्पतये स्वाहा । तिष्याय स्वाहा । ब्रह्मवर्चसाय स्वाहा । यथालिङ्गं त्यागः । सूकतवाके । अगन्म ब्रह्मवर्चसं ब्रह्मवर्चसमग्नमेति। इति तिष्यनक्षत्रेष्टिः ।

श्वो भूते आश्रेषानक्षत्रेष्ट्या यक्षे । पक्षे । एताभिर्देवताभिर्द्विषन्तं भ्रातृव्यमुपनयेयमिति सङ्कल्पः । अमावास्यं तन्त्रम् । अन्वाहितिजपान्ते व्रतप्रवेशः । वेदिं कृत्वा वेदिः । पात्रप्रयोगे । स्फेन सह आष्टौ कपालानि । भर्जनार्थं कपालं च स्थाली चेति । वेद न सह पात्र्यौ । सर्वे यवा भवन्ति । अग्नये यवां निरुप्यानुमत्यै तानेव निर्वपति । सर्पेभ्य आश्रेषाभ्यो जुष्टं निर्वपामि । सर्पा आश्रेषा हव्यं रक्षध्वम् । सर्पेभ्य आश्रेषाभ्यो वो जुष्टं प्रोक्षामि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेरिति पुरोडाशार्थान् । इदं सर्पाणामाश्रेषाणामनुमत्याः चर्वर्थान् । आग्नेयस्य पेषणान्ते तदर्थमष्टौ कपालान्युपधाय प्रथममन्त्रेण भर्जनार्थमुधाय स्थाल्युपदधाति । तप्यस्वेति भर्जनकपाले पुरोडाशमधिश्रित्य यथाभागं व्यावर्तेथाम् । इदं सर्पाणामाश्रेषाणामिति करम्भार्थान् इदमनुमत्याः चर्वर्थान् । घर्माः स्थ विश्वायुषः इति भजनकपाल् करम्भार्थान् प्रक्षिप्य । पुरोडाशस्य प्रथनादि ।अन्तरितिं सर्वेषाम् आप्य लेपं निनीय । उत्तरपरिग्रहादि उद्वासनकाले सूर्यज्योतिः पुरोडाशस्य । सूर्यज्योतिषो विभात महत इन्द्रियाय इति धानानाम् । अभिघारणकाले धानानां तूष्णीमभिघारणम् । पुरोडाशप्रथमपात्र्यां तूष्णीं प्रतिष्ठाप्य । पात्र्यन्तरे स्योनं वः सदनं करोमि घृतस्य धारय सुशेवं कल्पयामि वः इति मन्त्रेणोपस्तीर्य । भुवनस्य गोपा श्रित उत्स्नाति जनिता मतीनाम् इत्यविकृतमन्त्रेण धाना उद्वास्य । कृष्णाजिनादानादि । सर्पेभ्य आश्रेषाभ्यो वो जुष्टमधिवपामि । अणूनि कुरुतादित्यन्तम् । तस्यां प्रच्यां तिरःपवित्रं लौकिकमाज्यमानीय तस्मिन् तूष्णीं सक्तून् प्रतिष्ठापयति । इराभूतिः । अलङ्करणम् । यज्ञोऽसीति द्विः । अयं यज्ञः यो नः कनीय इह कामयाता……… अपत सर्पा आश्रेषा भुवनान् नुदताम् अहं प्रजां वीरवतीं विदेय । ममाग्ने पञ्चहोता । आग्नेयप्रचारान्ते आप्यायातां मा भेराप्यायतां यदवदानानि ते। सर्पेभ्य आश्रेषाभ्योऽनुब्रूहि । सर्पान् आश्रेषा यज । सर्पेभ्य आश्रेषाभ्य इदम् । सर्पाणामाश्रेषाणामहमिन्द्रियाव्यन्नादः । नारिष्ठान्ते । सर्पेभ्यः स्वाहा । आश्रेषाभ्यः स्वाहा । दन्दशूकेभ्यः स्वाहा । यथालिङ्गं त्यागः । एककपालोद्वासनकाले मन्त्रोहेनैककपालोद्वासनम् । यद्घार्मे कपालमुपचिन्वन्ति वेधसः । पूष्णस्तदपि व्रत इन्द्रवयू विमुञ्चताम् । अगन्मैताभिर्ह वै देवताभिर्द्विषन्तं भ्रातृव्यमुपनयनमैताभिर्ह वै देवताभिर्द्विषन्तं भ्रातृव्यमुपनयनमगन्मेति । इत्याश्रेषा नक्षत्रेष्टिः ।

श्वो भूते मखनक्षत्रेष्ट्या यक्षे । पक्षे । पितृलोक ऋध्नुयामिति सङ्कल्पः । विद्युदसि । आमावास्यं तन्त्रम् । प्रब्रवीमीत्यन्तम् । व्रतप्रवेशः । चतुर्दशकपालानि स्थाली स्फ्यश्च द्वन्द्वम् । अजिनादानादि प्रकृतिवत् । संविशन्तामित्यन्ते कृते । कटादिभिर्वेदिं परिश्रित्य उत्तरेणद्वारं कुर्यात् । परिश्रयणं वासयति । तत्र वस्त्रकिरण्डादिति भावः । वानस्पत्यासीत्यादि । सर्वे यवाः । आग्नेय निर्वापान्ते पितृभ्यो मघाभ्यो जष्टं निर्वपामि इति गार्हपत्यस्योत्तरतो यज्ञोपवीतिनैव कार्यः । अग्ने हव्यं रक्षस्व पितरो मघा हव्यं रक्षध्वमनुमते हव्यं रक्षस्व । अपरेण गार्हपत्यमुपसादयति । उदकुम्भे पवित्रे निधाय उत्पूयाभिमन्त्र्य ब्रह्मन्नित्यादि । कुम्भस्थाद्भिर्यथादैवतं हविः प्रोक्ष्य पात्राणि प्रोक्षति । शेषं निधाय । यथाभागं व्यावर्तध्वं । इदमग्नेः पितृणां मघानां इति पुरोडाशार्थान् । इदमनुमत्याः चर्वर्थान् । अजिनादानादि कपालोपधानकाले गार्हपत्यस्य पश्चार्धे अष्टौ कपालान्युपधाय । गार्हपत्यस्य दक्षिणार्धे आद्यैः षड्भिर्मन्त्रैः षत्कपालान्युपधाय । अष्टानामुत्तरतः ध्रुवोसीति चरुस्थालीमुपधाय । भृगूणामित्यादि प्रैषकाले उदकुम्भस्थप्रोक्षणीनामभिपूरणं । तूष्णीं षट्कपालस्याभिघारणं । द्वयोरपि पुरोडाशयोः तूष्णीं प्रतिष्ठापनम् । सर्वे यवमयमपि तूष्णीं प्रतिष्ठापयति । यज्ञोसीति द्विः । अग्न्यनुमत्योर्हविषी अभिमृश्य । अयं यज्ञ इत्यादि सर्वाणि । यो नः कनीयः…… अपत पितरो मघा भुवनान्नुदन्ताम् इति षट्कपालम् । ममाग्ने पञ्चहोता । आग्नेयेन प्रचर्य । उदङतिक्रम्य । स्रुचावादाय अग्रेणाहवनीयं गत्वा पुरोडाशस्य दक्षिणतः उदङ मुख उपविश्य प्राचीनावीती । जुह्वामुपस्तीर्य प्रथमं हस्तेनावदाय द्वितीयं मेक्षणेनावदाय जामदग्न्यानां तृतीयमपि तेनैवावदाय अभिघार्य । पितृभ्यो मघाभ्योऽनुब्रूहि । पितॄन् मघान् यज । वषट्कृते दक्षिणार्धे जुहोति । पितृभ्यो मघाभ्य इदम् । पितॄणां मघानामहं देवयज्ययेन्द्रियाव्यन्नादः । दक्षिणतः प्रत्याक्रम्य स्रुग्घस्त एव यथेतं प्रत्येत्य । यज्ञोपवीत्यप उपस्पृश्य । परिश्रयणान्यपोह्य । अनुमतिं प्रचर्य । नारिष्ठान्ते । पितृभ्यस्स्वाहा । मघाभ्यस्स्वाहा । अनघाभ्यस्स्वाहा । अगदाभ्यस्स्वाहा । अरुन्दतीभ्यस्स्वाहा । यथालिङ्गं त्यागः । अगन्म पितृलोकऋध्नुत्वं पितृलोकऋध्नुत्वमगन्मेति । अत्र प्रयोगे बौधायनीयानां षट्कपालसाधारणधर्मेषु प्राचीनावीतित्वसत्वेऽपि नापस्तम्बीयानाम् । एतत्प्रकृतिं भूतपितृयज्ञे प्रधानकालतत्सत्वात् इति मघानक्षत्रेष्टिः ।

श्वोभूते पाल्गुनी नक्षत्रेष्ट्या यक्षे । पक्षे । पशुमान् भूयासमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । सप्तदश सामीधेन्यः । अष्टौ कपालानि । स्थाल्यौ स्फ्यश्च द्वन्द्वम् । देवस्य…. अर्यम्णे फाल्गुनीभ्यां जुष्टं निर्वपामि । उपसादने । अर्यमन् फल्गुन्यौ हव्यं रक्षध्वम् । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । कृष्णाजिनदानादि । आग्नेयादि श्रपणान्ते तण्डुलविभागः । यथाभागं व्यावर्तेथाम् । इदमर्यम्णः फल्गुन्योः । इदमनुमत्याः । अर्यम्णा फल्गुनीभ्यां जुष्टमभिघारयामि । त्रयाणां मन्त्रेणाभिघारयति। अर्यम्णे फल्गुनीभ्यामनुब्रू३हि । अर्यम्णं फल्गुन्यौ यज । अर्यम्णे फल्गुनीभ्यामिदम् । अर्यम्णः फल्गुन्योरहं……. स्वर्गं लोकं गमेयम् । नारिष्ठान्ते । अर्यम्णे स्वाहा । फल्गुनीभ्यां स्वाहा । पशुभ्यः स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म पशून् पशूनगन्मेति । इति पूर्वाफल्गुनी नक्षत्रेष्टिः ।

श्वो भूते उत्तरा फल्गुनी नक्षत्रेष्ट्या यक्षे ॥ पक्षे । समानानां भगी श्रेष्ठी देवानां स्यामिति सङ्कल्पः । विद्युदसीत्यादि । पौर्णमासं तन्त्रम् । सप्तदश सामिधेन्यः । पूर्ववत् सर्वं कुर्यात् । विशेषस्त्वच्यते । देवस्त्य त्वा….. भगाय फल्गुनीभ्यां जुष्टं निर्वपामि । चरु । भग फल्गुन्यौ हव्यं रक्षध्वम् । भगाय फल्गुनीभ्यां वो जुष्टं प्रोक्षामि । उत्क रे त्रिर्निनीय । यथाभागं व्यावर्तधव्म् । आग्नेयादि श्रपणान्ते । यथाभागं व्यावर्तेथाम् । सर्वं पूर्ववत् । भगाय फल्गुनीभ्यां जुष्टमभिघारयामि । त्रयाणां मन्त्रेणाभिघारणम् । यज्ञोऽसीति त्रिः । ममाग्ने चतुर्होता । भगाय फल्गुनीभ्यामनुब्रू३हि । भगं फल्गुन्यौ यज । भगाया फल्गुनीभ्यामिदम् । भगस्य फल्गुन्योरहमन्नादः । नारिष्ठान्ते । भगाय स्वाहा । फल्गुनीभ्यां स्वाहा । श्र्यैष्ठ्याय स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म समानानां भगित्वं देवानां श्रेष्ठत्वं समानानां भगित्वं देवानां श्रेष्ठत्वमगन्मेति । इति उत्तरा फल्गुनी नक्षत्रेष्टिः ।

श्वो भूते हस्तनक्षत्रेष्ट्या यक्षे । पक्षे । समानानां सवितास्यामिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । सप्तदश सामिधेन्यः । विंशति कपालानि स्थाली स्फ्यश्च द्वन्द्वम् । सवित्रे हस्ताय जुष्टं निर्वपामि । शरत्पक्वान् षाष्टीकान् व्रिहीन् निर्वपति । सवितः हस्त हव्यं रक्षेथाम् । सवित्रे हस्ताय वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेः सवितुर्हस्तस्य पुरोडाशीयान् इदमनुमत्याः इति चर्वर्थान् । आग्नेयोपधानानन्तरं तदर्धोधाने युग्ममन्त्राः । धर्त्रमसि… । चिदसि मरुतां चिदसि चितश्चेति तेषां द्विरावृत्याद्वादशकलामुधानं । सवित्रे हस्ताय जुष्टमभिघारयामि । सर्वेषां मन्त्रेणाभिघारणम् । यज्ञोऽसीति त्रिः । आग्नेयान्ते । सवित्रे इत्युपांशुः । हस्तायानुब्रू३हि । उच्चैः । सवितारं हस्तं यज । सवित्रे हस्तया इदम् । सवितुः हस्तस्याहमन्नादः । नारिष्ठान्ते । सवित्रे स्वाहा । हस्ताय स्वाहा । ददते स्वाहा । पृणते स्वाहा । प्रयच्छते स्वाहा । प्रतिगृभ्णते स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म समानानां सवितृत्वं समानानां सवितृत्वमगन्मेति । इति हस्तनक्षत्रेष्टिः ।

श्वो भूते चित्रा नक्षत्रेष्ट्या यक्षे । पक्षे । चित्रं प्रजां विदेयमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । सप्तदश सामिधेन्यः । षोडश कपालानि । स्थाली स्फ्यश्च द्वन्द्वम् । इतराणि प्रकृतिवत् । निर्वपनकाले त्वाष्ट्रे चित्रायै जुष्टं निर्वपामि । त्वष्टः चित्रे हव्यं रक्षेथाम् । त्वष्ट्रे चित्रायै वो जुष्टं प्रोक्षामि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेः त्वष्टुः चित्रायाः इति पुरोडाशीयान् । इदमनुमत्याः चर्वर्थान् । कृष्णाजिनदानादि । कपालोपधानकाले । प्रकॄतिवदष्टावष्टावुधाय । ध्रुवोऽसीति स्थालीमुदधाति । भृगूणामित्यादि । अभिघारणकाले। त्वाष्ट्रे चित्रायै जुष्टमभिघारयामि । प्रचरणकाले । आग्नेयान्ते । त्वष्ट्रे चित्राया अनुब्रू३हि । त्वाष्टारं चित्रां यज । त्वाष्ट्रे चित्राया इदम् । त्वष्टुश्चित्राया अहमन्नादः । नारिष्ठान्ते । त्वष्ट्रे स्वाहा । चित्रायै स्वाहा । चैत्राय स्वाहा । प्रजायै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म चित्रप्रजां चित्रप्रजामगन्मेति । इति चित्रा नक्षत्रेष्टिः ।

श्वो भूते स्वाती नक्षत्रेष्ट्या यक्षे । पक्षे । कामचारमेषु लोकेष्वभिजयेमिति सङ्कल्पः । विद्युदसीत्यादि आमावास्यं तन्त्रम् । सप्तदश सामीधेन्यः । वायव्यं पयः । अन्वाधाय शाखा छेदनान्ते व्रतप्रवेशः । अध्वर्युः इमां प्राचीं… न वत्सापकरणादि । रुद्रदत्तस्तु । ध्रुवा अस्मिन् । यजमानस्य पशून् इत्यनयोर्निर्वृत्तिः । वेदं कृत्वा वेदिः । प्रागुत्तरात् परिगृहात् कृत्वा । प्रशातनादि कुम्भी लेपनान्ते पर्णवल्कवर्ज्यम् । इमौ पर्णं च । वायवः स्थेति सकृत् । परिस्तृणीतेत्यादि । अष्टौ कपालानि स्थाली च । प्रकृतिवत् पात्रासादनान्ते । उत्तरेणोपवेषं कुम्भी शाखा पवित्रं अभिधानीं निदाने । दारुपात्रं योक्त्रं मदन्तीमित्यादि । निर्वपनकाले । आग्नेयं निरूप्य अनुमत्यै निर्वापः । अग्ने हव्यं रक्षस्वानुमते हव्यं रक्षस्व । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तेथाम् । इदमग्नेः इदमनुमत्याः । चरु । उपधानान्ते दोहः । एता आचरन्तीत्यस्य प्रातर्दोहः । अनिवृत्तिपक्षे इत्थमूहः । एषा चरति मधुमद्दुहाना प्रजावतीर्यशसो विश्वरूपा । बह्वी भवत्युपजायामान इह व इन्द्रो रमयतु गौः । सकृत् प्रसूतां गां प्रेक्षते । वायवे निष्ट्यायै हविरिन्द्रियम् । हुतस्स्तोक इति तदीयविप्रुड्भिमन्त्राणान्ते । संपृच्यध्वमिति । निष्ट्यां न बहु दुग्धीति भाष्ये । मन्त्रेणाग्नेयमभिघार्य । यस्त आत्मेति पयोऽभिघार्येणानुमति । उद्वासनकाले । दृंह गेति पय उद्वासनं । यज्ञोऽसीत्यावृत्यासञ्चरे अभिमृष्य । इदमिन्द्रियमिति प्रातर्दोहे । यज्ञोऽसीति द्विः । अयं यज्ञः ममाग्ने पञ्चहोता । प्रचरणकाले आग्नेयान्ते । जुहू स्रुवेणाहुतिं । वायवे निष्ट्याया अनुब्रू३हि । वायूं निष्ट्यां यज । वायवे निष्ट्याया इदम् । वायोर्निष्ट्याया अहं देवयज्ययेन्द्रीयावि भूयासम् । नारिष्ठान्ते । वायवे स्वाहा । निष्ट्यायै स्वाहा । कामचाराय स्वाहा । अभिजत्यै स्वाहा । यथालिङ्गं त्यागः । प्रस्तरणप्रहरणकाले शाखया सह प्रहरणम् । सूक्तवाके । अगन्म कामचारमेषु लोकेष्वभि जयं कामचारामेषु लोकेष्वभिजयमगन्मेति । इदं हविरिति यजमानः । पयो भागं प्राश्नाति । इति स्वातिनक्षत्रेष्टिः ।

अथ विशाखा नक्षत्रेष्टया यक्षे । पक्षे । समानानां श्रेष्ठ्यमभिजयेयमिति सङ्कल्पः । आमावास्यं तन्त्रम् । प्रब्रवीमीत्यन्ते व्रतप्रवेशः । एकोनविंशति कपालानि । स्थाली स्फ्यश्च द्वन्द्वम् । देवस्य त्वा….. हस्ताभ्यामिन्द्राग्निभ्यां विशाखाभ्यां जुष्टं निर्वपामि । उपसादने । रक्षस्वेत्यग्नी विशाखे हव्यं रक्षध्वम् । इन्द्राग्नीभ्यां विशाखाभ्यां वो जुष्टं प्रोक्षामि । इन्द्राग्नीभ्यां विशाखाभ्यां जुष्टमभिघारयामि । आष्टावुपधाय । एकादशोपदधाति । तूष्णीमभिघारणाम् । यो नः कनीयः । अपतमिन्द्राग्नी विशाखे भुवनान्नुदेतां…. प्रचरणकाले । इन्द्राग्नीभ्यां विशाखाभ्यामनुब्रू३हि । इन्द्राग्नी विशाखे यज । इन्द्राग्नीभ्यां विशाखाभ्यामिदम् । इन्द्राग्नियोर्विशाखयोरहमिन्द्रियाव्यन्नादः । नारिष्ठान्ते । इन्द्राग्नीभ्यां स्वाहा । विशाखाभ्यां स्वाहा । श्र्यैष्ट्याय स्वाहा । अभिजितै स्वाहा । सूक्तवाके । अगन्म समानानां श्र्यैष्ठाभिजयं समानानां श्र्यैष्ठाभिजयमगन्मेति । इति विशाखा नक्षत्रेष्टिः । तदानीमेव पौर्णमास्येष्ट्या यक्षे । पक्षे । क्षिप्रकामो मामुपनमेदिति सङ्कल्पः । विद्युदसीत्यादि । पौर्णमासं तन्त्रम् ।बर्हिरावृत्य व्रतप्रवेशः । सप्तदशसामीधेन्यः । निर्वापकाले । आग्नेयप्रचरान्ते । ध्रुवातः चतुर्गृहीतं पञ्चगृहीतं वायव्याधिकारं गृहीत्वा । पौर्णमास्यै इत्युपांशुः अनुब्रू३हीत्युच्चैः । पौर्णमासीमित्युपांशुः यजेत्युच्चैः । पौर्णमास्या इदम् । नारिष्ठान्ते । पौर्ण्मास्यायै स्वाहा । कामय स्वाहा । आगत्यै स्वाहा । यथालिङ्गं त्यागः ।सूक्तवाके । अगन्म क्षिप्रकामोपनयनं क्षिप्रकामोपनयनमगन्मेति। इति पौर्णमासेष्टिः।

अथ अनूराधानक्षत्रेष्ट्या यक्षे । पक्षे । मित्रधेयमेषु लोकेष्वभिजयेयमिति सङ्कल्पः । विद्युदसीत्यादि पौर्ण्मासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । अष्टौ कपालानि । स्थाल्यौ स्फ्यश्च द्वन्द्वम् । निर्वपनकाले । मित्रायानूराधेभ्यो जुष्टं निर्वपामि । अनुमत्यै जुष्टं निर्वपामि । इति चर्वर्थान् । उपसादने । मित्रानूराधा हव्यं रक्षध्वम् । मित्रायानूराधेभ्यो वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेः पुरोडाशीयान् । इदं मित्रस्यानूराधानामनुमत्याः । चर्वर्थान् । कृष्णाजिनदानादि । अग्नये जुष्टमधिवपामि । धान्यमसीत्यादि ।अभिघारणकाले । मित्रायानूराधेभ्यो जुष्टमभिघारयामि । सर्वेषां मन्त्रेणाभिघारणम् । प्रचरणकाले । आग्नेयान्ते । मित्रायानूराधेभ्योऽनुब्रू३हि । मित्रमनूराधान् यज । मित्रायानूराधेभ्य इदम् । मित्रस्यानूराधानामहमन्नादः । नारिष्ठान्ते । मित्राय स्वाहा । अनूराधेभ्यः स्वाहा । मित्रधेयाय स्वाहा । अभिजित्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्मैषु लोकेषु मित्रधेयाभिजयेमेषु लोकेषु मित्रधेयाभिजयमगन्मेति । इत्यनूराधानक्षत्रेष्टिः ।

अथ ज्येष्ठा नक्षत्रेष्ट्या यक्षे । पक्षे । समानानां ज्यैष्ठमभिजयेयमिति सङ्कल्पः । विद्युदसीत्यादि । अमावास्यं तन्त्रम् । प्रब्रवीमीत्यन्ते व्रतप्रवेशः । एकोनविंशति कपालानि स्थाली स्फ्यश्च द्वन्द्वम् । निर्वापकाले । इन्द्राय ज्येष्ठ्यायै जुष्टं निर्वपामि । दीर्घकालोत्पन्नव्रीहीणां निर्वापः । उपसादने इन्द्र ज्येष्ठे हव्यं रक्षेथाम् । इन्द्राय ज्येष्ठायै वो जुष्टं प्रोक्षामि । इन्द्राय ज्येष्ठायै जुष्टमधिवपामि । कपालोपधानकाले । अष्टावुपधायैकादशोपदधाति । अभिघारणकाले । अत्रत्य पुरोडाशस्य तूष्णीमभिघारणम् । यो नः कनीयः । अपतमिन्द्रो ज्येष्ठा भुवानान्नुदेताम् । अयं यज्ञो ममाग्ने पञ्चहोता । प्रचरणकाले । इन्द्राय ज्येष्ठाया अनुब्रू३हि । इन्द्रं ज्येष्ठां यज । इन्द्राय ज्येष्ठाया इदम् । इन्द्रस्य ज्येष्ठाया अहमिन्द्रियाव्यन्नादः । नारिष्ठान्ते । इन्द्राया स्वाहा । ज्येष्ठायै स्वाहा । अभिजित्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म समानानां श्रेष्ठ्याभिजयं समानानां श्रेष्ठ्याभिजयमगन्मेति । इति ज्येष्ठा नक्षत्रेष्टिः ।

अथ मूलानक्षत्रेष्ट्या यक्षे । पक्षे । मूलं प्रजां विदेयमिति सङ्कल्पः । विद्युदसीत्यादि । पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । स्फ्येनाष्टौ कपालानि स्थाल्यौ च । निर्वपनकाले । प्रजापतये मूलाय जुष्टं निर्वपामि । चर्वर्थान् । अनुमत्यै जुष्टमित्यादि । उपसादने । प्रजापते मूल हव्यं रक्षेथाम् । प्रजापतये मूलाय वो जुष्टं प्रोक्षामि । अस्य चरोर्मन्त्रेणाभिघारणम् । प्रजापतये मूलाय जुष्टमभिघारयामि । उपांशुप्रचार इति केचित् । आग्नेयान्ते । प्रजापतये मूलायानुब्रू३हि । प्रजापतिं मूलं यज । प्रजापतये मूलयेदम् ।प्रजापतेर्मूलस्याहमन्नादः । नारिष्ठान्ते । प्रजापतये स्वाहा । मूलाय स्वाहा । प्रजायै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म मूलप्रजां विनिं मूलप्रजां विनिमगन्मेति । इति मूला नक्षत्रेष्टिः ।

अथ पूर्वाषाढा नक्षत्रेष्ट्या यक्षे । पक्षे । समुद्रं काममभिजयेयमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । प्रब्रवीमीत्यन्ते व्रतप्रवेशः । मूलेष्टिवत् । पात्रासादने । निर्वापकाले । अद्भ्योऽषाढाभ्यो जुष्टं निर्वपामि । चरव्यान् । अनुमत्यै जुष्टं निर्वपामि । इदं देवानामित्यादि । उपसादने । अपोऽषाढा हव्यं रक्षध्वम् । अद्भ्योऽषाढाभ्यो वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । अस्य चरोस्तूष्णीमभिघारणम् । यो नः कनीयः । अपतमापोऽषाढा भुवानान् नुदन्ताम् । अद्भ्योऽषाढाभ्योऽनुब्रू३हि । अपोऽषाढा यज । अद्भ्योऽषाढाभ्य इदम् । अपामषाढानामहम्……इन्द्रियाव्यन्नादः । नारिष्ठान्ते । अद्भ्यःस्वाहा । अषाढाभ्यः स्वाहा । समुद्राय स्वाहा । कामचाराय स्वाहा । अभिजित्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म समुद्रकामाभिजयं समुद्र कामाभिजयमगन्मेति । इति पूर्वाषाढा नक्षत्रेष्टिः ।

अथ उत्तराषाढा नक्षत्रेष्ट्या यक्षे । पक्षे । अनपजय्यं जयेयमिति सङ्कल्पः । विद्युदसीत्यादि आमावास्यं तन्त्रम् । प्रब्रवीमीत्यन्ते व्रतप्रवेशः । पात्रासादानादि पूर्ववत् । निर्वापकाले । विश्वेभ्यो देवेभ्योऽषाढाभ्यो जुष्टं निर्वपामि । चर्वर्थान् । विश्वे देवा अषाढा हव्यं रक्षध्वम् । विश्वेभ्यो देवेभ्यो ऽषाढाभ्यो वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेः पुरोडाशान् इदं विश्वेषां देवानामषाढानामनुमत्याः । चर्वर्थान् । आग्नेयमधिश्रित्य । यथाभागं व्यावर्तेथाम् । इदं विश्वेषां देवानामाषाढानाम् । इदमनुमत्याः । निर्दिश्याधिश्रपणादि । अस्य चरोश्तूष्णीमभिघारणम् । प्रचरणकाले । विश्वेभ्यो देवेभ्योऽषाढाभ्योऽनुब्रू३हि । विश्वान् देवानषाढा यज । विश्वेभ्यो देवेभ्योऽषाढाभ्य इदम् । विश्वेषां देवानामषाढानामहं……प्राणैः सायुज्यं गमेयम् । नारिष्ठान्ते । विश्वेभ्यो देवेभ्यः स्वाहा । अषाढाभ्यः स्वाहा । अनपजय्यया स्वाहा । जित्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्मानपजय्याभिजयमनप जय्याभिजयमगन्मेति । इत्युत्तराषाढा नक्षत्रेष्टिः ।

अथ अभिजिन्नक्षत्रेष्ट्या यक्षे । पक्षे । ब्रह्मलोकमभिजयेयमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । सप्तदश समीधेन्यः । पात्रासदनादि पूर्ववत् । निर्वपणकाले । ब्रह्मणेऽभिजिते जुष्टं निर्वपामि । चर्वर्थनिर्वापः । ब्रह्माभिजिन् हव्यं रक्षेथाम् । ब्रह्मणेऽभिजिते वो जुष्टं प्रोक्षाम्यनुमत्यै वः । शुन्धध्वमित्यादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । यथाभागं व्यावर्तेथाम् । द्वितीयम् । सर्वेषां मन्त्रेणाभिगारणम् । ब्रह्मणेऽभिजिते जुष्टमभिघारयामि । प्रचरणकाले । ब्रह्मणेऽभिजितेऽनुब्रू३हि । ब्रह्माणमभिजितं यज । बह्मणेऽभिजित इदम् । ब्रह्मणोऽभिजितोऽहमन्नादः । नारिष्ठान्ते । ब्रह्मणे स्वाहा । अभिजिते स्वाहा । ब्रह्मलोकाय स्वाहा । अभिजित्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म ब्रह्मलोकाभिजयं ब्रह्मलोकाभिजयमगन्मेति । इति अभिजिन्नक्षत्रेष्टिः ।

अथ श्रवणा नक्षत्रेष्ट्या यक्षे । पक्षे । पुण्यं श्लोकं शृण्वीय न मा पापी किर्तीरागच्छेदिति सङ्कल्पः । विद्युदसीत्यादि पौर्ण्मास्यं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । स्फेन सहैकादश कपालानि स्थाली च । निर्वापकाले । विष्णवे श्रोणायै जुष्टं निर्वपामि । विष्णो श्रोणे हव्यं रक्षेथाम् । एतत् पुरोडाशार्थम् । विष्णवे श्रोणायै वो जुष्टं प्रोक्षामि । ध्रुवमसीत्याद्यस्त्रिभिर्मन्त्रैः त्रयाणामुपधानम् । मन्त्रेणाभिघारणम् । विष्णवे श्रोणायै जुष्टमभिघारयामि । प्रचरणकाले । विष्ण्वे श्रोणाया अनुब्रू३हि । विष्णुं श्रोणां यज । विष्णवे श्रोणाया इदम् । विष्णोः श्रोणाया अहमन्नादः । नारिष्ठान्ते । विष्णवे स्वाहा । श्रोणायै स्वाहा । श्लोकाय स्वाहा । श्रुताय स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म पुण्यश्लोकश्रवणं मा पाप्माः किर्तेरनागमनं पुण्यश्लोकश्रवणं मा पाप्माः किर्तेरनागमनमगन्मेति । इति श्रवणा नक्षत्रेष्टिः ।

अथ श्रविष्ठा नक्षत्रेष्ट्या यक्षे । पक्षे । अयं समानानां परीयामेति सङ्कल्पः । विद्युदसीत्यादि आमावास्यं तन्त्रम् । प्रब्रवीमीत्यन्ते व्रतप्रवेशः । षोडश कपालं च स्थाली च । निर्वापकाले । वसुभ्यः श्रविष्ठाभ्यो जुष्टं निर्वपामि । वसवः श्रविष्ठा हव्यं रक्षध्वम् । वसुभ्यः श्रविष्ठाभ्यो वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । अस्म्यै पुरोडाशायाष्टावुपधानम् । तूष्णीमभिघारणम् । यो नः कनीयः । अपतं वसवः श्रविष्ठा भुवनान् नुदन्ताम् । प्रचरणकाले । वसुभ्यः श्रविष्ठाभ्योऽनुब्रू३हि । वसून् श्रविष्ठा यज । वसुभ्यः श्रविष्ठाभ्य इदम् । वसूनां श्रविष्ठानामहमिन्द्रियाव्यन्नादः । नारिष्ठान्ते । वसुभ्यः स्वाहा । श्रविष्ठाभ्यः स्वाहा । अग्राय स्वाहा । परीत्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्मायं ह परीतिमयं ह परीतिमगन्मेति । इति श्रविष्ठा नक्षत्रेष्टिः ।

अथ शतभिषङ नक्षत्रेष्टिः । पक्षे । दृढो शिथिलो भवेयमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । सप्तदश सामिधेन्यः । अष्टादश कपालानि स्थाली स्फ्श्च द्वन्द्वम् । वरुणाय शतभिषजे भेषजेभ्यो जुष्टं निर्वपामि । कृष्णव्रीहिं निर्वपति । उपसादने । वरुण शतभिषक् भेषजानि हव्यं रक्षध्वम् । प्रोक्षणे । वरुणाय शतभिषजे भेषजेभ्यो जुष्टमधिवपामि । एवं संवापः । कपालोपधानकाले चतुर्थाष्टमयोरावृत्या दशानामुधानम् । त्रयाणां मन्त्रेणाभिघारणम् । वरुणाय शतभिषजे भेषजेभ्यो जुष्टमभिघारयामि । प्रचरणकाले । वरुणाय शतभिषजे भेषजेभ्योऽनुब्रू३हि । वरुणं शतभिषजं भेषजानि यज । वरुणाय शतभिषजे भेषजेभ्य इदम् । वरुणस्य शतभिषजो भेषजानामहमन्नादः । नारिष्ठान्ते । वरुणाय स्वाहा । शतभिषजे स्वाहा । भेषजेभ्यः स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म दृढा शिथिलभवतं दृढाशिथिलभवतमगन्मेति । इति शतभिषङ नक्षत्रेष्टिः ।

अथ पूर्वप्रोष्ठपदा नक्षत्रेष्ट्या यक्षे । पक्षे । तेजस्वी ब्रह्मवर्चसी स्यामिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । पात्रासादनकाले । अष्टौ कपालानि स्थ्ल्यौ च द्वन्द्वम् । निर्वपणकाले । अजायैकपदे प्रोष्ठपदेभ्यो जुष्टं निर्वपामि । कृष्णव्रीहीणां निर्वपतीति चन्द्रिकायाम् । उपसादने । अजैकपात्प्रोष्ठपदा हव्यं रक्षध्वम् । प्रोक्षणे । अजायैकपदे प्रोष्ठपदेभ्यो वो जुष्टं प्रोक्षामि । नक्षत्रचरोरुपधानान्तम् । …अनुमतेस्तद्वत् । अजायैकपदे प्रोष्ठपदेभ्यो जुष्टमभिघारयामि । सर्वेषां मन्त्रेणाभिघारणम् । प्रचरणकाले । अजायैकपदे प्रोष्ठपदेभ्योऽनुब्रू३हि । अजमेकपदं प्रोष्ठपदान् यज । अजायैकपदे प्रोष्ठपदेभ्य इदम् । अजस्येकपदः प्रोष्ठपदानामहमन्नादः । नारिष्ठान्ते । अजायैकपदे स्वाहा । प्रोष्ठपदेभ्यः स्वाहा । तेजसे स्वाहा । ब्रह्मवर्चसे स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अग्नम तेजोब्रह्मवर्चसे तेजोब्रह्मवर्चसे अगन्मेति । इति पूर्वप्रोष्ठपदा नक्षत्रेष्टिः ।

अथ उत्तराप्रोष्ठपदा नक्षत्रेष्ट्या यक्षे । पक्षे । प्रतिष्ठावान् भूयासमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासंतन्त्रम् । अहिर्बुध्न्योर्भूमिकपालः पुरोडाश आग्नेयविकारः । अहये बुध्नियाय प्रोष्ठपदेभ्यो जुष्टं निर्वपामि । अहे बुध्निय प्रोष्ठपदा हव्यं रक्षध्वम् । कपालोपधानकाले आग्नेयस्याष्टौवुधाय। अपाग्नेऽग्निमित्यादि आ देवयजं वहेति दक्षिणवस्थाप्येतदन्तं कृत्वा । ध्रुवोऽसीत्यादि मन्त्रेण भूमावेककपालमात्रं परिलिख्य …..मॆति कृत्वा । चरूपधानादि तपसा तप्यस्वेत्येककपालमात्रभूमावङ्गाराध्यूहनं ……(अत्र कानिचित् वाक्यानि वैदिकसंशोधनमण्डळतः गृहीतानि) । सर्वेषां मन्त्रेणाभिघारणम् । अहये बुध्नियाय प्रोष्ठपदेभ्यो जुष्टमभिघारयामि । प्रचरणकाले । आग्नेयान्ते एककपालवत् कृत्स्नमवदाय । अहये बुध्नियाय प्रोष्ठपदेभ्योऽनुब्रू३हि । अहिं बुध्न्यं प्रोष्ठपदान् यज । अहये बुध्नियाय प्रोष्ठपदेभ्य इदम् । अहेर्बुध्न्यस्य प्रोष्ठपदानामहमन्नादः । नारिष्ठान्ते । अहये बुध्नियाय स्वाहा । प्रोष्ठपदेभ्यः स्वाहा । प्रतिष्ठायै स्वाहा । सूक्तवाके । यद्घर्मेकपाल…पूष्णस्त.. इति लिखितकपाललोपः कार्यः । अगन्म प्रतिष्ठां प्रतिष्ठामगन्मेति सङ्कल्पः । इत्युत्तराप्रोष्ठपदा नक्षत्रेष्टिः ।

अथ रेवतीनक्षत्रेष्ट्या यक्षे । पक्षे । पशुमान् भूयासमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । अष्टौ कपालानि स्थाल्यौ स्फ्यश्च द्वन्द्वम् । निर्वापकाले । पूष्णे रेवत्यै जुष्टं निर्वपामि । उपसादने । पूषन् रेवति हव्यं रक्षेथाम् । प्रोक्षणे । पूष्णे रेवत्यै वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । उत्करे त्रिर्निनीय । यथाभागं व्यावर्तध्वम् । इदमग्नेः पूष्णो रेवत्या इति पेषणार्थान् । इदमनुमत्या इति चर्वर्थान् । अग्नये जुष्टमधिवपामि । पूष्णे रेवत्यै जुष्टमधिवपामि । धान्यमसीति । उक्तं हि पौष्णपेषणस्य सार्वत्रिकं भाष्ये । न च जैमिनिन्यायविशेषः ।……………बाधितत्वात् । पिण्डकरणान्ते । यथाभागं व्यावर्तेथाम् । इदं पूष्णो रेवत्या इत्यभिमृष्टपिण्डस्य पौष्णरेवत्यास्थाल्यां काले घर्मोसीति प्रक्षेपः । अभिघारणकाले । पूष्णे रेवत्यै जुष्टमभिघारयामि । मन्त्रेणाभिघारणम् । पचरणकाले । पूष्णे रेवत्या अनुब्रू३हि । पूषणं रेवतीं यज । पूष्णे रेवत्या इदम् । पूष्णो रेवत्या अहं…..प्रजनिषीयप्रजयापशुभिः । नारिष्ठान्ते । पूष्णे स्वाहा । रेवत्यै स्वाहा । पशुभ्यः स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म पशून् पशूनगन्मेति । इति रेवती नक्षत्रेष्टिः ।

अथ अश्विनी नक्षत्रेष्ट्या यक्षे । पक्षे । श्रोत्रस्वी अबधिरो भूयासमिति सङ्कल्पः । विद्युदसीतादि अमावास्यं तन्त्रम् । प्रब्रवीमीत्यान्ते व्रतप्रवेशः । पात्रासादने । स्फ्येन सह दशकपालानि स्थाली स्फ्यश्च द्वन्द्वम् । निर्वापकाले । अश्विभ्यामश्वयुग्भ्यां जुष्टं निर्वपामि । अनुमत्यादि । उपसादने । अश्विनावश्वयुजौ हव्यं रक्षध्वम् । प्रोक्षणकाले । अश्विभ्यामश्वयुग्भ्यां वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । कपालोपधानकाले । ध्रुवमसीत्याद्याभ्यां द्वे उपधा चरुमुधानम् । तप्येथामिति कपालयोरङ्गाराध्यूहनम् । तूष्णीमभिघारं द्विकपालस्याम् । यो नः कनीयः । अपतमश्विनावश्वयुजौ भुवनान् नुदेताम् । प्रचरणकाले । अश्विभ्यामश्वयुग्भ्यामनब्रू३हि । अश्विनावश्वयुजौ यज । अश्विभ्यामश्वयुग्भ्य इदम् । अश्विनोरश्वयुजोरहमिन्द्रियाव्यन्नादः । नारिष्ठान्ते । अश्विभ्यां स्वाहा । अश्वयुग्भ्यां स्वाहा । श्रोत्राय स्वाहा । श्रुत्यै स्वाहा । अत्र प्रातर्यावाणेति द्वे ऋचौ स्रुवेण जुहोतीति कपर्दिस्वामिनोक्तम् । सूक्तवाके । यद्घर्मे कपाले उपचिन्वीतो वेधसः । पूष्णस्ते अपिव्रते इन्द्रवायू विमुञ्चताम् । इति द्विकपालविशेषः । अगन्म श्रोत्रस्वी अबधिरतां श्रोत्रस्वी अबधिरतामगन्मेति । इति अश्विनी नक्षत्रेष्टिः ।

अथ अपभरणी नक्षत्रेष्ट्या यक्षे । पक्षे । समानानां राज्यमभिजयेयमिति सङ्कल्पः । विद्युदसीत्यादि पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । स्फ्येन सहाष्टौ कपालानि स्थाल्यौ च । निर्वापकाले । अग्नये जुष्टं निर्वपामि । यमायापभरणीभ्यो जुष्टं निर्वपामि । अनुमत्यै जुष्टं निर्वपामि । उपसादनकाले । अग्ने हव्यं रक्षस्व । यमापभरण्यो हव्यं रक्षध्वम् । अनुमते हव्यं रक्षस्व । प्रोक्षणे । अग्नये वो जुष्टं प्रोक्षामि । यमायापभरणीभ्यो वो जुष्टं प्रोक्षाम्यनुमत्यै वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । अभिघारणकाले । सर्वेषां मन्त्रेणाभिघारणम् । यमायापभरणीभ्यो जुष्टमभिघारयामि । प्रचरणकाले । आग्नेयान्ते । यमायापभरणीभ्योऽनुब्रू३हि । यममपभरणीर्यज । यमायापभरणीभ्य इदम् । यमस्यापभरणीना महमन्नादः । नारिष्ठान्ते । यमाय स्वाहा । अपभरणीभ्यः स्वाहा । राज्याय स्वाहा । अभिजित्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म समानानां राज्यमभिजयं समानानां राज्यमभिजयमगन्मेति । इति अपभरणी नक्षत्रेष्टिः ।

अथ अमावास्या नक्षत्रेष्ट्या यक्षे । पक्षे । कामो मामुपनमेदिति सङ्कल्पः । विद्युदसीत्यादि पौर्ण्मासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । सञ्चरयोरेव पात्रासादननिर्वापादि । प्रचरणकाले । आग्नेयान्ते । ध्रुवातश्चतुर्गृहीतं पञ्चगृहीतं वा यथाधिकारं गृहीत्वा । अमावास्यायै इत्युपांशुः । अनुब्रू३हीत्युच्चैः । अमावास्यां इत्युपांशुः यज इत्युच्चैः । अमावास्या इदम् । दब्धिरसीत्यनुमन्त्रणम् । अप उपस्पृश्य । नारिष्ठान्ते । अमावास्यायै स्वाहा । कामाय स्वाहा । आगत्यै स्वाहा । यथालिङ्गं त्यागः । सूक्तवाके । अगन्म कामोपगमनं कामोपगमनमगन्मेति । अमावास्याया नोज्जितिः । इत्यमावास्येष्टिः ।

अनूराधामरभ्य इष्टिः । पचस्व । नाक्षत्रमासोऽयं समाप्तः । चन्द्रमसेत्यादि वैष्णवीत्यन्तं प्राधान्यं भवति तेषां नित्ये यथाकालेष्वारम्भः ।

अथ चन्द्रमसेष्टिः । चान्द्रमास्येष्ट्या यक्षे । पक्षे । अहोरात्रानर्धमासान्मासानृतून्संवत्सरमाप्त्वा चन्द्रमसः सायुज्यं सलोकतामाप्नुयामिति सङ्कल्पः । अथ बौधायनः । अहनि निर्वपेदुदिते चन्द्रमसि प्रचरेदिति । अत्र वैशाखशुक्लप्रतिपदी नक्षत्रेष्वारम्भः । पक्षे कृष्णपक्षे त्रयोदश्यां चतुर्दश्यां वेयमिष्टिः सम्भाव्यते । न च तत्राहनि निरूप्य प्रचारस्य चन्द्रोदयप्रतीक्षा घटते । हविषां यातयामत्वापत्तेः । प्रयोगविधिबोधितप्राश्रुभावबाधापत्तेश्च । तथा कार्तिक कृष्णप्रतिपद्यारम्भपक्षे शुक्लपक्षे त्रयोदश्यां चतुर्दश्यां वेयमिष्टिः भवेत् । तत्रास्तात् पूर्वोदितं चन्द्रमस्यनोदय प्रतीक्षासम्भवतीति ।