२६ मुष्टीकरणं, वाग्यमनञ्च

यजमानः - अथाङ्गुलीर्न्यचति । स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याम् कनिष्ठिके । स्वाहा दिवः अनामिके । स्वाहा पृथिव्याः मध्यमे । स्वाहोरोरन्तरिक्षात् प्रादेशिन्यौ । स्वाहा यज्ञं वातादारभे अङ्गुष्ठाभ्यां मुष्टी करोति वाचं च यच्छति ।