०३ अभ्युदय-श्राद्धम्

… कर्माङ्गम् अभ्युदयश्राद्धं करिष्य

इति सङ्कल्प्य,
अन्नेन, आमेन, हिरण्येन वा कुर्यात् ।

हिरण्य-निधानम्

वसु-सत्याख्य-विश्वेभ्यो देवेभ्यः
नान्दी-मुखाभ्यः मातृ-पितामही-प्रपितामहीभ्यः,
नान्दी-मुखेभ्यः पितृ-पितामह-प्रपितामहेभ्यः/
नान्दी-मुखेभ्यः मातामह–मातुः-पितामह–मातुः-प्रपितामहेभ्यः /
नान्दी-श्राद्ध-संरक्षक–श्री-महा-विष्णवे च
इदं हिरण्यम्

इति हिरण्यं निधाय,

प्रीणनम्

यज्ञेश्वरो … एको विष्णुः ...{Loading}...

यज्ञेश्वरो हव्य-समस्त-कव्य-
भोक्ता ऽव्ययात्मा हरिर् ईश्वरो ऽत्र ।
तत्-सन्निधानाद् अपयान्तु सद्यो
रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥

एको विष्णुर् महद्-भूतं
पृथक् भूतान्य् अनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा
भुङ्क्ते विश्व-भुग् अव्ययः ॥

अनेन नान्दीमुखेन
(सत्य-वसु-संज्ञक) वसु-सत्याख्य–विश्व-देव-स्वरूपी,
नान्दी-मुख–
(प्रपितामहि-पितामहि-मातृ-स्वरूपी,
प्रपितामह-पितामह-पितृ-स्वरूपी +++(इति क्रमे व्यत्यासेन वा)+++)
मातृ-पितामही-प्रपितामही-स्वरूपी,
नान्दी-मुख–पितृ-पितामह-प्रपितामह-स्वरूपी,
नान्दी-मुख-सपत्नीक–मातामह–मातुः-पितामह–मातुः-प्रपितामह–स्वरूपी,
नान्दी-श्राद्ध-संरक्षक-श्री-महा-विष्णु-स्वरूपी,
सर्वाकारो भगवान् स एव श्री-जनार्दनः प्रीयताम् ।
नान्दीशेभनदेवताः पितरः प्रीयन्ताम् ।

इयञ् च वृद्धिः ।

जल-नयनम्

इडा॑ देव॒हूः ...{Loading}...
भास्करोक्त-विनियोगः

3आर्त्विज्यं वा करिष्यन् शस्त्रं वा प्रतिगरिष्यन् जपति - इडेति ॥

मूलम् (संयुक्तम्)

इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द्विश्वे॑ दे॒वाः [3] सू॒क्त॒वाच॒ᳶ पृथि॑वि मात॒र्मा मा॑ हिꣳसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वख्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीन्दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्या᳚म्मनु॒ष्ये᳚भ्य॒स्तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरोऽनु॑ मदन्तु ॥ [4]

विश्वास-प्रस्तुतिः

इडा॑ देव॒हूर्,
मनु॑र् यज्ञ॒-नीर्,
बृह॒स्-पति॑र् उक्था-म॒दानि॑+++(=प्रतिगरान्)+++ शꣳसिष॒द् ,
विश्वे॑ दे॒वास् सू᳚क्त॒-वाचः॑ ।

Keith

May Ida who summoneth the gods, Manu who leadeth the sacrifice,
May Brhaspati recite the hymns and acclamations.
The All-gods [1] are reciters of the hymns.

मूलम्

इडा॑ देव॒हूर्, मनु॑र्यज्ञ॒नीर्, बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द् , विश्वे॑ दे॒वास्सू᳚क्त॒वाचः॑ ।

भट्टभास्कर-टीका

इडा देवी गौर् वा प्रष्टिर्वा,
यामुपह्वयते सा देवहूः
देवानामाह्वाता होता ।
यद्वा - सा देवानां
मनुर् यज्ञनीः यज्ञस्य नेता मनुः प्रजापतिः वा
बृहस्पतिरुक्थामदानि शस्त्र-प्रतिगरादीनि
शंसिषत् शंसति शस्त्राणि शंसति
मदान् प्रतिगरान् शंसति । शंसेर्लेटि ‘सिब्बहुलं लेटि’ इति सिप् । उक्थशब्दस्य संहितायां छान्दसं दीर्घत्वम् । विश्वेदेवाः सूक्तवाचः सूक्तवाकस्य वक्तारः सूक्तं सूक्तवाकः, तद्ब्रुवन्तीति सूक्तवाचः । ‘क्विब्वचि’ इत्यादिना क्विप्दीर्घत्वे । यस्मादेवं सर्वमेतदिडादयः कुर्वन्ति तस्मात्सत्यपि प्रमादे न मे कश्चिदपराधः ।

विश्वास-प्रस्तुतिः

पृथि॑वि मात॒र् मा मा॑ हिꣳसीः ।

Keith

O earth mother, do not harm me.

मूलम्

पृथि॑वि मात॒र्मा मा॑ हिꣳसीः ।

भट्टभास्कर-टीका

तस्मात् हे पृथिवि मातः सर्वस्य रक्षिके मा मा हिंसीः ।

विश्वास-प्रस्तुतिः

मधु॑ मनिष्ये
मधु॑ जनिष्ये
मधु॑ वख्ष्यामि
मधु॑ वदिष्यामि

Keith

Of honey shall I think, honey shall I produce, honey shall I proclaim, honey shall I speak,

मूलम्

मधु॑ मनिष्ये ।
मधु॑ जनिष्ये ।
मधु॑ वख्ष्यामि ।
मधु॑ वदिष्यामि ।

भट्टभास्कर-टीका

अहं तु मधु मनिष्ये मधुवदेव मनसा चिन्तयिष्यामि ।

विश्वास-प्रस्तुतिः

मधु॑मतीन् दे॒वेभ्यो॒ वाच॑म् उद्यासꣳ शुश्रू॒षेण्या᳚म् मनु॒ष्ये᳚भ्यः

Keith

may I utter speech full of honey for the gods, and acceptable to men.

मूलम्

मधु॑मतीन्दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्या᳚म्मनु॒ष्ये᳚भ्यः

भट्टभास्कर-टीका

देवेभ्यो मधुमतीं मधुवदनहेतुं न केवलप्रमादां वाचं उद्यासं वदितुं समर्थो भूयासम् । ‘किदाशिषि’ इति कित्त्वात् ‘वचिस्वपि’ इति संप्रसारणम् ।

मनुष्येभ्यः शुश्रूषेण्यां श्रवणीयां श्रुतिसुखहेतुं वाचं उद्यासमित्येव । उभयत्रापि षष्ठ्यर्थे चतुर्थी । सनन्तादौणादिक एण्यप्रत्ययः ।

विश्वास-प्रस्तुतिः

तम् मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरो ऽनु॑ मदन्तु

Keith

May the gods aid me to radiance, may the Pitrs rejoice in me.

मूलम्

तम्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ । पि॒तरोऽनु॑ मदन्तु ॥

भट्टभास्कर-टीका

तं मामेवंगुणं देवा अवन्तु रक्षन्तु शोभायै यथा मया कृतं शोभते तथा अनुमदन्तु अनुमोदन्तां, उत्कृष्टत्वेन समीचीनं करोतीति शोभार्थं पितरश्च अनुमोदन्तु । माद्यतेर्व्यत्ययेन शप् ॥

इति तृतीये तृतीये द्वितीयोनुवाकः ॥

इड॒ एहि॑ ...{Loading}...
विश्वास-प्रस्तुतिः

इड॒ एहि॑+++(=आ+इ॑हि)+++ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्य् एहि॑+++(=आ+इ॑हि)+++ ।

Keith

O Ida, come hither; O Aditi, come hither; O Sarasvati, come hither.

मूलम्

इड॒ एहि॑ ।
अदि॑त॒ एहि॑ ।
सर॑स्व॒त्येहि॑ ।

भट्टभास्कर-टीका

इडादयश् शब्दा गवां नामानि, यथा - ‘इडे रन्तेदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्येतनि ते अघ्निये नामानि’ इति । ताच्-छब्द्येनेडा स्तूयते ।

तत्र गवां भेदान् निमृढ्वम् इति बहुवचनम् उपपद्यते, हे इडादयो यूयमागत्य मां निमृढ्वमिति । यदा तु गोभिर् अभेदेनेडोच्यते हे इडादिरूपे इड इति तदा त्वेकवचनम् एव न्याय्यम् । इडा पशुसाधनीड्या वा । अदितिर् अदीना अखण्डनीया ।
सरस्वती सरणवती सरस्वतीसदृशा वा ।

शोभनं, शोभनं, शोभनम्

इति साक्षतं जलं
हिरण्योपरि निनीय

दानम्

इदं हिरण्यं नानागोत्रेभ्यः श्रीवैष्णवेभ्यस्तेभ्यः तेभ्यः सम्प्रददे न मम

इति साक्षतं जलं निस्राव्य,

ब्राह्मणेभ्यो दद्यात्