पाकयज्ञेष्वग्निहोत्राधारितो विधिः

तत्र प्रयोगः–

  • अग्निमिध्वा, परिसमूह्य, परिस्तीर्य, पर्युक्ष्य,

  • आज्यहोमेष्वाज्यं संस्कृत्य, पक्वहोमेषु स्थालीपाकं,

  • स्रुक्स्रुवं संमृज्य,

  • यावत्प्रधानाहुति चतुर्गृहीतानि पञ्चगृहीतानि वा समवद्यति । यत्रोभयं हविस् तत्र तस्योभयस्य, यथा मासिश्राद्धे ।

  • ततः पश्चाद् अग्नेर् बर्हिष्य् उपसाद्य, पालाशीं समिधमाधाय,

  • सर्वान् एव मन्त्रान् समनुद्रुत्य, सकृदेव प्रधानाहुतीर्हुत्वा,

  • प्रातरग्निहोत्रवल् लेपम् अपमृज्य, बर्हिषि निमार्ष्टि यद्य् अहनि कर्म । अथ रात्रौ सायमग्निहोत्रवत् ।

  • ततस्सौविष्टकृतीं द्वितीयाम् आहुतिं उत्तराहुतिवज्जुहोति - “अग्नये स्विष्टकृते स्वाहे"ति स्थालीपाकेषु । “यदस्य कर्मणि …” इत्याज्यहोमेषु । ईशानयज्ञे तु कर्म तत्र चोदितेन मन्त्रेण ।

  • ततः पूर्ववल् लेपम् अवमृज्य प्राचीनावीती दक्षिणतो भूमौ निर्मार्ष्टि । अप उपस्पृश्य।

  • तत उपवीती स्रुचं सादयित्वा

  • अङ्गुलिप्राशनादि-निर्लेपनान्तम् अग्निहोत्रवत् ।

  • ततो दर्भैः सुक्-प्रक्षालनं,

  • ततः परिसमूहन-पर्युक्षणे ।