०१ प्रथम-संस्करण-भूमिका

गौतम-प्रणीत-धर्म-सूत्रेषु प्रथम-प्रश्ने अष्टमेऽध्याये

राजा ब्राह्मणश्च द्वौ
दण्डोपदेशाभ्यां सर्वस्य धारयितारौ
मनुष्य-स्थावर-पशु-पक्षि-सरीसृपादीनां जीवनं तद्-उभयायत्तम् ।
न केवलं जीवनम्, अभिवृद्धिः रक्षणम् इत्यादिकम् अपि तद्-अधीनम्।
तत्र ब्राह्मणः लोक-व्यवहार-वेद-वेदाङ्ग-वाकोवाक्येतिहास-पुराणेषु कुशलः
तद्-उक्त-कर्मानुष्ठाता चत्वारिंशत्-संस्कारैः संस्कृतः
इज्याध्ययन-दानेषु त्रिषु
इज्याध्ययन-दान-प्रतिग्रह-याजनाध्यापनेषु षट्सु वा कर्मसु
अभिरतः स्मार्तधर्मेषु शिक्षितः स्यात्

इत्युक्तम् ।

ततः गर्भाधान-पुंसुवन-सीमन्तोन्नयन-जातकर्म–नामकरणान्नप्राशन–चौलोपनयनानि,
चत्वारि वेदव्रतानि, स्नानं,
विवाहः,
पञ्च-महा-यज्ञानुष्ठानम्,
अष्टका, पार्वणः, श्राद्धं, श्रावण्य्, आग्रहायणी, चैत्री, आश्वयुजी इति सप्त पाकयज्ञसंस्थाः,
अग्न्याधेयम् अग्निहोत्रम् दर्शपूर्णमासौ आग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणिः इति सप्त हविर्-यज्ञ-संस्थाः,
अग्निष्टोमः, अत्यग्निष्टोमः, उक्थ्यः, षोडशी, वाजपेयः, अतिरात्रः, अप्तोर्यामः इति सप्त सोमसंस्थाः
इत्येवं संस्काराश् चत्वारिंशत् इत्युक्तम् ।

एतेषां संस्काराणाम् अनुष्ठान-क्रमस्य बोधका ग्रन्थाः प्रयोग-ग्रन्थाः इत्य् उच्यन्ते ।
तेषां साहाय्येनैव पुरोहिता अनुष्ठानं कारयन्ति
स्वयं चानुतिष्ठन्ति ।
तेषु चत्वारिंशतः संस्काराणाम् अनुष्ठाने अशक्ताः
प्रायः गर्भाधान-पुंसुवन-सीमन्त-जातकर्म-नामकरणान्नप्राशन-चौलोपनयन-वेदव्रत-स्नान-विवाह–पञ्च-महायज्ञसंस्थाः अनुतिष्ठन्ति ।
तेष्व् अपि कतिपय-संस्कारान् अशक्त्या केचित् वर्जयन्ति ।
अतः प्रायः सर्वैर् अनुष्ठीयमानानां संस्काराणां तद्-उपयोगि-कर्मणां च +अनुष्ठान-क्रम-बोधकः
विशिष्य श्रीवैष्णवैः आद्रिमाणः
प्रयोगचन्द्रिकाख्यः ग्रन्थः प्रसिद्धः ।

अयं ग्रन्थः नैध्रुव-काश्यपान्वय-श्रीनिवासाचार्य-सूनुना वीरराघवाचार्येण विरचितः ।
प्रयोगचन्द्रिकायाः अतिसंक्षिप्तत्वात्
तत्र पूर्णतया मन्त्राणाम् अनिर्देशाच् च
स्पष्ट-प्रतिपत्त्य्-अर्थं
प्रयोग-चन्द्रिकानुसारी समन्त्रकानुक्रमणिका-ग्रन्थः
चन्द्रिका-कृद्-भागिनेय-पुत्रेण वङ्गी-वंश्येन रामानुज-दीक्षित-सूनुना श्रीनिवासाचार्येण विरचितः ।

इयम् अनुक्रमणिकासहिता प्रयोग-चन्द्रिका सर्वोपकारिका
सप्तति-वर्षेभ्यः प्राक् ग्रन्थ-लिप्यां मुद्रापिता
बहुकालात् प्राग् एव दुर्लभाऽभूत् ।
देवनागरलिप्याम् अद्य यावत् न मुद्रापिता च ।
अतः ग्रन्थ-दौर्लभ्यं देवनागर-लिप्यां मुद्रणाभावेन
बहूनां क्लेशं च +अपगमयितुम्
इदानीं देवनागरलिप्याम् इदम्-प्रथमतया मुद्राप्यते ।

सङ्कल्पोऽयं डि.टि.ताताचार्य इति प्रख्यातानां पण्डितराजानां विंशतिवर्षेभ्यः पूर्वमेवासीत् ।
नावल्पाकाग्रहारनिवासिनं पण्डितवर्यं ना.गो.रामानुजाचार्यं नियुज्य
तद्-द्वारा देवनागरलिप्यां प्रतिलिपिम् अपि समपादयन् ।
सैव प्रतिलिपिः मुद्रणार्थम् अस्माभिः स्वीकृता ।

मुद्रणार्थ-द्रव्य-साहाय्यार्थं देव-स्थानाधिकारिणः प्रार्थिताः ।
तैश् च साहाय्यमनुमतम् ।
तदनन्तरं सत्य-सायि-मुद्रणालये ग्रन्थः दत्तः ।
त्रिंशत्पृष्ठ-मुद्रणानन्तरं मन्त्राणां सस्वरं मुद्रणं साधु स्याद् इति मत्वा
स्वरचिह्नादिकं निवेश्य पुनर्दत्तः ।
परन्तु मुद्रणालये चिह्नाभावात् यन्त्रसौष्ठवाभावाच् च तदधिकारी नान्वमन्यत ।
इयम् अत्र न्यूनता पूर्वसमालोचन-विरहात् अपरिहार्या संवृत्ता ।
अथापि देवनागरलिप्यां मुद्रणं जातम् इति सर्वे सन्तुष्येयुर् इति विश्वसिमि ।

कालानुसारेण देवनागरलिप्यां मुद्रणेऽपि क्लेशो जायते ।
बहवो मुद्रणालयाः पिहिताश्च ।
अतः तिरुपति-स्थ-सत्य-सायि-मुद्रणालये मुद्रण-व्यवस्था कृता ।
तत्राप्य् अक्षराणि भग्नानि सन्ति,
समर्थः कर्मकरोऽपि नास्ति ।
अत एवाशुद्धयः समापतिताः ।
शुद्धाशुद्ध-पट्टिका अन्ते निवेशिता ।
तदनुसारेण तत्र तत्र पृष्ठे शोधनं कृत्वा ग्रन्थम् इमम् उपयुञ्जताम् इति ।

द्रविण-साहाय्यम् उपकल्पितवद्भ्यः तिरुमल-तिरुपति-देवस्थानाधिकारिभ्यः,
देवनागरलिप्यां प्रतिलिपिं कृतवद्भ्यः एन्. रामानुजाचार्येभ्यः,
अपेक्षितं शोधनं कृतवद्भ्यः वी. आर्. वेङ्कटदीक्षितमहाशयेभ्यः,
सत्यसायि-मुद्रणालयाधिकारिभ्यश् च
कृतज्ञतां निवेदयामि ।
स्वर्गस्थाः डि.टि. ताताचार्यस्वामिनः
एतन्मुद्रणेन सन्तुष्टाः स्युः
ये किल ग्रन्थस्यास्य देवनागर्यां मुद्रणं प्रथमतः समकल्पयन् ।

तिरुप्पति
२४-१०-१९८९

विद्वज्जनविधेयः
एन्.एस्.रामानुजताताचार्यः