अध्ययनम्

औचित्य-विवेकः

क्वानध्यायः

09 विद्याम् प्रत्यनध्यायः श्रूयते ...{Loading}...

विद्यां प्रत्यनध्यायः श्रूयते न कर्मयोगे मन्त्राणाम् ९

38 यथोक्तमन्यदतः परिषत्सु ...{Loading}...

यथोक्तमन्यदतः परिषत्सु ३८

19 दोषफलसंशये न तत्कर्तव्यम् ...{Loading}...

दोषफलसंशये न तत्कर्तव्यम् १९

20 एवमध्यायानध्याये ...{Loading}...

एवमध्यायानध्याये २०

काल-निमित्तकम् अनध्ययनम्

01 श्रावण्याम् पौर्णमास्यामध्यायमुपाकृत्य मासं ...{Loading}...

श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्य मासं {अनूक्तम् अननूक्तञ्च} प्रदोषे नाधीयीत १

02 तैष्याम् पौर्णमास्यां रोहिण्यां ...{Loading}...

तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत् २

03 अर्धपञ्चमांश्चतुरो मासानित्येके ...{Loading}...

अर्धपञ्चमांश्चतुरो मासानित्येके ३

35 अननूक्तञ् चापर्तौ छन्दसो ...{Loading}...

अननूक्तं चापर्तौ छन्दसो नाधीयीत ३५

36 {अननूक्तं} प्रदोषे च ...{Loading}...

{अननूक्तं} प्रदोषे च ३६

37 सार्वकालिकमाम्नातम् {अध्येतव्यम्} ...{Loading}...

सार्वकालिकमाम्नातम् +++(=अधीतम्)+++ {अध्येतव्यम्} ३७

01 {अनध्ययनम्} काण्डोपाकरणे चामातृकस्य ...{Loading}...

{अनध्ययनम्} काण्डोपाकरणे चामातृकस्य १

02 काण्डसमापने चापितृकस्य ...{Loading}...

काण्डसमापने चापितृकस्य २

28 अहोरात्रावमावास्यासु ...{Loading}...

अहोरात्राव् अमावास्यासु +++(पूर्वेद्युश् चतुर्दशीषु चेति हरदत्तः। मनुना पूर्णिमायाम् अपि निषिद्धम्।)+++ २८

01 चातुर्मासीषु च ...{Loading}...

चातुर्मासीषु च १

15 सन्ध्योः ...{Loading}...

सन्ध्योः १५

20 अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः ...{Loading}...

अविहितमनुवाकाध्ययनमाषाढवासन्तिकयोः +++(=वसन्तोत्सवः)+++ २०

12 अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः ...{Loading}...

अनध्यायो निशायाम् +++(=रात्रेर् मध्यभागः)+++ - अन्यत्र धर्मोपदेशाच् छिष्येभ्यः १२

घटनानिमित्तम् अनध्ययनम्

18 तदहरागतेषु च ग्रामम् ...{Loading}...

तदहरागतेषु च ग्रामं बाह्येषु १८

19 अपि सत्सु ...{Loading}...

अपि सत्सु १९

02 वैरमणो गुरुष्वष्टाक्य औपाकरण ...{Loading}...

वैरमणे+++(=उत्सर्जने)+++ +++(मृतेषु)+++ गुरुष्व् अष्टाक्य औपाकरण इति त्र्यहाः २

06 यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यङ् ...{Loading}...

यत्काण्डमुपाकुर्वीत यस्य चानुवाक्यं कुर्वीत न तत्तदहरधीयीत ६

07 उपाकरणसमापनयोश्च पारायणस्य तां ...{Loading}...

उपाकरणसमापनयोश्च पारायणस्य तां विद्याम् ७

11 विप्रोष्य च समध्ययनन् ...{Loading}...

विप्रोष्य च समध्ययनं तदहः ११

12 स्वैरिकर्मसु च ...{Loading}...

स्वैरिकर्मसु च १२

13 यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति ...{Loading}...

यथा पाद प्रक्षालनोत्सादनानुलेपनाणीति १३

14 तावन्तङ् कालन् नाधीयीताध्यापयेद्वा ...{Loading}...

तावन्तं कालं नाधीयीताध्यापयेद्वा १४

मृताशौचे

03 तथा सम्बन्धेषु ज्ञातिषु ...{Loading}...

तथा संबन्धेषु ज्ञातिषु +++(मृतेषु त्र्यहम् अनध्याय इति ब्रह्मचारिनियमः। इतरेषाम् आशौचवतां तु यावद् आशौचमनध्यायः)+++३

04 मातरि पितर्याचार्य इति ...{Loading}...

मातरि पितर्य् आचार्य इति द्वादशाहाः ४

10 आचार्ये त्रीनहोरात्रानित्येके ...{Loading}...

आचार्ये त्रीन् अहोरात्रान् इत्य् एके १०

11 श्रोत्रियसंस्थायामपरिसंवत्सरायामेकाम् ...{Loading}...

श्रोत्रिय-संस्थायाम् अपरिसंवत्सरायाम् एकाम् +++(रात्रिम्)+++ ११

13 सब्रह्मचारिणीत्येके १२ … ...{Loading}...

सब्रह्मचारिणीत्य् एके १२ …

अन्ननिमित्तम्

26 प्रदोषे च भुक्त्वा ...{Loading}...

प्रदोषे च भुक्त्वा २६

27 प्रोदकयोश्च पाण्योः ...{Loading}...

प्रोदकयोश्च +++(= भुक्त्वार्द्रयोः)+++ पाण्योः २७

28 प्रेतसङ्कॢप्तञ् चान्नम् भुक्त्वा ...{Loading}...

प्रेतसंकॢप्तं चान्नं भुक्त्वा सप्रदोषमहरनध्यायः २८

29 आ च विपाकात् ...{Loading}...

आ च विपाकात् २९

30 अश्राद्धेन तु पर्यवदध्यात् ...{Loading}...

अश्राद्धेन तु पर्यवदध्यात् ३०

03 मनुष्यप्रकृतीनाञ् च देवानां ...{Loading}...

मनुष्यप्रकृतीनां च देवानां यज्ञे भुक्त्वेत्येके ३

04 पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ...{Loading}...

पर्युषितैस्तण्डुलैराममांसेन च नानध्यायाः ४

05 तथौषधिवनस्पतिमूलफलैः ...{Loading}...

तथौषधिवनस्पतिमूलफलैः ५

25 शुक्तञ् चात्मसंयुक्तम् ...{Loading}...

शुक्तं +++(=पक्वं कालपाकेनाम्लं जात)+++ चात्मसंयुक्तम् +++(=उदरस्थम्)+++ २५

उपप्लवे

25 गवाञ् चावरोधे ...{Loading}...

गवां चावरोधे २५

26 वध्यानाञ् च यावता ...{Loading}...

वध्यानां च यावता हन्यन्ते २६

21 सर्वेषु च शब्दकर्मसु ...{Loading}...

सर्वेषु च शब्दकर्मसु +++(=आक्रोश-परिवादादिषु)+++ यत्र +++(+अध्ययन-शब्देन)+++ संसृज्येरन् २१

19 श्वगर्दभनादाः सलावृक्येकसृकोलूकशब्दाः सर्वे ...{Loading}...

+++(बहु-)+++श्व-गर्दभ-नादाः सलावृक्य्-एकसृक+++(=शृगाल)++++उलूक-शब्दाः
सर्वे वादित्र-शब्दा
रोदन-गीत-सामशब्दाश् च १९

20 शाखान्तरे च साम्नामनध्यायः ...{Loading}...

शाखान्तरे +++(श्रूयमाणे)+++ च साम्नाम् अनध्यायः २०

उपप्लवे नैसर्गिके

20 सन्धावनुस्तनिते रात्रिम् ...{Loading}...

संधावनुस्तनिते रात्रिम् २०

21 स्वप्नपर्यान्तं विद्युति ...{Loading}...

स्वप्नपर्यान्तं विद्युति २१

22 उपव्युषं यावता वा ...{Loading}...

उपव्युषं
यावता वा कृष्णां रोहिणीम् इति,
शम्या-प्रासाद् विजानीयाद्

  • एतस्मिन् काले विद्योत-माने सप्रदोषम् अहरनध्यायः २२

23 दह्रेऽपररात्रे स्तनयित्नुना ...{Loading}...

दह्रे+++(=अपररात्रे तृतीयो भागः)+++ ऽपररात्रे+++(=रात्रेस् तृतीयो भागः)+++ स्तनयित्नुना २३

24 ऊर्ध्वमर्धरात्रादित्येके ...{Loading}...

ऊर्ध्वमर्धरात्रादित्येके २४

08 वायुर्घोषवान्भूमौ वा तृण ...{Loading}...

वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धाराः प्रवहेत् ८

25 विद्युति चाभ्यग्रायां स्तनयित्नाव् ...{Loading}...

विद्युति चाभ्यग्रायां स्तनयित्नाव् अप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५

27 विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र सन्निपतेयुस्तस्त्र्यहमनध्यायः ...{Loading}...

विद्युत्स्तनयित्नुर्वृष्टिश्चापर्तौ यत्र संनिपतेयुस्तस्त्र्यहमनध्यायः २७

28 यावद्भूमिर्व्युदकेत्येके ...{Loading}...

यावद्भूमिर्व्युदकेत्येके २८

29 एकेन द्वाभ्यां वैतेषामाकालम् ...{Loading}...

एकेन द्वाभ्यां वैतेषामाकालम् २९

30 सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते ...{Loading}...

सूर्याचन्द्रमसोर्ग्रहणे भूमिचलेऽपस्वान उल्कायामग्न्युत्पाते च सर्वासां विद्यानां सार्वकालिकमाकालम् ३०

31 अभ्रञ् चापर्तौ सूर्याचन्द्र ...{Loading}...

अभ्रं चापर्तौ सूर्याचन्द्र मसोः परिवेष इन्द्र धनुः प्रतिसूर्यमत्स्यश्च वाते पूतीगन्धे नीहारे च सर्वेष्वेतेषु तावन्तं कालम् ३१

32 मुहूर्तं विरते वाते ...{Loading}...

मुहूर्तं विरते वाते ३२

33 सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ...{Loading}...

सलावृक्यामेकसृक इति स्वप्नपर्यान्तम् ३३

34 नक्तञ् चारण्येऽनग्नावहिरण्ये वा ...{Loading}...

नक्तं चारण्येऽनग्नावहिरण्ये वा ३४

03 अथापि वाजसनेयिब्राह्मणम् ब्रह्मयज्ञो ...{Loading}...

अथापि वाजसनेयिब्राह्मणम् । ब्रह्मयज्ञो ह वा एष यत्स्वाध्यायस्तस्यैते वषट्कारा यत्स्तनयति यद्विद्योतते यदवस्फूर्जति यद्वातो वायति । तस्मात्स्तनयति विद्योतमानेऽवस्फूर्जति वाते वा वायत्यधीयीतैव वषट्काराणामच्छम्बट्कारायेति ३

04 तस्य शाखान्तरे वाक्यसमाप्तिः ...{Loading}...

तस्य शाखान्तरे वाक्यसमाप्तिः ४

05 अथ यदि वातो ...{Loading}...

अथ यदि वातो वा वायात् स्तनयेद् वा विद्योतेत वावस्फूर्जेद् वैकां वर्चमेकं वा यजुरेकं वा सामाभिव्याहरेद्भूर्भुवः सुवः सत्यं तपः श्रद्धायां जुहोमीति वैतत् । तेनो हैवास्यैतदहः स्वाध्याय उपात्तो भवति ५

06 एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ...{Loading}...

एवं सत्यार्यसमयेनाविप्रतिषिद्धम् ६

07 अध्यायानध्यायं ह्युपदिशन्ति तदनर्थकं ...{Loading}...

अध्यायानध्यायं ह्युपदिशन्ति । तदनर्थकं स्याद्वाजसनेयिब्राह्मणं चेदवेक्षेत ७

08 आर्यसमयो ह्यगृह्यमानकारणः ...{Loading}...

आर्यसमयो ह्यगृह्यमानकारणः ८

सपरिहार-व्यवधानानि

22 छर्दयित्वा स्वप्नान्तम् ...{Loading}...

छर्दयित्वा +++(=वमित्वा)+++ स्वप्नान्तम् +++(नाधीयीत)+++। २२

23 सर्पिर्वा प्राश्य ...{Loading}...

सर्पिर्वा प्राश्य +++(अधीयीत)+++। २३

13 ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्सम्भाषितुम् ब्राह्मणेन ...{Loading}...

ब्रह्माध्येष्यमाणो मलवद्वाससेच्छन्संभाषितुं ब्राह्मणेन संभाष्य तया संभाषेत संभाष्य तु ब्राह्मणेनैव संभाष्याधीयीत । एवं तस्याः प्रजानिःश्रेयसम् १३

13 श्रोत्रियाभ्यागमेऽधिजिगांसमानो… ...{Loading}...

श्रोत्रियाभ्यागमे ऽधिजिगांसमानो ऽधीयानो वा ऽनुज्ञाप्याधीयीत १३

14 अध्यापयेद्वा ...{Loading}...

अध्यापयेद् वा १४

15 गुरुसन्निधौ चाधीहि भो ...{Loading}...

गुरुसंनिधौ चाधीहि भो इत्य् +++(आत्मगतम्)+++ उक्त्वाधीयीत १५

16 अध्यापयेद्वा ...{Loading}...

अध्यापयेद् वा १६

17 उभयत उपसङ्ग्रहणमधिजिगांसमानस्याधीत्य च ...{Loading}...

उभयत उपसंग्रहणम् अधिजिगांसमानस्याधीत्य च १७+++(5)+++

18 अधीयानेषु वा यत्रान्यो ...{Loading}...

अधीयानेषु वा यत्रान्यो व्यवेयाद् +++(=मध्ये गच्छेत्)+++, एतम् एव शब्दम् +++(=अधीहि भोः)+++ उत्सृज्याधीयीत १८

स्थानम्

04 निगमेष्वध्ययनं वर्जयेत् ...{Loading}...

निगमेष्वध्ययनं वर्जयेत् ४

05 आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ...{Loading}...

आनडुहेन वा शकृत्पिण्डेनोपलिप्तेऽधीयीत ५

06 श्मशाने सर्वतः शम्याप्रासात् ...{Loading}...

श्मशाने सर्वतः शम्याप्रासात् ६

07 ग्रामेणाध्यवसिते क्षेत्रेण वा ...{Loading}...

ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः ७

08 ज्ञायमाने तु तस्मिन्न् ...{Loading}...

ज्ञायमाने तु तस्मिन्न् एव देशे नाधीयीत ८

09 श्मशानवच्छूद्र पतितौ ...{Loading}...

श्मशानवच्छूद्र पतितौ ९

10 समानागार इत्येके ...{Loading}...

समानागार इत्येके १०

11 शूद्रा यान् तु ...{Loading}...

शूद्रा यां तु प्रेक्षणप्रतिप्रेक्षणयोरेवानध्यायः ११

12 तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायाम् ...{Loading}...

तथान्यस्यां स्त्रियां वर्णव्यतिक्रान्तायां मैथुने १२

14 अन्तःशवम् ...{Loading}...

अन्तःशवम् १४

15 अन्तश्चाण्डालम् ...{Loading}...

अन्तश्चाण्डालम् १५

16 अभिनिर्हृतानान् तु सीम्न्यनध्यायः ...{Loading}...

अभिनिर्हृतानां तु सीम्न्यनध्यायः १६

17 सन्दर्शने चारण्ये ...{Loading}...

संदर्शने चारण्ये १७

27 पृष्ठारूढः पशूनान् नाधीयीत ...{Loading}...

पृष्ठारूढः पशूनां नाधीयीत २७

24 पूतीगन्धः ...{Loading}...

पूतीगन्धः २४

08 वायुर्घोषवान्भूमौ वा तृण ...{Loading}...

वायुर्घोषवान्भूमौ वा तृण संवाहो वर्षति वा यत्र धाराः प्रवहेत् ८

09 ग्रामारण्ययोश्च सन्धौ ...{Loading}...

ग्रामारण्ययोश्च सन्धौ ९

10 महापथे च ...{Loading}...

महापथे च १०

16 तथा वृक्षमारूढः ...{Loading}...

तथा वृक्षमारूढः १६

17 अप्सु चावगाढः ...{Loading}...

अप्सु चावगाढः १७

18 नक्तञ् चापावृते ...{Loading}...

नक्तं चापावृते १८

19 दिवा चापिहिते ...{Loading}...

दिवा चापिहिते १९

क्रमः

17 उभयत उपसङ्ग्रहणमधिजिगांसमानस्याधीत्य च ...{Loading}...

उभयत उपसंग्रहणम् अधिजिगांसमानस्याधीत्य च १७+++(5)+++

+++(अन्यत्रोक्तः - उपनयनम्, स्वाध्यायः, अध्यापकः, अभिवादनम्, समावर्तनम्।)+++