३१ उत्तरशान्तिपाठः

मदन्तीरुपस्पृश्य शन्नो वातः पवताम् इति शान्तिं कुर्वंति । शन्नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नश्शꣳ रात्रिः प्रतिधीयताम् । शमुषा नो व्युच्छतु शमादित्य उदेतु नः । शिवा नश्शन्तमा भव सुमृडीका सरस्वति । मा ते व्योम सन्दृशि । इडायै वास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्छिथ्स्मह्यवास्तुस्स भूयाद्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्छिथ्स्मह्यप्रतिष्ठस्स भूयाद्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ आ वात वाहि भेषजं वि वात वाहि यद्रपः । त्वꣳ हि विश्वभेषजो देवानां दूत ईयसे ॥ द्वाविमौ वातौ वात आ सिन्धोरा परावतः । दक्षम्मे अन्य आवातु परान्यो वातु यद्रपः ॥ यददो वात ते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम् ॥ ततो नो मह आवह वात आवातु भेषजम् । शम्भूर्मयोभूर्नो हृदे प्र ण आयूꣳषि तारिषत् । इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः । सह यन्मे अस्ति तेन । भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येऽनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ओं प्रपद्ये । अन्तरिक्षम्म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातस्वस्त्या स्वस्तिमान् तया स्वस्त्या स्वस्तिमानसानि । प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥ द्युभिरक्तुभिः परिपात-मस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिस्सिन्धुः पृथिवी उत द्यौः ॥ कया नश्चित्र आ भुवदूती सदावृधस्सखा । कया शचिष्ठया वृता ॥ कस्त्वा सत्यो मदानां मꣳहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥ अभीषुणस्सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ॥ वयस्सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् ॥ सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वश्शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचꣳ शमयतु । अन्तरिक्षꣳ शान्तं तद्वायुना शान्तं तन्मे शान्तꣳ शुचꣳ शमयतु । द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचꣳ शमयतु । पृथिवी शान्तिरन्तरिक्षꣳ शान्तिर्द्यौश्शान्तिर्दिशश्शान्तिरवान्तर-दिशाश्शान्तिरग्निश्शान्तिर्वायुश्शान्तिरादित्यश्शान्तिश्चन्द्रमाश्शान्तिर्नक्षत्राणि शान्तिराप-श्शान्तिरोषधयश्शान्तिर्वनस्पतयश्शान्तिर्गौश्शान्तिरजा शान्तिरश्वश्शान्तिः पुरुषश्शान्तिर्ब्रह्म शान्तिर्ब्राह्मणश्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः । तयाहꣳ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः । एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माꣳ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः ॥ उदायुषा स्वायुषोदोषधीनाꣳ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताꣳ अनु ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥ पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतꣳ शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्च सूर्यं दृशे ॥ य उदगान्महतोऽ-र्णवाद्विभ्राजमानस्सरिरस्य मध्यात्स मा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥ ब्रह्मणश्चोतन्यसि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेऽयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवीꣳ सदेवां यदहं वेद तदहं धारयाणि मा मद्वेदोऽधि विस्रसत् । मेधामनीषे मा विशताꣳ समीची भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि सर्वमायुरयाणि ॥ आभिर्गीर्भिर्यदतो न ऊनमा प्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ॥ ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥ ओं शान्तिः शान्तिः शान्तिः ॥