धर्मे प्रमाणम्

01 अथातः सामयाचारिकान्धर्मान्व्याख्यास्यामः ...{Loading}...

अथातः सामयाचारिकान् धर्मान् व्याख्यास्यामः १

02 धर्मज्ञसमयः प्रमाणम् ...{Loading}...

धर्मज्ञ-समयः प्रमाणम्

03 वेदाश्च ...{Loading}...

वेदाश् च ३

13 कृच्छ्रा धर्मसमाप्तिः समाम्नातेन ...{Loading}...

कृच्छ्रा धर्मसमाप्तिः समाम्नातेन । लक्षणकर्मणात्तु समाप्यते १३

शिष्टाचारे स्मृत्यन्तरे च

08 श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ...{Loading}...

श्रुतिर्हि बलीयस्यानुमानिकादाचारात् ८

38 यथोक्तमन्यदतः परिषत्सु ...{Loading}...

यथोक्तमन्यदतः परिषत्सु ३८

10 ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः ...{Loading}...

ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते १०

11 यत्र तु प्रीत्युपलब्धितः ...{Loading}...

यत्र तु प्रीत्युपलब्धितः प्रवृत्तिर्न तत्र शास्त्रमस्ति ११

05 अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु ...{Loading}...

अन्-असूयुर्, दुष्-प्रलम्भः स्यात्
कुहक-शठ-नास्तिक-बाल-वादेषु ५

06 न धर्माधर्मौ चरत ...{Loading}...

न धर्माधर्मौ चरत
“आवं स्व” इति ।
न देव-गन्धर्वा, न पितर +++(पुर आगत्य)+++ इत्य् आचक्षते
“ऽयं धर्मो ऽयम् अधर्म” इति ६

07 यत्त्वार्याः क्रियमाणम् प्रशंसन्ति ...{Loading}...

यत् त्व् आर्याः
क्रियमाणं प्रशंसन्ति
स धर्मो,
यद् गर्हन्ते
सोऽधर्मः ७

08 सर्व-जन-पदेष्व् एकान्त-समाहितम् ...{Loading}...

सर्व-जन-पदेष्व् एकान्त-समाहितम्
आर्याणाम् वृत्तं
सम्यग् विनीतानां वृद्धानाम्
आत्मवताम्, अलोलुपानाम्, अदाम्भिकानां वृत्त-सादृश्यं भजेत ८

09 विप्रतिषेधे श्रुतिलक्षणम् बलीयः ...{Loading}...

विप्रतिषेधे श्रुतिलक्षणं +++(सन्ध्याग्निहोत्रादिचोदकम्)+++ बलीयः ९

29 यच्चान्यत्परिचक्षते यच्चान्यत्परिचक्षते ...{Loading}...

यच् चान्यत् परिचक्षते, यच् चान्यत् परिचक्षते २९

17 यच्चान्यत्परिचक्षते ...{Loading}...

यच् चान्यत् परिचक्षते १७

07 दृष्टो धर्मव्यतिक्रमस् साहसम् ...{Loading}...

दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् ७

08 तेषान् तेजोविशेषेण प्रत्यवायो ...{Loading}...

तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ८

09 तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ...{Loading}...

तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ९

देश-कुलाचारेषु

01 एतेन देशकुलधर्मा व्याख्याताः ...{Loading}...

एतेन देशकुलधर्मा +++(=शास्त्राऽविरुद्धा एव)+++ व्याख्याताः १

13 कृच्छ्रा धर्मसमाप्तिः समाम्नातेन ...{Loading}...

कृच्छ्रा धर्मसमाप्तिः समाम्नातेन । लक्षणकर्मणात्तु समाप्यते १३

14 तत्र लक्षणम् सर्वजनपदेष्वेकान्तसमाहितमार्याणां ...{Loading}...

तत्र लक्षणम् । सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्यग्विनीतानां वृद्धानामात्मवतामलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेत । एवमुभौ लोकावभिजयति १४

स्त्री-शूद्राश्च

11 सा निष्ठा या ...{Loading}...

सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ११

12 आथर्वणस्य वेदस्य शेष ...{Loading}...

आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति १२

15 स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीयादित्येक ...{Loading}...

स्त्रीभ्यः सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीयादित्येक इत्येके १५