ब्रह्मयज्ञः

विधानम्

01 तपः स्वाध्याय इति ...{Loading}...

तपः स्वाध्याय इति ब्राह्मणम् १

02 तत्र श्रूयते स ...{Loading}...

तत्र श्रूयते । स यदि तिष्ठन्न् आसीनः शयानो वा स्वाध्यायमधीते तप एव तत्तप्यते तपो हि स्वाध्याय इति २

क्रमः

21 नित्यप्रश्नस्य चाविधिना ...{Loading}...

नित्यप्रश्नस्य चाविधिना २१

22 तस्य विधिः ...{Loading}...

तस्य विधिः २२

23 अकृतप्रातराश उदकान्तङ् गत्वा ...{Loading}...

अकृतप्रातराश उदकान्तं गत्वा प्रयतः शुचौ देशेऽधीयीत यथाध्यायम् उत्सृजन् वाचा २३

24 मनसा चानध्याये ...{Loading}...

मनसा चानध्याये २४

25 विद्युति चाभ्यग्रायां स्तनयित्नाव् ...{Loading}...

विद्युति चाभ्यग्रायां स्तनयित्नाव् अप्रायत्ये प्रेतान्ने नीहारे च मानसं परिचक्षते २५

26 श्राद्धभोजन एवैके ...{Loading}...

श्राद्धभोजन एवैके २६

रात्रौ

12 अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः ...{Loading}...

अनध्यायो निशायाम् +++(=रात्रेर् मध्यभागः)+++ - अन्यत्र धर्मोपदेशाच् छिष्येभ्यः १२

13 मनसा वा स्वयम् ...{Loading}...

मनसा वा स्वयम् +++(अधीयीत)+++॥ १३ ॥

14 ऊर्ध्वम् अर्धरात्राद् अध्यापनम् ...{Loading}...

ऊर्ध्वम् अर्धरात्राद् अध्यापनम् १४

15 नापररात्रमुत्थायानध्याय इति संविशेत् ...{Loading}...

नापररात्रम् उत्थायानध्याय इति संविशेत् १५

16 काममपश् शयीत ...{Loading}...

कामम् +++(स्तम्बादिषु लीनः)+++ अपश्-शयीत १६

17 मनसा वाधीयीत ...{Loading}...

मनसा वाधीयीत १७

+++(अन्यत्रोक्तः - अनध्याय-विषयः)+++