भिक्षा

भिक्षाग्रहणम्

25 सर्वं लाभमाहरन्गुरवे सायम् ...{Loading}...

सर्वं लाभमाहरन्गुरवे सायं प्रातरमन्त्रेण भिक्षाचर्यं चरेद् भिक्षमाणोऽन्यत्रापपात्रेभ्योऽभिशस्ताच्च २५

26 स्त्रीणाम् प्रत्याचक्षाणानां समाहितो ...{Loading}...

स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून्ब्रह्मवर्चसमन्नाद्यं वृङ्क्ते २६-१

तस्मादु ह वै ब्रह्मचारिसंघं चरन्तं न प्रत्याचक्षीतापि हैष्वेवम्विध एवंव्रतः स्यादिति हि ब्राह्मणम् २६-२

27 नानुमानेन भेक्षम् ...{Loading}...

नानुमानेन भेक्षम् उच्छिष्टं - दृष्टश्रुताभ्यां तु २७

28 भवत्पूर्वया ब्राह्मणो भिक्षेत ...{Loading}...

भवत्पूर्वया ब्राह्मणो भिक्षेत २८

29 भवद्मध्यया राजन्यः ...{Loading}...

भवद्मध्यया राजन्यः २९

30 भवदन्त्यया वैश्यः ...{Loading}...

भवदन्त्यया वैश्यः ३०

भिक्षा-निवेदनम्

31 तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ...{Loading}...

तत्समाहृत्योपनिधायाचार्याय प्रब्रूयात् ३१

32 तेन प्रदिष्टम् भुञ्जीत ...{Loading}...

तेन प्रदिष्टं भुञ्जीत ३२

33 विप्रवासे गुरोराचार्यकुलाय ...{Loading}...

विप्रवासे गुरोराचार्यकुलाय ३३

34 तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ...{Loading}...

तैर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः ३४

35 नात्मप्रयोजनश्चरेत् ...{Loading}...

नात्मप्रयोजनश्चरेत् ३५

14 गुरुसमवाये भिक्षयामुत्पन्नायां यमनुबद्धस्तदधीना ...{Loading}...

गुरुसमवाये भिक्षयामुत्पन्नायां यमनुबद्धस्तदधीना भिक्षा १४

15 समावृत्तो मात्रे दद्यात् ...{Loading}...

समावृत्तो मात्रे दद्यात् १५

16 माता भर्तारङ् गमयेत् ...{Loading}...

माता भर्तारं गमयेत् १६

17 भर्ता गुरुम् ...{Loading}...

भर्ता गुरुम् १७

18 धर्मकृत्येषु वोपयोजयेत् ...{Loading}...

धर्मकृत्येषु वोपयोजयेत् १८

भिक्षा-कारण-परीक्षा

01 भिक्षणे निमित्तमाचार्यो विवाहो ...{Loading}...

भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपः १

02 तत्र गुणान्समीक्ष्य यथाशक्ति ...{Loading}...

तत्र गुणान्समीक्ष्य यथाशक्ति देयम् २

03 इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् ...{Loading}...

इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तम् । न तदाद्रियेत ३

… भिक्षा-प्रतिग्रहनिषेधा दान-साधारणविषयश्च अन्यत्रोक्ताः।