४५ सवनीय सायन्दोहः

अत्र प्रतिप्रस्थाता पयस्यार्थं सायन्दोहं दोहयति । अग्निं १ परिस्तीर्येत्यादि । कामधुक्षः प्र णो ब्रूहि मित्रावरुणाभ्यां हविरिन्द्रियम् । बहुदुग्धि मित्रावरुणाभ्यां देवेभ्यः । सोमेन त्वाऽऽतनच्मि मित्रावरुणाभ्यां दधि । उच्छेषणस्थाने तण्डुलैरातञ्चनम् । प्रातर्दोहाय वत्सानपाकरोतीत्यन्तं प्रकृतिवत् । अध्वर्युस्संप्रेष्यति या यजमानस्य व्रतधुक् तस्या आशिरं कुरुत,२ या पत्न्यै तस्यै दधिग्रहाय, या घर्मधुक् तस्यै दधि घर्माय, तप्तमनातक्तं मैत्रावरुणाय, शृतातङ्क्यं दधि कुरुतादित्यग्रहाय, सुब्रह्मण्य सुब्रह्मण्यामाह्वय न सदस्युपवस्तवै । प्रतिप्रस्थाता पञ्चदोहानां पाकं लौकिकाग्नौ कृत्वा आतञ्चनादि तूष्णीं सर्वं करोति ।